सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 339, कुल 516 में से
संदर्भ में पढ़ें| ३२४ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
[वामभागः]
दिन्दुपादान्हर्वीषि । अरुणकिरणवह्नौ कन्यका पौरहूति
हरिदपि किमकार्षीत्तारकालाजहोमम् ॥ ३१ ॥ कुमुद-
वनमपश्रिय श्रीमदम्भोजखण्डं त्यजति मुदमैलूकः प्रीतिमा-
ंश्चक्रवाकः । उदयमहिमरश्मिर्याति शीतांशुदस्तं हतविधि-
लसिताना ही विचित्रो विपाकः ॥ ३२ ॥ लुलितनयनतारा-
क्षामवक्त्रेन्दुबिम्बा रजनय इव निद्राक्रान्तनीलोत्पलाक्ष्यः ।
तिमिरमिव दधानाः संसिनः केशपाशान्नवनिपतिगृहेभ्यो
यान्त्यमूर्वार्वध्वः ॥ ३३ ॥ शिथिलयति सरागो यावदर्को
नलिन्याः कमलमुकुलनीवीग्रन्थिमुद्रां करेण । प्रविकसदलि-
माला गुञ्जितैर्मञ्जुशब्दा जनयति मुदमुच्चै कामिना कामि-
नीव ॥ ३४ ॥ नभसि विरलतारा मौक्तकानीव भान्ति
स्फुटरतमयमध्यस्तक्ष्मधार चुम्बतीन्दुः । रविरुदयधरिञ्धीधारि-
मूर्धानमेतुं हृदयमनु नितान्तोल्लासमङ्गीकरोति ॥ ३५ ॥
अभूत्प्राची पिङ्गा रसपतिरिव प्राश्य कनकं गतच्छाय-
श्चन्द्रो बुधजन इव ग्राम्यसदसि । क्षणात्क्षीणास्तारा
नृपतय इवानुद्यमपरा न दीपा राजन्ते द्रविणरहितानामिव
गुणाः ॥ ३६ ॥ इतः शुक्ला चन्द्रद्युतिमिरिह रक्तारुण-
कैरस्तमैश्चर्यपन्तस्खलितगतिमिर्र्चकरुचि । प्रभातश्रीरेषा
विलसति पुरस्था सुकृतिना मिमङ्क्षूणा जह्नुद्युमणिविधिजा-
सगम इव ॥ ३७ ॥ तमोभिः पीयन्ते गतवयसि पीयूषवपुषि
ज्वलिष्यन्मार्तण्डोपलपटलधूमैरिव दिशः । सरोजाना कर्ष-
न्नलिमयमयस्कान्तमणिवत्क्षणादन्तःशल्यं तपति पतिरद्यापि
न रुचाम् ॥ ३८ ॥ इतः पौरस्त्याया ककुभि विवृणोति
क्रमदलन्मिषामर्मणि किरणकलिका मम्बरमणिः । इतो
निष्क्रामन्ती नवरतिगुरोः प्रोञ्छति वधूः स्वकस्तूरीपत्राङ्कुर-
मकरिकासुद्रितसुरः ॥ ३९ ॥ द्रुमाः पाण्डुग्राया धृत-
निबिडगर्भाः स्त्रिय इव प्रफुल्लास्ते कन्दा नृपतिकृतमाना
इव जनाः । पिको मन्द मन्दं हृदि मदननामानि जपति
प्रभोरग्रे पूर्वापरिचितसभाइकः कविरिव ॥ ४० ॥ विरल-
विरलीभूतास्ताराः कलौ सुजना इव व्यपसरति च ध्वान्तं
चित्तात्सतामिव दुर्जनः । मन इव मुनेः सर्वत्रापि प्रसन्नमभू-
न्नभो विगलति निशा क्षिप्रं लक्ष्मीरनुद्यमिनामिव ॥ ४१ ॥
व्रजत्यपरवारिधि रजतपिण्डपाण्डुः शशी न भान्ति जल-
बुद्बुद्युतिसपलिकास्तारकाः । कुरण्टकविपाण्डुरं दधति धाम
दीपाङ्कुराश्चकोरनयनारुणा भवति दिक्कच सौत्रामणी ॥४२॥
अयं मृदुमृणालिनीवनविलासवैहासिकस्तिवा वितपते पति-
सपदि दृश्यमाना निजाः । स्तनौ पुलकयन्ति चोत्पलदृशा
[दक्षिणभागः]
प्रियोरःस्थले विपर्ययितवृत्तयो घुसूणपङ्कपत्राङ्कुराः ॥ ४३ ॥
जृम्भारम्भप्रविततदलोपान्तजालप्रविष्टैर्हस्तैर्भानोर्नृपतय इव
स्पृश्यमाना विबुद्धाः । स्त्रीभिः सार्धं घनपरिमलस्तोक-
लक्ष्याङ्गरागा मुञ्चन्त्येते विकचनलिनीगर्भशय्या द्विरेफाः
॥ ४४ ॥ य सैन्ये स्मरपार्थिवस्य विरहिप्रत्यर्थिना मग्रेणी-
र्ज्योत्स्नानिर्झरसमुज्झति स्म जगता यस्तापनिवारणम् । सोऽय
तारकनायकः किमपर शृङ्गारसजीवन जातः पृष्ठपराग-
पाण्डुरजरत्कूष्माण्डपिण्डाकृतिः ॥ ४५ ॥ ये कुण्ठीकृतवल्लभ-
प्रणतय शस्त्रैरनङ्गस्य ये न प्रासाश्च निशीथिनीपतिकरैः
शैथिल्यवीथीमपि । ते निःशङ्कविटङ्कताळुतुमुलप्रोत्तङ्गूत-
प्लावितैश्छिन्ना कुक्कुटकूजितैर्मुगदृशा मानग्रहग्रन्थयः ॥४६॥
कान्ते जग्युषि ताम्रचूडरटित श्रुत्वा प्रबुद्धा जैवात्किञ्चि-
द्वासवदिङ्मुखे प्रविकसद्दृष्ट्वा गवाक्षाध्वना । सत्रासेन समी-
रिता प्रियतमप्रेम्णावरुद्धा शनैरूत्थानोपनिवेशनानि कुरुते
तल्पे मुहुः पौंशुला ॥ ४७ ॥ निर्यन्त्यां रतिवेश्मनः
पैरितप्रौया विलोक्य क्षेपा गाढालिङ्गनचुम्बनानि बहुशः
कृत्वोप्यमन्तुष्टया । एकं भूमितले निधाय चरण तल्पे
प्रैकल्प्यापर तन्वङ्ग्या परिवर्तितताङ्गलतया प्रेयान्भिर
चुम्बितः ॥ ४८ ॥ पद्मिन्याः सकला विधाय विकलाँ
ताराधिपः सपद् तत्प्रेयस्युदयोन्मुखे सति र्वावुद्विग्नतामा-
श्रित । ताराः स्वस कैरैर्विकृष्य सहसा गच्छन्नितोऽस्ता-
चलं लभ्रा काश्चन ताः प्रभाकरकरे पश्यन्परिम्लायति
॥ ४९ ॥ एते केतकधूलिधूसररुचः शीतद्युतेरशवः प्रासाः
सप्रति पश्चिमस्य जलधेस्तीर जरार्जराः । अप्येते विकस-
त्सरोरुहवनीदृक्पातसभावितः प्राचीरागमूदीरयन्ति तरणे-
स्तारुण्यभाजः कराः ॥ ५० ॥ सच सघटमानकोकमिथुन-
व्याजेन पीनस्तनद्वन्द्वव्यक्तिर्यौवनोज्ज्वलरुचो निर्माय
दिक्कन्यकाः । दुर्दैवाक्षरमालिकामिव झटित्याकृष्य भृङ्गा-
वलीं लक्ष्मीमम्बुजिनीजनस्य तनुते देवस्त्विषामीश्वरः
॥ ५१ ॥ उन्मीलन्ति निशानिशाचरवधूलोञ्चाटनामान्त्रिकाः
सायं सालसुसुपङ्कजवनप्रोद्बोधवैतालिकाः । फुल्लङ्कज-
कोशगर्भकुहरप्रोत्तुतभृङ्गावलीझङ्कारप्रणवोपदेशगुरवस्तीव्रद्युते-
रशवः ॥ ५२ ॥ एतत्तर्कय चक्रवाकसुहृदामाश्वासनादायिनः
प्रौढध्वान्तपयोधिममजगतोद्दत्तावलम्बोत्सवाः । दीप्ताशो-
र्विकसन्ति दिङ्म्गदृशा काश्मीरपङ्कोदकंव्यंत्यूक्षीचतुराः
[पादटिप्पण्यः]
वामपादटिप्पण्यः:
१ गतशोभम् २ धूक ३ चञ्चलनयनकनीनिका ४ क्षाम कृश वक्त्रेन्दुमण्डल यासा ता ५ शिथिलान् ६ राजगृहेभ्य ७ वाराङ्गना ८ पारद ९ उद्योगरहिता १० रौप्यगोलकवत्पाण्डुर ११ ऐन्द्री प्राचीत्यर्थे
दक्षिणपादटिप्पण्यः:
१ शत्रूणाम् २ श्रेष्ठ अग्रेसर इत्यर्थे ३ ज्योत्स्नाप्रवाहम् ४ शृङ्गारस्य जीवनौषधम् ५ जीर्ण ६ कुक्कुटारावम् ७ सभ्रमेण ८ प्राचीमुखम् ९ स्वैरिणी १० निर्गच्छन्त्या ११ केलिमन्दिरात् १२ प्रभातप्रायाम् १३ रात्रिम् १४ निधाय १५ वलिताङ्गवलियैथा सा १६ प्रियतम १७ हीनाम् १८ शोभाम् १९ र् तत्वम २० किरणै २१ जलेन परस्पराभ्युक्षणरूपा क्रीडा