सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 231, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 231

कोद्रवाः कोरदूषकाः 'कोरदूषस्तु कोद्रवः' इत्यमरसिंहेना-
भिधानात्। पुलकाः पुलाकाः कोद्रवापेक्षया स्वल्पधान्यानि 'स्या-
त्पुलाकस्तुच्छधान्ये' इति तेनैवाभिधानात्। एवञ्च पुलकास्त-
थेति व्यासवचने पुलकशब्दमध्याक्षरे दीर्घाभाव आर्षत्वान्न
दोष इति मन्तव्यम्। द्रव्येषु शाकादिसंस्कारार्थद्रव्येषु हिङ्ग्वाख्यं
द्रव्यमश्राद्धेयम्। ननु हिङ्गुप्रतिषेधो न युक्तः--
मधूकं रामठं चैव कर्पूरं मरिचं गुडम्।
श्राद्धकर्मणि शस्तानि सैन्धवं मानसं तथा॥
इत्यादित्यपुराणे तस्य ग्राह्यत्वेन स्मरणात्। सत्यं, विधिप्रति-
षेधयोः द्वयोरपि दर्शनाद्धिङ्गुविषये विकल्पो द्रष्टव्यः। एव-
मन्यत्रापि यत्र यत्र विधिप्रतिषेधावेकस्यैव दृश्येते तत्र वि-
कल्पो वेदितव्यः। शाकेषु शाकानां मध्ये कालानलशुभा-
ख्याः शाकविशेषाः अश्राद्धेयाः। तत्र कालाख्यः शाक-
विशेषः कुठेरकाकृतिरिति देवस्वामिना निरूपितः। कुठेर-
कोऽर्जकसद्दशः पर्णासः। 'अथ पर्णासे कठिञ्जरकुठेरकौ।
सितेऽर्जकोत्र' इत्यमरसिंहेनाभिधानात्। एवं च कृष्णार्जकः
कालशब्देनोक्त इति मन्तव्यम्। अनलः चित्रकः, 'चित्रको
वह्निसंज्ञकः' इत्यमरः। यल्लोके शुभं शाकमिति व्यपदिश्यते
तदेवात्र शुभशब्देनोक्तमिति देवस्वामिनाऽभिहितम्। भरद्वा-
जोपि-'मुद्गाढकीमाषवर्जं द्विदलानि दद्यात्' इति। यानि
पाषाणयन्त्रभ्रमणेन द्विधा प्रायशो भिद्यन्ते तानि धान्यानि