सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 609, कुल 723 में से
संदर्भ में पढ़ेंऋतुवर्णनाध्यायः ५०७
दन्तैर्गृहीत्वा मदनातिलोलाऽधरं विचुम्ब्याऽऽशु दशेत्स्वभर्तुः ।
कान्तस्तदीयं कथितं मुनीन्द्रैरित्युत्तरोष्ठं परिचुम्बनं हि ।।
आदाय दन्तच्छदमाशु पत्युः कराङ्गुलीसंपुटकेन नारी ।
जिह्वाप्रदेशेन घ(पु)टे दशेच्चेत्तच्चुम्बनं पीडितसंज्ञकं स्यात् ।।
अधरौष्ठयुगेन कामिनी पतिवक्त्रोष्ठयुगं स्वजिह्वया ।
परिपीड्य विचुम्ब्य नृत्यति कथितं तद्धि समोष्ठसंज्ञकम् ।। इत्यादि चुम्बने ।।
निघाय पादौ रमणांसयोश्चेदुत्तानसुप्ता रमते पुरंध्री ।
प्रतिप्रबन्धं समपादसंज्ञं प्रोचुस्तदा भोगविधानदक्षाः ।।
उत्तानितायाः स्मरमन्दिरोपस्थितस्तदूरुद्वयमुद्द्बृहीत्वा ।
संस्थाप्य वाह्यां कटितो रमेत कान्तस्तदा स्यात्किल नागराख्यः ।।
स्त्रियोऽङ्घ्रिमकें विनिधाय भूमावन्यं स्वमौलौ निजपाणियुग्मम् ।
पृष्ट्या समाधाय रमेत भर्ता त्रैविक्रमाख्यं करणं तदा स्यात् ।।
तल्पप्रसुप्ता निजपादयुग्ममूर्ध्वं विधत्ते रमणी कराभ्याम् ।
स्तनौ गृहीत्वाऽथ भजेत कान्तो बन्धस्तदा व्योमपदाख्य उक्तः ।।
कान्तोरुयुग्मान्तरगः स्वहस्तौ निघाय भूमौ रमते पतिश्चेत् ।
बन्धस्तदोक्तः स्मरचक्रनामा प्रेष्टः सदा कामिजनस्य लोके ।।
नारी स्वपादौ दयितस्य वक्षःस्थितौ समालिङ्ग्य करद्वयेन ।
किंचिन्नतोरू रमतेतरामसौ प्रोक्तो मुनीन्द्रैरविदारिताख्यः ।।
उत्तानितोरुद्वयमध्यगामी दृढं समालिङ्ग्य भजेत यत्र ।
कान्तो विलासप्रिय एष बन्धः सौम्याख्य उक्तः कविभिः पुराणैः ।।
ऊरुयुगं वक्त्रमुदञ्चितं च कृत्वाऽम्बुजाक्षी भजते पतिं चेत् ।
आनन्दकर्ता तरुणीजनानां बन्धोऽयमुक्तः किल जृम्भिताख्यः ।।
कान्तोरुयुग्मं परिवर्तितं चेन्निपीड्य कामाकुलचित्तवृत्तिः ।
रमेत भर्ता यदि वेष्टिताख्यं तदेति बन्धं मुनयो वदन्ति ।।
स्कन्धप्रदेशे विनिधाय जङ्घामेकां स्त्रियोऽन्यामथ संविदार्य ।
अधो विनीय प्रबलं रमेत भर्ता यदा रे(वे)णुविदारितं तत् ।।
विलासिनीं संहतमूरुयुग्मां कृत्वोर्ध्वमालिङ्ग्य भजेत भर्ता ।
उद्दग्नकः स्यात्प्रमदाङ्घ्रियुग्मे कान्तोरसिस्थे स्फुटता(मा)न्प्रदिष्टः ।।
इत्युत्तानबन्धे । कान्ताङ्घ्रिमकें हृदये स्वकीये निघाय भर्ता शयने द्वितीयम् ।
कुर्याद्रतिं चेदिति वोणकाख्यः प्रौढाङ्गनायां परिकल्पनीयः ।।
पार्श्वप्रसुप्तप्रमदोपरिस्थः कान्तः समालिङ्ग्य रतिं करोति ।
यत्र प्रदिष्टो मुनिभिः पुराणैर्बन्धस्तदा संपुटनामधेयः ।।