सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 267, कुल 516 में से
संदर्भ में पढ़ें२५२ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
च ॥ ४१ ॥ नूनं हि ते कविवरा विपरीतबोधा ये नित्य-
माहुरबला इति कामिनीस्ताः । याभिर्विलोलतरतारकदृष्टि-
पातैः शक्रादयोऽपि विजितास्त्वबला कथं ताः ॥ ४२ ॥
नान्दीपदानि रतिनाटकविभ्रमाणामाद्याक्षराणि परमाण्य-
थवा स्मरस्य । दृष्टेऽधरे प्रणयिना विधुताग्रपाणेः सीत्कार-
शुष्करुदितानि जयन्ति नार्याः ॥ ४३ ॥ अलमतिचपल-
त्वात्स्वप्नमायोपमत्वात्परिणतिविरसत्वात्सङ्गमेनाङ्गनायाः ।
इति यदि शतकृत्वस्तत्त्वमालोचयामस्तदपि न हरिणाक्षीं
विस्मरत्यन्तरात्मा ॥ ४४ ॥ द्रुतं यस्यालोकाद्विरहिजन-
शोकापनयनं यदङ्के सानन्दं नयनमरविन्दं विह्रति । न
यस्यापैति श्रीः कचनचयराहोरपि पुरः समे खेदं रामा-
वदनहिमधामा शमयतु ॥ ४५ ॥ श्रुतं दृष्टं स्पृष्टं स्मृत-
मपि नृणां ह्लादननं न रत्नं स्त्रीभ्योऽन्यत्क्वचिदपि कृतं
लोकपतिना । तदर्थं धर्मार्थौ विभववरसौख्यानि च ततो
गृहे लक्ष्म्यो मान्याः सततमबला मानविभवैः ॥ ४६ ॥
ललाटे कस्तूरीतिलकमबला. कजलरुचि दृशोः कर्णद्वन्द्वे
विमलमणिताटङ्कयुगलम् । गले मुक्तामाला शुचि वसनमङ्गे
च सततं वशीकर्तुं विश्वं दधति खलु बाह्योपकरणम्
॥ ४७ ॥ भवन्तो वेदान्तप्रणिहितधियामत्र गुरवो विद-
ग्ध्वालापाना वयमपि कवीनामनुचराः । तथायेतद्रूमो न
हि परहितात्पुण्यमधिकं न चास्मिन्संसारे कुवलयदृशो
रम्यमपरम् ॥ ४८ ॥ विमुञ्चति बुधो जनः सुकृतचिन्तनं
दूरतो जहाति च मुनिस्तपस्यजति धीरता शकरः ।
विधिर्भवति चञ्चलस्त्रिजगतीपतिः क्षुभ्यति क्षणं कुटिलदृष्टयो
यदि पतन्ति वामभ्रुवः ॥ ४९ ॥ अमृतममृतं कः संदेहो
मधुन्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसन्नरस फलम् ।
सकृदपि पुनर्मध्यस्थः सन्त्सान्तरविज्नो वदतु यदिहान्य-
त्स्वादु स्यात्प्रियारदनच्छदात् ॥ ५० ॥ वचसि भवति
सङ्गत्यागमुद्दिश्य वार्ता श्रुतिमुखरमुखाना केवल पण्डि-
तानाम् । जघनमरुणारत्नग्रन्थिकाञ्चीकलापं कुवलयनयनाना
को विहातुं समर्थः ॥ ५१ ॥ किमिह बहुभिरुक्तैर्युक्ति-
शून्यैः प्रलापैर्द्वयमिह पुरुषाणा सर्वदा सेवनीयम् । अभि-
नवमदलीलालालस सुन्दरीणा स्तनभरपरिखिन्न यौवनं वा
वनं वा ॥ ५२ ॥ यासा सत्यपि सद्गुणानुसरणे दोषानुरागो
भृशं याः प्राणान्यरमर्पयन्ति न पुनः सम्पूर्णदृष्टि प्रिये ।
अत्यन्ताभिमतेऽपि वस्तुनि विधिर्यासा निषेधात्मकस्तत्त-
त्केलिषु दक्षिणा अपि सदा वामा जयन्त्येव ताः ॥ ५३ ॥
स्त्रीमुद्रा कुसुमायुधस्य परमा सर्वार्थसंपत्करीं ये मूढाः प्रवि-
हाय यान्ति कुधियो मिथ्याफलान्वेषिणः । ते तेनैव
निहत्य निर्दयतर नग्नीकृता मुण्डिताः केचिद्रक्तपटीकृताश्च
जटिलाः कापालिकाश्चापरे ॥ ५४ ॥ द्रष्टव्येषु किमुत्तमं
मृगदृशः प्रेमप्रसन्नं सुखं घ्रातव्येष्वपि किं तदास्यपवनः
श्राव्येषु कि तद्वचः । कि स्वाद्येषु तदोष्ठपल्लवरसः स्पृश्येषु
किं तद्वपुर्ध्येयं कि नवयौवने सहृदयैः सर्वत्र तद्विभ्रमः
॥ ५५ ॥ यत्रैता लहरीचलाचलदृशो व्यापारयन्ति ध्रुव यत्त-
त्रैव पतन्ति सततसमी मर्मस्पृशो मार्गणाः । तच्चक्रीकृत-
चापमञ्चितशरप्रेङ्खत्करः क्रोधनो धावत्यग्रत एव शासनधरः
सत्यं सदासा स्मर ॥ ५६ ॥ विश्वामित्रपराशरप्रभृतयो
वाताम्बुपर्णाशनास्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं
गताः । शाल्यन्न सघृतं पयोदधियुत ये भुञ्जते मानवास्ते-
षामिन्द्रियनिग्रहो यदि भवेद्विन्ध्यस्तरेत्सागरे ॥ ५७ ॥
आलोलैरुपगम्यते मधुकरी केशेषु माल्यग्रहः कान्ति कापि
कपोलयो प्रथयते ताम्बूलमन्तर्गतम् । अङ्गानामनुलेपनं परि-
मलैरालेपनप्रक्रिया वेष कोऽपि सरोजसुन्दरदृशः सूते सुख
चक्षुषो ॥ ५८ ॥ सद्ग्रलस्फारहारा भयवरदकरा स्रस्तध-
म्मिद्धभारा मूलाधाराधिकारा निगमनिधिधरा काव्यकोटि-
प्रचारा । ससारानल्पकारा सदनमयहरा चिद्दनैकावतारा
तारा शृङ्गारधारा मनसि वसतु ते सर्वदा सर्वसारा
॥ ५९ ॥ ससारेऽस्मिन्सारे परिणतितरले द्वे गती पण्डिताना
तत्त्वज्ञानामृताम्भःपुलकितमनसा यातु कालः कदाचित् । नो
चेन्मुग्धाङ्गनाना स्तनजघनभराभोगसमोगिनीना स्थूलो-
पस्थस्थलीषु स्थगितकरतलस्पर्शलोभोद्यतानाम् ॥ ६० ॥
ससारेऽस्मिन्सारे कुनृपतिभवनद्वारसेवाकलङ्कव्यासङ्गव्यस्त-
वैर्यं कथममलधियो मानस सविदध्युः । यद्येताः प्रोद्यदि-
न्दुद्युतिनिचयमृत्तो न स्युरम्भोजनेत्राः प्रेङ्खत्काञ्चीकलापा-
स्तनभरविनमन्मध्यभागास्तरुणयः ॥ ६१ ॥
युववर्णनम्
अधारि पद्मेषु तदङ्घ्रिणा घृणा क्व तल्लक्ष्यच्छायालयवोऽपि
पल्लवे । तदास्यदासेऽपि गतोऽधिकारिता न शारद
पार्विकशर्वरीश्वरः ॥ १ ॥ किमस्य रोम्णा कपटेन कोटिभि-
र्विधिर्न लेखाभिग्जीगणद्गुणान् । न रोमकूपौघमिषाज्जग-
त्कृता कृताश्च कि दूषणशून्यबिन्दवः ॥ २ ॥ अमुष्य
दोर्भ्यामरिदुर्गलुण्ठने ध्रुवं गृहीतार्गलदीर्घपीनता । उरःश्रिया
तत्र च गोपुरस्फुरत्कपाटदुर्धर्षतिर प्रसारिता ॥ ३ ॥
स्वकेलिलेशक्षितनिन्दितेन्दुन्नो निजाशदृक्तर्जितपद्मसपदः ।
अतद्द्वयीजित्वरसुन्दरान्तरे न तन्मुखस्य प्रतिमा चराचरे
॥ ४ ॥ सरोरुहं तस्य दृशैव तर्जितं जिताः क्षितेनैव
विधोरपि श्रियः । कुत पर भव्यमहो महीयसी तदाननस्यो-
१ मुखचन्द्र