सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 612, कुल 723 में से
संदर्भ में पढ़ेंआश्लिषन्त्येति ! आश्लेषं समालिङ्गनं कुर्वन्त्या । तथा च मया स्वेच्छया सङ्गो न कृतः
किंतु तदिच्छया बलात्कारेण संजात इति पश्चात्तापः प्रायश्चित्ताधिकारसंपादनार्थं युक्त
इति भावः । अपिशब्दात्—
लङ्केश्वरो जनकजाहरणेन वाली तारापहारकृतयाऽप्यथ कीचकाख्यः ।
पाञ्चालिकाग्रह्णतो निधनं जगाम तच्चेतसाऽपि परदाररतिं न काङ्क्षेत् ॥
आयुः क्षितिर्विकलताऽप्युपहास्यता च निन्दाऽर्थहानिल द्युते विगतिः परत्र ।
स्यादेव यद्यपि रतेन पराङ्गनायाः प्राहुस्तथाऽप्यनघमित्यपि कारणेन ॥
उर्वशीसुरतचिन्तया ययौ संक्षयं किल पुरूरवा नृपः ।
रक्षणाय निजजीवितस्य तत्संभवेत्परवधूं न कामतः ॥
नारी चोन्नतयौवनाऽभिलषितं कान्तं न चेदाप्नुया-
दुन्मादं मरणं च विन्दति तदा कंदर्पसंमोहतः ।
संचिन्त्येति समागतां परवधूं रत्यर्थिनीं स्वेच्छया
गच्छेत्क्वापि न सर्वदा सुमतिमानित्याह वात्स्यायनः ॥
अपि द्विजश्रोत्रियमित्रभूपसंबन्धिभार्या यदि पञ्च भुक्ताः ।
स्युस्ताश्च दोषाय न चेत्प्रगच्छेद्धेतुं विना कामत एव नैवम् ॥
इत्युक्तेन तदिच्छाकृतसंगादोषाभावेऽप्यहं—
कन्या प्रव्रजिता सती रिपुवधूर्मित्राङ्गना रोगिणी
शिष्या ब्राह्मणवल्लभाऽथ पतितोन्मत्ता च संबन्धिनो ।
वृद्धाऽऽचार्यवधूंश्च गर्भसहिता ज्ञाता महापापिनी
पिङ्गा कृष्णतमा सदा बुधजनैस्त्याज्या इमा योषितः ।
इत्यगम्यस्त्रीमुख्यत्वात्—
मात्रा स्वस्रा दुहित्रा वा नैकशय्यासनो भवेत् ।
बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ।
इति धर्मशास्त्रस्यार्थशास्त्रतो बलवत्त्वाच्च महापातकं मन्यमानोऽधिकमनुतापीति सूचितम् ।
ननु तया कुतस्तवाऽऽश्लेषः कृत इत्यतो वनराजिविशेषणमाह—पुष्पवत्येति । तथा
च यौवनमदभ्रामितया मां पितृत्वेनाजानन्त्या पुरुषान्तराभावान्मय्याश्लेषः कृत इति
भावः । पुष्पवत्येत्यनेन रजोदर्शनसमये संजातमङ्गादधिकं पापं सूचितम् । अत्रोत्प्रेक्षया
पर्वतस्यैतादृशमहापातकिन उपमा व्यज्यते । अत्र शृङ्गाररसाभासो रोदनसूचितकरुणरस-
पर्यवसानान्न दोष इति ध्येयम् ।
यदा स्वस्य आत्मनः पर्वतरूपस्य तनुजा शरीरोत्पन्ना या लतापङ्क्तिस्तया पुष्प-
वत्या आश्लिषन्त्याऽपि हृदिजखेदस्वेदवान्हृदिजो मदनस्तत्कृता ये खेदा विरहदुःखानि तैः