सामग्री पर जाएँ
सर्वकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 611, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 611

ऋतुवर्णनाध्यायः ५०९
इति मञ्जु रटन्त्यथाऽऽकुला सकचाकर्षणचुम्बिताधरा ।
श्रमनिमीलितचारुलोचना द्रवतां याति तदा विलासिनी ॥
श्लथदेहलतां समूर्छनां दरसंमीलितलोचनोत्पलाम् ।
समवेक्ष्य नितान्तनिःसहामवगच्छेदबलां द्रुतामिति ।
विपरीतरते यदाऽङ्गना हृदि मुष्ट्या परिताडयेत्पतिम् ।
करघातनकं तदा बुधैरिति संतानितसंज्ञमुच्यते ॥
विस्तीर्णहस्तेन रतौ यदा स्त्री हन्यात्पति स्यात्सपताकसंज्ञः ।
अङ्गुष्ठकेनैव कृतप्रहारो विज्ञैः स उक्तः किल बिन्दुमालः ॥
साङ्गुष्ठमध्याङ्गुलिकाप्रहारं शनैः पुरन्ध्री कुरुतेऽतिरागात् ।
यच्चेष उक्तः कविभिः पुराणैरानन्दकृत्कुण्डलनामधेयः ॥ इति ।
पुरुषायितताडनयोश्च मया त्वमुपद्रुतस्तत्त्रासादि शीघ्रं नाऽऽगतोऽसीत्युपहासैरुपहा-
सान्तरैर्वा संयुक्तमित्यर्थः । तथा चोपहासानां निष्कपटद्योतकत्वाद्वस्तुतः प्रियतमसमागम
इव विरहदुःखं विस्मृत्य स्वानन्देन लपतीति भावः । अत्र विरहाख्यः शृङ्गारो रसः ।
प्रसादमधुर्यादिगुणाः । अनुप्रासोऽलंकारः । तया च नदीपूरमालतीप्रफुल्लनमयूरशब्दकदम्ब-
प्रफुल्लनमेघागमादिकं वर्षाकालचिह्न म् ॥७॥
अथ क्रमप्राप्तां शरदं मालिन्या वर्णयति—स्वतनुजवनराज्येति । शरद्ऋतौ शैलः
पर्वत इत्येवमनुतप्तः पश्चात्तापं प्राप्तः सूर्यकिरणतप्त इत्यर्थः । निशि रात्रौ । दिने निर्झ-
राणां सूर्यकिरणैः शोषसंभवाच्छशिकरचञ्चन्निर्झरैः । चन्द्रकिरणप्रतिफलनाद्देदीप्यमाना ये
निर्झराः स्वाऽङ्गस्रवदुदकधारारूपास्तैरश्रुकल्पनैर्नोद्भवोदकतुल्यैरित्यर्थः । कल्पनेनेन
निर्झरा उपमेया उपमानाश्रुभिरुपमिता इत्युपमालंकारः । रोदिति रोदनं करोति । इव-
शब्दादेते पर्वतनिर्झराः पर्वतारोदनजाश्रूणीत्युत्प्रेक्षालंकारः । नन्वनुतप्तोऽपि रोदनं कुतः
करोति धैर्यभरणेन तदसंभवादित्यतः शैलविशेषणमाह—हृदिजखेदखेदवानिति । हृदि अन्तः-
करणे जातो यः खेदः सहनायोग्यं यद्दुःखं तस्माज्जाता ये स्वेदा घर्मोदकानि तैर्युक्त
इत्यर्थः । तथा चात्यन्तदुःख विक्येन धैर्यापाकरणाद्रोदनं संभवतीति भावः । अनेन पर्वत-
निर्झराः पर्वतघर्मोदकोत्प्रेक्षिताः । अत एव घर्मोदकस्याश्रुत्वासंभवात्तदभेदेऽपि तद्भेदज्ञा-
नार्थमश्रुकल्पैरिति पृथगुक्तमिति ध्येयम् ।
इति किमतस्तमनुतापमाह-स्वतनुजवनराज्येति । स्वस्य पर्वतस्य तनुः शरीरं तस्मा-
ज्जाता या वनराजिर्लतापङ्क्तिस्तस्येत्यर्थः । अनुचितकृतसंगः । अनुचितो निन्दितः कृतः
संपादितः सङ्गः समालिङ्गनादिकं येनासौ । पुत्रीं प्रति गत इत्यर्थः । एतादृशोऽहमस्मि
तिष्ठामि । अस्मीत्यनेनैतादृशं पापं कृत्वाऽपि जीवामि लोकानां मुखं च प्रदर्शयामीत्यति-
निर्लज्जत्वं भ्रष्टत्वं सूचितम् ।
ननु प्रथमं सङ्गः किमर्थं तदनु पश्चात्तापश्च किमर्थमित्यतो वनराजिविशेषणमाह—