सामग्री पर जाएँ
सर्वकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 610, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 610

५०८ गोलाध्याये
यद्यङ्गनाकुञ्चितपादयुग्मं स्वनाभिदेशे परिकल्प्य भर्ता ।
रतिं प्रकुर्यादिति कर्कटाख्यं तदा कवीन्द्रैः करणं प्रदिष्टमिति तिर्यग्बन्धे ।
प्रेङ्खाविलासं प्रसभं वहन्त्या विपर्ययाज्जङ्घयुगस्य नार्याः ।
पद्मासनं स्यादथ चैकजङ्घाविपर्ययात्पद्मपदं वदन्ति ॥
स्वजानुयुग्मान्तरनिर्गतौ चेद्भूजौ स्वकण्ठे विनयेन्मृगाक्षी ।
कान्तोऽपि कृत्वेति विधिं प्रगच्छेत्तदा बुधैर्बन्धुरिताख्यमुक्तम् ॥
उक्तप्रकारैर्यदि दम्पती स्वभुजौ तु कृत्वा मणिकूर्परस्थौ ।
स्वैरं रमेते करणं प्रदिष्टं तदा कबीन्द्रैः फणिपाशसंज्ञम् ॥
विधाय जङ्घायुगलं युवत्याः स्वकीययोः कूर्परयोरधास्थाः (थास्याः) ।
कण्ठे स्वबाहू परिणीय गच्छेद्वलिस्तदा संयमनाख्यमेतत् ॥
मुखे मुखं बाहुयुगे स्वबाहू जङ्घाद्वये जङ्घयुगं निवेश्य ।
गच्छेत्पतिश्चेदिति कौर्मकं स्यादूर्ध्वोर्हियुग्मात्परिवर्तिताख्यम् ॥
स्थितां स्त्रियं कुञ्चितपादयुग्मां तथैव भर्ता कृततिर्यगङ्गः ।
भजेत चेत्कामकलाविदग्धां बन्धं तदा युग्मपदं वदन्ति ॥
विलासिनीकूर्परमध्यवर्ती कटिं स्वकीयां भ्रमयन्मुहुश्चेत् ।
भजेत भर्तेति दि(वि)तर्दितं स्यात्तन्मार्कंटं संमुखसंगमेन ॥ इत्युपविष्टबन्धे ।
संवेष्टयित्वा निजकूर्परेण जान्(न्वङ्)गनाया अवलम्ब्य कण्ठम् ।
रतिं प्रकुर्यादिति कूर्पराख्यो बन्धः प्रदिष्टः स च जानुपूर्वः ॥
उक्तप्रकारे करणे यदैकः पादौ भवेद्दूर्ध्वगतोऽङ्गनायाः ।
तदा प्रदिष्टो हरिविक्रमाख्यो बन्धः 'प्रयोऽयं तरुणोजनानाम् ॥
कण्ठं भुजाभ्यामवलम्ब्य भर्तुः श्रोणी निजोरूयुगलेन गाढम् ।
संवेष्टय कुर्याद्रतमङ्गना चेदुक्तः कवीन्द्रैरिति कीर्तिबन्धः ॥
इत्युत्थितबन्धादौ ।
जातश्रमं वीक्ष्य पतिं पुरन्ध्री स्वेच्छात्त एवाथ रतेष्वतृप्ता ।
कंदर्पवेगाकुलिता नितान्तं कुर्वीत पुष्ट्यै पुरुषायितं सा ॥
उत्तानसुप्तं दयितं भुजाभ्यामालिङ्ग्य लिङ्गं विनिवेश्य योनौ ।
भजेन्नितम्बं परिचालयन्ती नारी तदा स्याद्विपरीतबन्धः ॥
सुप्तस्य पुंसो जघनोपरिस्थिता संभ्रामयन्त्यङ्घ्रियुगं विकुञ्चितम् ।
चक्राकृतिः स्त्री नरवद्विचेष्टते तद्भ्रामराख्यं करणं समीरितम् ॥
प्रेङ्खद्विभ्रमवती स्मरयन्त्रे भर्तुलिङ्गमुपधाय पुरन्ध्री ।
भ्रामयेत्कटिमनङ्घविलोला स्यात्तदा करणमुत्कलिताख्य(ख्य)म् ॥
विपरीतरते ससीत्कृता वरहासाऽतिमहोरमानना ।
किं तवाऽद्य वशं गतोऽसि मे स्मरयुद्धे विजितोऽसि चापलम् ।