सामग्री पर जाएँ
सर्वकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 340, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 340

प्रभातवर्णनम्, प्रभातवायुवर्णनम् । ३२५


सरोरुहवनश्रीकेलिकारा करा. ॥ ५३ ॥ द्वित्रैर्व्योम्नि
पुराणमौक्तिकमणिरुच्छाये स्थित तारकज्योत्स्नापानमरालसेन
वपुषा मत्ताश्चकोराङ्गना । यान्तोऽस्ताचलचूलमुद्धसमधुच्छत्र-
च्छविश्चन्द्रमाः प्राची बालबिडाललोचनरुचा जाता च
पात्रं ककुप् ॥ ५४ ॥ जाता. पक्वपलाण्डुपाण्डुमधुरुच्छाया-
किरस्तारका. प्राचीमङ्कुरयन्ति किंचन रुचो राजीवजीवा-
तव. । लूतातन्तुवितानवर्तुलमतो बिम्बं दधच्चुम्बति प्रात.
प्रोषितरोचिरम्बरतलादस्ताचलं चन्द्रमा ॥ ५५ ॥ प्राची-
विभ्रमकर्णिकाकमलिनीसंवर्तिका संप्रति द्वे तिस्रो रमणीय-
मम्बरमणेर्धाम्नोच्चरन्ते रुच । सूक्ष्मोच्छ्वासमपीदमूत्सुकतया
सभूय कोषाद्बहिर्निष्क्रामद्भ्रमरौघसम्भ्रमभरादम्भोजमुज्जृम्भते
॥५६॥ एकद्विप्रभृतिक्रमेण गणनामेषामिवास्तं यता कुर्वाणा
समकोचयद्दशशतान्यम्भोजसंवर्तिका. । भूयोऽपि क्रमश.
प्रसारयति ताः सप्रत्यमूनूद्यता संख्यातु सकुतूहलेव नलिनी
भानो. सहस्रं करान् ॥ ५७ ॥ प्रत्यासन्नसुरेन्द्रसिन्धुरशिरः-
सिन्दूरसान्द्रारुणा यत्तेजस्स्ररेणवो वियदित प्राचीनमाचि-
न्वते । शङ्के संप्रति यावदभ्युदयते तत्तत्कुटङ्कोन्मजारज्य-
द्बिम्ब्रजश्छटावलयितो देवस्तिवषामीश्वरः ॥ ५८ ॥ प्रत्यग्र-
ज्वलित. पतङ्गमणिभिर्नीराजिता भानव. सावित्रा कुरुविन्द-
कन्दलरुचः प्राचीमलंकुर्वते । प्रौढध्वान्तकरालितस्य वपुष-
श्छायाछलेन क्षणादप्रक्षालितनिर्मलं जगदहो निर्मोक-
मुन्मुञ्चति ॥ ५९ ॥ स्तोकोन्निद्रनिदाघदीधितिमहस्तन्द्रालु-
चन्द्रातपास्तायन्ते ककुभो रथाङ्गगृहिणीगार्हस्थ्यगर्हाभिद. ।
अद्यापि श्वकुलायशंखिशिरसि स्थित्वा रुवन्तो मुहुस्तूर्णां
प्रत्यभिजानते बलिभुजो भीताः स्वयूथ्यस्वरान् ॥६०॥ प्राचीं
वासकसज्जिकामुपगते भानौ दिशा वल्लभे पश्यैता रुच्यः
पतङ्गधषदामार्येयनाडिघमाः । लोकस्य क्षणदानिरङ्कुशरसो
सभोगनिद्रागमो कोकद्वन्द्वकुमुद्वतीविपिनयोर्निक्षेपमातन्वते
॥ ६१ ॥ मालिन्य परिदृश्यते हिमरुचौ मन्दश्रियस्तारका.
शीताः केचन सचरन्ति कमलामोदस्पृशो मारुता । आसी-
दन्ति च चक्रवाकमिथुनान्यन्योन्यमुत्कण्ठया पादैस्ताडित-
कैरवा मधुलिहो गच्छन्ति पद्माटवीम् ॥ ६२ ॥ किचिद्धि
श्लथकेशवान्तकुसुमाः क्रीडाविलोलांशुका लुप्तांलुप्तशरीरचन्द-
नतया लोकैकनेत्रोत्सवा. । समोगश्रमविह्वलेरवयवै. सकेत-
शालांन्तराच्छिद्राशेषकषायितार्धनयना निर्यान्ति वाराङ्गना.
॥ ६३ ॥ मौरभ्ये चलिते रसे विगलिते चाशालिवर्गे गते
म्लानातीव कुमुद्वतीयमधुना मूर्च्छा परामृच्छति । तामु-
द्वीक्ष्य तथाविधा कमलिनी जाता प्रहासोन्मुखी हन्तोदीक्ष्य
विपन्नवैरिवनिता का वा न संतुष्यति ॥६४॥ आलोकैरति-
पाटलेरचरमा विस्तार्यद्भिर्दिश नक्षत्रद्युतिमाक्षिपद्भिरचिरादा-
शङ्क सूर्योदयम् । पुञ्जीभूय भयादिवान्धतमस मन्ये द्विरेफ-
च्छलान्मीलन्नीलसरोरुहोदरकुटीकोणान्तरे लीयते ॥ ६५ ॥
भिन्दानो मानिनीना पतिषु रुषमय हर्म्यपागावतेभ्यो वाचा-
लत्वं ददान कवितृषु कविताप्रातिभ संदधानः । प्रातस्त्यस्तूर्-
र्यनाद. स्थगयति गगनं मासल पाशुतल्पादखल्यादुत्थिताना
नरवरकरिणा शृङ्खलासिञ्जितेन ॥६६॥ कुर्वन्नासुद्यपृष्ठो मुख-
निकटकटीस्कन्धरोमा तिरश्ची लोलेनाहन्यमानस्तुहिनकण-
मुचा चक्षता केशरेण । निद्राकण्डूकषायं कषति निविडित-
श्रोत्रशुक्तिस्तुरङ्गरुवद्ङ्गत्वक्ष्माग्रलग्नप्रतनुबुसकण कोणमक्षणः
खुरेण ॥ ६७ ॥ कोकानुद्वीवयन्त. पथि पथि कुलटामानस
कम्पयन्त. प्रस्थातार प्रभाते प्रियतममबला गाढमालिङ्ग-
यन्त । उत्थातुं चाङ्गमङ्गी कुलकमलदृशा कारयन्तो निशान्ते
कूंकारा कुक्कुटाना मधुरधुरसमारम्भगम्भीरधीरा. ॥ ६८ ॥

प्रभातवायुवर्णनम्

लता पुष्पवतीं स्पृष्ट्वा स्नातो विमलवारिणा । पुन' सपर्क-
गङ्गीव मन्द चरति मारुत. ॥ १ ॥ लवङ्गलतिकाभङ्ग-
दयालुईक्षणानिल । कथमुन्मूलयत्येष मानिनीमानपर्व-
तान् ॥ २ ॥ सुरतभरखिन्नपन्नगविलासिनीपानकेलिजर्ज-
रितः । पुनरपि विरहश्वासैर्मलयमरुन्मासलीक्रियते ॥ ३ ॥
दरफुल्लकमलकाननसौरभसभारमन्थर. पवनः । दयितोरसि
शयितामपि दयिता संतापयांचक्रे ॥ ४ ॥ भिक्षितकमल-
कुटुम्बा. शिक्षितगजगामिनीगतयः । लक्षितहिमगिरिपादाः
प्रातरमी मातरिश्वान. ॥ ५ ॥ आदाय बकुलगन्धानन्धी-
कुर्वन्पदे पदे भ्रमरान् । अयमेति मन्दमन्दं कावेरीवारि-
पावन. पवन ॥ ६ ॥ अपहाय शनैः पटीरवाटीरिह लाटी-
जनमानलुण्ठनाय । समुदेति मनोजराजधाटीपरिपाटीपटुरेष
गन्धवाह. ॥ ७ ॥ वासो विधूय स्तनयोरमुख्या. कपोल-
कीर्णा कबरीमुदस्य । अवारित प्रोञ्छति वारिधारा मुखे
मृगाक्ष्याः सुकृती समीरः ॥ ८ ॥ अरविन्दवृन्दमकरन्द-
तुन्दिलो मरुदेति मन्दमिह मन्दराचलात् । सुरतान्ततान्त-
सुदतीमतल्लिकाकबरीपरीमलझरीपरीवृत. ॥ ९ ॥ उत्सार्य
कुन्तलमपास्य दुकूलकूलमुन्नाम्य बाहुलतिकामलसास्तरुण्यर ।
स्वेदाम्बुसिक्ततनव स्पृहयन्ति यस्मै तस्मै नम. सुकृतिने
मलयानिलाय ॥ १० ॥ चोलाङ्गनाकुचनिचोलतलानुलीनो
द्राकेरलीविरलकुन्तलकम्पलोलः । लाटीललाटतटशोषणमान-
सोऽय फुल्लारविन्दघनबन्धुरपैति वायु. ॥११॥ वैभातिको मरु-
दनुक्रमवर्धमानपद्माटवीपरिमलप्रसरानुमेयः । आयाति सोऽय-
मलसोत्थितसारसाक्षीपुंभाववृत्यपुनरुद्यमसूनधारः ॥ १२ ॥
झञ्झानिलोऽपि सुरतान्तनितान्ततान्तकान्ताकुचान्तघनधर्म