सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 91, कुल 516 में से
संदर्भ में पढ़ें| ७६ | सुभाषितरत्नभाण्डागारम् | [ २ प्रकरणम् |
|---|
ईश्वरः । तस्याश्चेत्प्रसरो दत्तो दासं च शिरसि स्थितम् ॥ ३ ॥ बलिभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः । गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥ ४ ॥ नास्त्यन्या तृष्णया तुल्या कापि स्त्री सुभगा क्वचित् । या प्राणानपि मुष्णन्ती भवत्येवाधिकं प्रिया ॥ ५ ॥ च्युता दन्ता सिता केशा दृष्टिश्रोवः पदे पदे । पातसज्जमिमं देहं तृष्णा साध्वी न मुञ्चति ॥ ६ ॥ तृष्णे त्वमपि तृष्णार्ता त्रिषु स्थानेषु रज्यसि । व्यावितेष्वनपत्येषु जरापरिणतेषु च ॥ ७ ॥ तृष्णे देवि नमस्तुभ्यं या त्वं सर्वस्य सर्वदा । उत्पादयस्यत्नेन गोष्पदे सागरभ्रमम् ॥ ८ ॥ अपि मेरूपमं प्राज्ञमपि शूरमपि स्थिरम् । तृणीकरोति तृष्णैका निमेषेण नरोत्तमम् ॥ ९ ॥ आशा नाम मनुष्याणां काचिदाश्चर्यशृङ्खला । यया बद्धाः प्रधावन्ति मुक्तास्तिष्ठन्ति पङ्गुवत् ॥ १० ॥ तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् । येनाशा पृष्ठतः कृत्वा नैराश्यमवलम्बितम् ॥ ११ ॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें