सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 268, कुल 516 में से
संदर्भ में पढ़ेंयुववर्णनम्, बालावर्णनम् २५३
पमितौ दरिद्रता ॥ ५ ॥ खबालभारस्य तदुत्तमाङ्गजैः समं
चमयैंव तुलाभिलाषतः । अनागसे शंसति बालचापलं
पुनः पुनः पुच्छविलोलोनच्छलात् ॥ ६ ॥ निमीलनअ्रश-
जुषा दृशा भृशं निपीय तं यन्निदशीभिरर्जितम् । अमृतम-
भ्यासमर विवृण्वते निमेषैर्निःस्वैरधुनापि लोचनैः ॥ ७ ॥
विलोकयन्तीभिरजस्रभावमाबलादमु तत्र निमीलनेष्वपि ।
अलम्भि मर्त्याभिरमुष्य दर्शने न विग्नलेशोऽपि निमेष-
निर्मितः ॥ ८ ॥ न का निशि खमगतं ददर्श तं जगाद
गोत्रस्खलिते च का न तम् । तदात्मताध्यातथवा रते च
का चकार वा न खमनोभवोद्भवम् ॥ ९ ॥
बालावर्णनम्
अभ्यासः कर्मणा सम्यगुत्पादयति कौशलम् । विधिना
तावदभ्यस्त यावत्सृष्टा मृगेक्षणा ॥ १ ॥ न देवकन्यका
नापि गन्धर्वकुलसम्भवा । तथाप्येषा तपोभङ्गं विधातुं
वेधसोऽप्यलम् ॥ २ ॥ इयं व्याधायते बाला भ्रूरस्याः कार्मु-
कायते । कटाक्षाश्च शरायन्ते मनो मे हरिणायते ॥ ३ ॥
मनोऽपि शङ्कमानाभिर्बालाभिरुपजीव्यते । अपडक्षीणषाड्गुण्य-
मन्त्री मकरकेतनः ॥ ४ ॥ अतन्द्रचन्द्राभरणा समुद्दी-
पितमन्मथा । तारकातरला श्यामा सानन्दं न करोति
कम् ॥ ५ ॥ निर्माणकौशल धातुश्चन्द्रिका लोकचक्षुषाम् ।
क्रीडागृहमनङ्गस्य सेयमिन्दीवरेक्षणा ॥ ६ ॥ प्रेङ्खणप्रेक्ष-
णालापान्कुर्वत्यः सस्मितत्रपम् । न वीणायाः प्रवीणायाः
क्वङ्कनं स्वररञ्जनम् ॥ ७ ॥ दग्धो विधिर्विधत्ते न सर्व-
गुणसुन्दरं जन कमपि । इत्यपवादभयादिव मुग्धाक्षी
निर्मिता विधिना ॥ ८ ॥ मीनवती नयनाभ्यां चरणाभ्यामपि
सुफुल्लकमलवत्ती । शैवालिनी च केशैः सुरसेयं सुन्दरी
सरसी ॥ ९ ॥ अलिकुलमञ्जुलकेशी परिमलबहुला रसा-
वहा तन्वी । किसलयपशेलपाणिः कोकिलकलभाषिणी
प्रियतमा मे ॥ १० ॥ अमृत तदधरबिम्बे वचनेष्वमृतं
विलोकनेऽप्यमृतम् । अमृतभृतौ कुचकुम्भौ सत्यं सा सृष्टि-
रपरैव ॥ ११ ॥ स्तनकलशस्खलदम्बरसवरणव्यग्रपाणि-
कमलायाः । निपतन्ति भाग्यभाजामुपरि कटाक्षाः सरो-
जाक्ष्याः ॥ १२ ॥ कुङ्कुमपङ्केनाङ्कितदेहा गौरपयोधर-
कम्पितहारा । नूपुरहंसरुतपदपद्मा कं न वशीकुरुते भुवि
रामा ॥ १३ ॥ मन्दमन्दगमना करिणी कि वा विशाल-
नयना हरिणी किम् । पूर्णचन्द्रवदना रजनी कि पश्य
गच्छति सखे तरुणी किम् ॥ १४ ॥ उत्तुङ्गस्तनभरतान्त-
तान्तमध्यं विश्लिष्यद्घनकचवान्तवान्तसूनम् । त्रान्ताजभ्रम-
दलिभीतभीतनेत्रं मुग्धाक्षी मम धुरि मन्दमन्दमेति ॥ १५ ॥
उदयदुदयदीक्षणाय पत्युश्चपलदृशश्चपयानिरुध्यमानम् ।
मन इव कृपणस्य दानकाले कति न ततान गतागतानि
चक्षुः ॥ १६ ॥ अदम्भा हि रम्भा विलक्षा च लक्ष्मी-
घृताची हिया चीरसञ्छादिताक्षा । अहो जायते मन्द-
वर्णाप्यपर्णा समाकर्ण्य तस्या गुणस्यैकदेशम् ॥ १७ ॥
एकान्तसुन्दरविधानजडः क वेधोः सर्वाङ्गकान्तिचतुरं क
च रूपमस्याः । मन्ये महेश्वरभियान्मकरध्वजेन प्राणार्थिना
युवतिरूपमिदं गृहीतम् ॥ १८ ॥ कि कौमुदीः शशिकलाः
सकला विचूर्ण्य संयोज्य चामृतरसेन पुनः प्रयत्नात् ।
कामस्य घोरहरहुंकृतिदग्धमूर्तेः सजीवनौषधिरियं विहिता
विधात्रा ॥ १९ ॥ नेदं मुखं मृगवियुक्तशशाङ्कबिम्ब नेमौ
स्तनावमृतपूरितहेमकुम्भौ । नैवालकावलिरिय मदनास्त्र-
शाला नैवेदमक्षियुगलं निगँडं हि यूनाम् ॥ २० ॥ चित्ते
निवेश्य परिकल्पितसत्वयोगान रूपोच्चयेन विधिना विहिता
कृशाङ्गी । स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्व-
मनुचिन्त्य वपुश्च तस्याः ॥ २१ ॥ चन्द्रो जडः कदलि-
काण्डमकाण्डशीतमन्दीवराणि च विमुद्रितविभ्रमाणि ।
येनाक्रियन्त सुतनोः स कथं विधाता किं चन्द्रिका क्वचि-
दशारतुरुचिः प्रसूते ॥ २२ ॥ निर्मुक्तशैशवदशाशिशिरा
नवीनसम्प्राप्तयौवनवसन्तमनोरमश्रीः । उन्मीलितस्तननवस्त-
बका निकाममेणीदृशस्तनुलता तनुते मुदं नः ॥ २३ ॥
नीलोत्पलोल्लसितखञ्जनमञ्जुनेत्रा संपूर्णशारदसुधाकरकान्त-
वक्त्रा । बाला जगत्त्रितयमोहनदिव्यमूर्तिर्मन्ये विभाति
जगति सरवीरकीर्तिः ॥ २४ ॥ एता स्खलद्वलयसङ्कति-
मेखलोत्थझङ्कारनूपुररवाहृतराजहंसाः । कुर्वन्ति कस्य न मनो
विवशं तरुण्यो विश्वस्तमुग्धहरिणीसदृशः कटाक्षैः ॥ २५ ॥
एषा भविष्यति विनिद्रसरोरुहाक्षी कामस्य कापि दयिता
तनुजाऽनुजा वा । यः पश्यति क्षणमिमां कथमन्यथासौ
कामस्तमस्तकरुणस्तरुण हिनस्ति ॥ २६ ॥ अँपाङ्गतारले
दृशौ तरलवक्रवर्णा गिरो विलोँसभरमन्थरा गतिरतीव
कान्तं मुखम् । इति स्फुरितमङ्गके मृगदृशा खतो लीलया
तदत्र न महोदयः कूँतपदोऽपि सलक्ष्यते ॥ २७ ॥
दृशः पृथुतरीकृता जितनिजाब्जपत्रत्विषश्चतुर्भिरपि साधु
साध्विति मुखैः सम व्याहृतम् । शिरसि चलितानि
विस्मयवशाद्ध्रुव वेधसो विधाय ललना जगत्त्रय ललामभूता-
मिमाम् ॥ २८ ॥ क्वचित्सभ्रूभङ्गैः क्वचिदपि च लज्जापरि-
णतैः क्वचिद्गीतित्रस्तैः क्वचिदपि च लीलाविलसितैः ।
१ निर्निमेषै
१ ब्रह्मा २ स्त्रीरूपम् ३ शृङ्खला ४ नेत्रप्रान्तचञ्चले. ५ विलासभरेण मन्थरा मन्दा गति ६ कृतस्थिति,