सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 241, कुल 723 में से
संदर्भ में पढ़ेंमध्यगतिवासना १३९
विजातीयत्वात् । योगोऽन्तरं तेषु समानजात्योरित्युक्तत्वादित्यर्थः । एवं शुक्लादिगततिथि-
योजनप्रश्नोऽपि तदुक्त्यैव सिद्ध इति ध्येयम् । ननु सौरमासानामज्ञानादन्यथानुपपत्त्याऽवगत-
चैत्रादिचान्द्रमासा एव स्वल्पान्तराद्योजिता इत्यतो दूषणान्तरमाह-कुत इति । अधिमा-
सावमशेषके । सौरदिनेभ्यः साधिता अधिमासाश्चान्द्रसिद्ध्यर्थं तथा सावनसिद्ध्यर्थमिष्ट-
चान्द्रेभ्योऽवमानि साधितानि । तयोः शेषके । शेषाभ्यां क्रमेण दिनादिघट्यादिके । अधिक-
मासदिनक्षयशेषतो द्युघटिकादिनमत्र न गृह्यत इत्यनेन कुतः कथं संत्यक्ते । तदवयवयोः
क्रमेण योजनवियोजनाभ्या(भा)वेनाहर्गणस्य द्वोषान्तराक्रान्तत्वादित्यर्थः । चकाराह्नोेष-
त्रयाक्रान्तत्वेनास्याशुद्धत्वमहर्गणस्येत्यर्थः । नन्वधिमासावमयोर्निरग्रलब्धत्वात्तच्छेषयोर-
प्रसिद्धेश्चैव त्यागो ग्रहणं वा न संभवतीति कथं त्यागोक्तिः कथं वा प्रश्न उपपद्यत इत्यत
आह-यत इति । यत्कारणादनुपातः । अधिमासावमानयनोपजीव्योऽनुपातोऽहर्गणानयने
प्रसिद्धतरः सावयवः । तज्जं फलं निःशेषतया न लभ्यते । उक्तरीत्या तदानयने गुणहर-
योरपवर्तनेन केवलं हरस्योत्पन्नत्वात्तेन भाग इष्टसौरचान्द्रयोनियतत्वात्फलयोः सावयवत्व-
संभावनात् । तर्हि हरतुल्यो गुणो येन तयोर्निरवयवता । तथा च तच्छेषप्रसिद्धेस्त्यागोक्तिः
संगता । त्यागोक्त्यैव प्रश्नोऽपि संगतः । उपपत्तिसिद्धावयवत्यागेऽहर्गणस्यासंगतत्वापत्तेर-
न्यथा सर्वथापि निरवयवग्रहणापत्तिः । नन्वहर्गणस्य सूर्यसावनत्वेन सूर्योदयाद्यवधित्वात्रि-
रवयवत्वसिद्धेर्नान्यथानुपपत्त्या तदवयवत्याग इति वाच्यम् । उपपत्तिसिद्धावयवग्रहणेनाहर्गणस्य
सावयवत्वसिद्धा पूर्वविधेः सूर्योदयभिन्नत्वकल्पनादक्षतेः । तस्मादुक्तहर्गणस्यासंसिद्धत्वमेवा-
स्तीति भावः ॥१५॥ ।
अथ तदुत्तरोपजीव्यमधिमासशेषस्वरूपमुपजातिकयाऽऽह-दर्शावधिरिति ।
यतः कारणात् । हि निश्चयेन । दर्शावधिः दर्शान्तावाद्यन्तयोर्मर्यादा यस्यैतादृशो
मासश्चान्द्रः संक्रान्त्यवधिमासः सौरः । तुकारादिदमुक्तमहर्गणस्य संसिद्धत्वस्थापनार्थं मध्य-
मानेन ज्ञेयम् । तस्य स्पष्टमानेनासिद्धेरिति सूचितम् । अतोऽधिशेषस्य सौरचान्द्रान्तर-
रूपत्वोक्तेर्दर्शान्तादग्रे संक्रमकालात्पूर्वं सदा नियतमधिमासशेषमस्ति । एवकारोऽन्ययोग-
व्यवच्छेदार्थकः । अनेनैवासंक्रान्तिमासस्याधिकत्वं सिद्धम् । तथा च मध्यदर्शान्तकालाद-
व्यवहितमध्यसंक्रान्तिकालो यच्चान्द्रकालेनान्तरितस्तद्रूपमधिशेषमहर्गणादौ मध्यमत्वेन
फलितम् । मासादावभीष्टकाले त्वभीष्टचान्द्रदिनान्तम् । तत्तुल्यसौरदिनान्तररूपमिति
सूचितम् । स्पष्टं तु स्पष्टयोर्दर्शान्तसंक्रान्त्योरन्तरत्राप्रयोजकम् ॥१६॥
अथाहर्गणानयने चान्द्रमासतिथियोजनपूर्वकाधिशेषगत्यामुपजातिकया व्यवस्थापयति-
दर्शान्तस इति ।
सौरा दिवसा दर्शान्ताद्याततिथिमितैः सौरदिवसैर्युक्ताः । तुकारात्सौरमासाश्चैत्रा-
दिगतचान्द्रमितसौरमासैर्युक्ता इत्यर्थः । तथा च वर्षाणां सौरत्वात्कल्पगतवर्षा ण
द्वादशगुणानि मध्यममेषसंक्रान्तिकले कल्पात्सौरमासास्ततोऽभीष्टमासादौ तज्ज्ञानार्थं
Indological Truths