सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 90, कुल 516 में से
संदर्भ में पढ़ेंपरोपकारप्रशंसा, कृतघ्ननिन्दा, संतोषप्रशंसा, तृष्णानिन्दा ७५
द्वार्द्रकरा ॥ ९ ॥ परोपकाराय फलन्ति वृक्षा परोप-
काराय वहन्ति नद्यः । परोपकाराय दुहन्ति गावः परोप-
कारार्थमिदं शरीरम् ॥ १० ॥ भवन्ति नम्रास्तरव फलोद्ग-
मैर्नवाम्बुभिर्भूरिविलम्बिनो घनाः । अनुद्धता सत्पुरुषाः समृ-
द्धिभि स्वभाव एवैष परोपकारिणाम् ॥ ११ ॥ ^१श्रोत्रं
श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कणेन । विभाति
काय खलु सज्जनाना परोपकारेण न चन्दनेन ॥ १२ ॥
पद्माकर दिनकरो विकचं करोति चन्द्रो विकासयति कैरव-
चक्रवालम् । नाभ्यर्थितो जलधरोऽपि जलं ददाति सन्तः
स्वयं परहितेषु कृताभियोगाः ॥ १३ ॥ दातुः परोप-
कृतिनिर्भरचित्तवृत्तेरासन्नदूरगणना नहि संश्रितेषु । भानुर्वि-
कासयति हन्त सरोजखण्डं पाणिस्थपङ्कजसमं भुवनान्त-
रेषु ॥ १४ ॥
कृतघ्ननिन्दा
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा । निष्कृति-
र्विहिता लोके कृतघ्ने नास्ति निष्कृतिः ॥ १ ॥ उपकारिणि
विश्रब्धे शुद्धमतौ यः समाचरति पापम् । तं जन^५मसत्यसंधं
भगवति वसुधे कथं वहसि ॥ २ ॥ ^६व्योमनि शम्बाकुरुते
चित्रं ^७निर्माति यत्नतः सलिले । क्षपयति पवनं सलिलैर्यस्तु
खले चरति सत्कारम् ॥ ३ ॥ शोकं मा कुरु कुँक्कुर सत्त्वे-
ष्वधमधम इति मुँथा साधो । कष्टातपि कष्टतर दृष्ट्वा श्वानं
कृतघ्ननामानम् ॥ ४ ॥
संतोषप्रशंसा
संतोषामृततृप्ताना यत्सुखं शान्तचेतसाम् । कुतस्तद्धन-
लुब्धानामितश्चेतश्च धावताम् ॥ १ ॥ अकृत्वा परसंताप-
मगत्वा खलनम्रताम् । अनुत्सृज्य सता मार्गं यत्स्वल्पमपि
तद्वँहु ॥ २ ॥ आगमिष्यन्ति ते भावा ये भावा मयि भाविनः ।
अहं तैरनुगन्तव्यो न तेषामन्यतो गति ॥ ३ ॥ यो मे
गर्भगतस्यापि ^११वृत्तिं कल्पितवान्स्वयम् । शेषे^१२वृत्तिविधाने च
स कि सुप्तोऽथवा मृतः ॥ ४ ॥ अचिन्तितानि दुःखानि
यथैवायान्ति देहिनाम् । सुखान्यपि तथा मन्ये दैन्यमत्रा-
तिरिच्यते ॥ ५ ॥ पञ्चमेऽहनि षष्ठे वा शाकं पचति यो
गृहे । अनृणी चाप्रवासी च स वारिचर मोदते ॥ ६ ॥
- १ कर्ण
- २ शास्त्रेण
- ३ कासारम्
- ४ कुमुदमण्डलम्
- ५ असत्यप्रतिज्ञम्
- ६ व्योमन्याकाशे शम्बाकुरुते हलेन क्षेत्र वारद्वय कर्षति
- ७ आलेख्यम्
- ८ पूजाम्
- ९ हे भषक
- १० व्यर्थम्
- ११ जीवनोपायम्
- १२ इहोदरनिर्वाहादिप्रबन्धे
- १३ विशिष्यते
आत्माधीनशरीराणा खपता निद्रया खया । कँदन्नमपि
मर्त्यानाममृतत्वाय कल्पते ॥ ७ ॥ सर्वत्र संपदस्तस्य
संतुष्टं यस्य मानसम् । उपानद्गूढपादस्य ननु चर्मावृतेव
भू ॥ ८ ॥ ते धन्या पुण्यभाजँस्ते तैस्तीर्णः क्लेशसागरः ।
जगत्समोहननी यैराशाशीविषी जिता ॥ ९ ॥ अकिंच-
नस्य दान्तस्य शान्तस्य समचेतसः । सदा संतुष्टमनसः
सर्वा सुखमया दिश ॥ १० ॥ न योजनशत दूर बाध्य-
मानस तृष्णया । संतुष्टस्य कराग्रेऽप्यर्थे भवति नादरः
॥ ११ ॥ अर्थी करोति दैन्य लब्धार्थो गर्वमपरितोषं च ।
नष्टधनश्च स शोक सुखमास्ते नि स्पृहः पुरुषः ॥ १२ ॥
तन्मूल गुरुतायास्तत्सौख्य तद्यशस्तदौर्जित्यम् । तत्सौ-
भाग्य पुंसा यदेतदप्रार्थनं नाम ॥ १३ ॥ सर्पाः पिबन्ति
पवन न च दुर्बलास्ते शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति ।
कन्दै फलैर्मुनिवरा क्षपयन्ति कालं संतोष एव पुरुषस्य
पर निधानम् ॥ १४ ॥ चीराणि किं पथि न सन्ति दिशन्ति
भिक्षा ^७नैवाङ्घ्रिपाः फलभृतः सरितोऽप्यशुष्यन् । रुद्धा गुहाः
किमजितोऽवति नोपपन्नान्कस्माद्भजन्ति कवयो धनदुर्म-
दान्धान् ॥ १५ ॥ मन्निन्दया यदि जनः परितोषमेति
नन्वप्रयत्नसुलभोऽयमँनुग्रहो मे । श्रेयोर्थिनोऽपि पुरुषाः
पैरेस्तुष्टिहेतोर्दु:खार्जितान्यपि धनानि परित्यजन्ति ॥ १६ ॥
वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या सम इह परितोषो
निर्विशेषो विशेषः । स हि भवति दरिद्रो यस्य तृष्णा
विशाला मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः ॥ १७ ॥
गन्धाढ्या नवमल्लिका मधुकरस्त्यक्त्वा गतो यूथिका तां
दृष्ट्वाशु गत. स चन्दनवनं पश्चात्सरोजं गतः । बद्धस्तत्र
निशाकरेण सहसा रोदित्यसौ मन्दधीः संतोषेण विना परा-
भवपदं प्राप्नोति सर्वो जनः ॥ १८ ॥ मृत्युर्माद्यति मूर्ध्नि
श्वशुरदुरी घोरा जरारूपिणी त्वामेषा ग्रसते परिग्रहमयै-
र्गृध्रैर्जगद्ग्रस्यते । धूत्वा बोधजलैरबोधबहुलं तल्लोभजन्यं रजः
संतोषामृतसागरारम्भसि चिरं मग्नः सुखं स्थास्यसि ॥ १९ ॥
तृष्णानिन्दा
तृष्णे देवि नमस्तुभ्यं धैर्यविप्लैवकारिणि । विष्णूस्त्रैलोक्य-
नाथोऽपि यत्त्वया वाँमनीकृतः ॥ १ ॥ तृष्णे कृष्णेऽपि ते
शक्तिर्दृष्टा मर्त्येषु का कथा । त्रैलोक्यव्यापि यद्रूपं तद्रूपं
वामनीकृतम् ॥ २ ॥ तृष्णा चेह परित्यज्य को दरिद्रः क
- २ कुत्सितमन्नम्
- २ उपानभ्यां गूढौ पिहितौ पादौ यस्य.
- ३ सर्पिणी.
- ४ गौरवस्य
- ५ उत्साहशीलत्वम्
- ६ अयाचनम्
- ७ वृक्षा
- ८ भगवान्
- ९ संतोषम्
- १० प्रसाद
- ११ कल्याणोच्छव०
- १२ अन्यसंतोष
- १३ विलयम्
- १४ ह्रस्वीकृत .