सामग्री पर जाएँ
सर्वकोश
श्रीभाष्य (भगवद् रामानुजाचार्य - विशिष्टाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य सटीक)

श्रीभाष्य (भगवद् रामानुजाचार्य - विशिष्टाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य सटीक)

Sri Bhashya of Bhagavad Ramanujacharya with Commentary

भगवद् रामानुजाचार्य (सम्पादक: स्वामी वासुदेवाचार्य) द्वारा

DevanagariHindipublished696 पृष्ठ

पृष्ठ 642, कुल 696 में से

संदर्भ में पढ़ें
पृष्ठ 642

( ५८० )
“वे प्राणों के प्राण, नेत्रों के नेत्र, श्रोत्रों के श्रोत्र, अन्नों के अन्न
और मनों के मन कहे जाते हैं” इस वाक्यांश में कहे गए, ब्रह्माश्चित प्राण
आदि ही उक्त वाक्य में पांच संख्यावाले तत्त्व ज्ञात होते हैं ।
अथ स्यात् काण्वानां माध्यन्दिनानां च “यस्मिन् पंच पंच-
जनाः” इत्ययं मंत्रः समानः । “प्राणस्य प्राणः” इत्यादि वाक्यशेषे
काण्वानामन्नस्य पाठो न विद्यते । तेषां पंच पंचजनाः प्राणादय
इति न शक्यते वक्तुम्–इति, तत्रोत्तरम् ।
आपकी बात ही ठीक हो सकती है, पर काण्व और माध्यन्दिन
दोनों शाखाओं में “पंच पंचजनाः” इत्यादि मंत्र समान रूप से मिलता
है, किंतु “प्राणस्य प्राणः” इत्यादि काण्व शाखीय वाक्यशेष में अन्न पाठ
नहीं है, इसलिए उसमें तो प्राणादि को पांच तत्त्व कह नहीं सकते ।
इसका उत्तर देते हैं—
ज्योतिषैकेषामसत्यन्ने ॥१।४।१३॥
एकेषां काण्वानां पाठे असत्यन्ने ज्योतिषः पंचजनाः इंद्रिया-
णीति ज्ञायंते, तेषां वाक्यशेषः प्रदर्शनार्थः । एतदुक्तं भवति-
“यस्मिन् पंच पंचजनाः” इत्यस्मात्पूर्वस्मिन् मंत्रे “तं देवा ज्योतिषां
ज्योतिरायुर्होपासतेऽमृतम्” इति ज्योतिषां ज्योतिष्ट्वे ब्रह्मएयभि-
धीयमाने ब्रह्माधीनस्वकार्याणि कानिचित् ज्योतींषि प्रतिपन्नानि,
तानि च विषयाणां प्रकाशकानीन्द्रियाणीति । “यस्मिन् पंच पंचजना”
इत्यनिर्धारितविशेषनिर्देशेनावगम्यंते इति । “प्राणस्य” इति प्राण
शब्देन स्पर्शनेन्द्रियं गृह्यते, वायुसंबंधित्वात् स्पर्शनेन्द्रियस्य मुख्य
प्राणस्य ज्योतिः शब्देन प्रदर्शनायोगात् । चक्षुष इति चक्षुरिन्द्रियम्,
श्रोत्रस्येति श्रोत्रे न्द्रियम्, अन्नस्येति घ्राणरसनयोस्तंत्रे णोपादानम्,
अन्न शब्दोदित पृथिवी संबंधित्वात् घ्राणेंद्रियमनेन गृह्यते । अद्यते
अनेनेत्यन्नम् इति रसनेन्द्रियमपि गृह्यते । मनस इति मनः ।
[email protected]