सामग्री पर जाएँ
सर्वकोश
श्रीभाष्य (भगवद् रामानुजाचार्य - विशिष्टाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य सटीक)

श्रीभाष्य (भगवद् रामानुजाचार्य - विशिष्टाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य सटीक)

Sri Bhashya of Bhagavad Ramanujacharya with Commentary

भगवद् रामानुजाचार्य (सम्पादक: स्वामी वासुदेवाचार्य) द्वारा

DevanagariHindipublished696 पृष्ठ

पृष्ठ 87, कुल 696 में से

संदर्भ में पढ़ें
पृष्ठ 87

तस्मिन्नेव परिकल्पितं मिथ्याभूतम्—“सदेव सौम्येदमग्र आसी-
देकमेवाद्वितीयम्”, “अथ परा यया तदक्षरमधिगम्यते”, “यत्तदद्रे-
श्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादं नित्यं विभुं
सर्वगतं सुसूक्ष्मं तदव्ययं यद् भूतयोनिं परिपश्यन्ति धीराः”, “सत्यं
ज्ञानमनन्तं ब्रह्म”, “निष्कलं निष्क्रियं शान्तं निरवद्यं
निरञ्जनम्”, “यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञातमविजानताम्”, “न दृष्टेर्द्रष्टारंपश्येः
न मतेर्मन्तारं मन्वीथाः”, “आनन्दो ब्रह्म”, “इदं सर्वं यदयमात्मा”,
“नेह नानास्ति किंचन”, “मृत्योः स मृत्युमाप्नोति य इह नानेव
पश्यति”, “यत्र हि द्वैत मिव भवति, तदितर इतरं पश्यति यत्र त्वस्य
सर्वमात्मैवाभूत् तत्केन कं पश्येत्तत्केन कं विजानीयात्”, “वाचारम्भणं
विकारो नामधेयं मृत्तिकेत्येव सत्यम्”, “यदा ह्येवैष एतस्मिन्नुदर-
मन्तरं कुरुते अथ तस्य भयं भवति”, “न स्थानतोऽपि परस्योभयलिङ्गं
सर्वत्र हि”, “मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात्”, “प्रत्यस्त-
मितभेदं यत् सत्तामात्रमगोचरम् । वचसामात्म संवेद्यं तज्ज्ञानं
ब्रह्म संज्ञितम्॥”, “ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः । तमे-
वार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम्॥”, “परमार्थस्त्वमेवैको नान्यो-
ऽस्ति जगतः पते !”, “यदेतद् दृश्यते मूर्त्तमेतज्ज्ञानात्मनस्तव । भ्रान्ति-
ज्ञानेन पश्यन्ति जगद्रूपमयोगिनः ॥”, “ज्ञानस्वरूपमखिलं
जगदेतदबुद्धयः । अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते मोहसंप्लवे ॥”, “ये तु
ज्ञानविदः शुद्धचेतसस्तेऽखिलं जगत् । ज्ञानात्मकं प्रपश्यन्ति त्वद्रूपं
परमेश्वर ॥”, “तस्यात्मपरदेहेषु सतोऽप्येकमयं हि यत् । विज्ञानं पर-
मार्थो हि द्वैतिनोऽतथ्यदर्शिनः ॥”, “यद्यन्योऽस्ति परः कोऽपि मत्तः
पार्थिवसत्तम । तदैषोऽहमयं चान्यो वक्तुमेवमपीष्यते॥”, “वेणुरन्ध्रविभे-
देन भेदः षड्जादिसंज्ञितः । अभेदव्यापिनो वायोस्तथासौ परमात्मनः ॥”,