सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 242, कुल 723 में से
संदर्भ में पढ़ें१४० गोलाध्याये
गतसौरमासा मध्यमसंक्रान्त्यवधिका योज्यास्ततोऽभीष्टकाले गतसौरदिवसास्त्रिंशद्गुणितेषु
योज्याः कल्पादभीष्टकालो गतसौरा दिवसा भवन्तीत्येतदशक्यम् । मध्यममेषादिसंक्रान्त्य-
ज्ञानेन गतसौरमासानां गतसौरदिवसानां चाभीष्टकाले ज्ञानाभावदत आचार्यैर्मध्यमसौर-
वर्षादिजकल्पगतसौरमासाश्चैत्रादिगतचान्द्रमासतुल्यसौरमासा एव योजितास्ततस्त्रिंशद्-
गुणितेषु तेषु वर्तमानचान्द्रमासादिगततिथिमितसौरदिवसा योजिता इति प्रश्नपूर्वार्धोत्तरम् ।
चान्द्रत्वेन तद्योजनस्याकृतत्वातत्सौरकल्पनैव तद्योजनाच्चेति भावः । अथाधिमासशेषत्यागं
व्यवस्थापयति—यत इति । यत्कारणात् । तेऽभीष्टकालजसौरदिवसा अधिशेषोत्थदिनाधिकाः ।
उक्तरीत्या चान्द्रतुल्यसौरयोजनाच्चन्द्रे वास्तवसौरस्याधिशेषदिनसौराणां चासत्त्वाद्वास्तवा-
भीष्टकालिकसौरदिवसा यदि शेषदिनतुल्यसौरदिनयुताः साधितसौरदिवसेषु संजाता इत्यर्थः ।
अस्मात्कारणात्तत्पूर्वश्लोकोपपादितरूपमधिमासशेषमनुपातसिद्धाधिमासानयनेनाधिमासप्राप्तौ
यद्भाज्यशेषाद्दिनादिकं त्यक्तम् । अहर्गणसिद्धयर्थं न गृहीतम् । यथा मासाः सौराणां
योजितास्तथाऽधिशेषरूपाधिमासशेषाद्यवयवो न योजितः सौरदिनेषु । तदवयवस्य पूर्वमधि-
कत्वेन सत्त्वादन्यथेष्टचान्द्राणां तदधिकत्वेनावास्तवत्वापत्तिरित्यर्थः । न चाधिमासानां
वास्तवसौरेभ्योऽसाधनादधिमासानयनावगताधिशेषस्य साधितसौरान्तर्गताधिशेषादधिकत्वेन
तुल्यत्वाभावात्कथं त्यागः । अधिशेषयोरन्तरस्य पूर्वमसत्त्वात्तद्योजनावश्यकत्वादिति
वाच्यम् । तस्यावास्तवसौरदिनेभ्योऽधिमासानयनोक्त्यैव सिद्धत्वेनासंगतत्वात् ॥१७॥
नन्वेवं कल्पादिष्टचान्द्राणां वास्तवत्वेनावगमात्तत्साधितावमानि निरग्रकाणि कथं
सावनसिद्धयर्थं हीनानि कृतानि । नहीष्टचान्द्रेऽवमशेषं न्यूनं येनावमशोधनावसरे तर्ह्यवय-
वत्याग इत्यत उपजातिकयोत्तरमाह—तिथ्यन्तेति ।
तिथ्यन्तसूर्योदययोरहर्गणानयनोपजीव्यमध्यमतिथ्यन्तमध्यमसूर्योदयकालयोर्मध्येऽन्त -
राले । तुकारात्तिथ्यन्तादग्रे सूर्योदयात्पूर्वमितिरूपे सदा नियतमवमशेषमेवकारोऽन्ययोग-
व्यवच्छेदार्थकः । अस्ति । अतः कारणादवमशेषस्य चान्द्रसावनान्तरत्वेनोक्तरूपत्वादि-
त्यर्थः । तेनावमशेषेनानुपातावगतावमाघोऽवयवेन घट्याद्यात्मकेन । त्यक्तेनावमशोधनाव-
सरे शोधनार्थमगृहीतेनाहर्गण उदयकालिकः कल्पितनियतमध्यमसावनमानेनावास्तवसूर्योदय-
कालिक इत्यर्थः । अन्यथा । अवमशेषशोधिते तिथ्यन्तकालिकवास्तवचान्द्रेषु द्युगणस्तिथ्य-
न्तकाले स्यात् । तथा चाहर्गणसिद्ध्यर्थं पूर्वमवमशेषं हीनं ततः सूर्योदयकालिकत्वसिद्ध्यर्थ-
मवमशेषं योज्यमित्यवमशोधनावसरे लाघवात्पूर्वमेवावमशेषं न शोधितमिति तात्पर्यम् ।
एवं चाहर्गणानयनमुक्तं साधूपपन्नमिति व्यवस्थापितम् ॥१८॥
केदारदत्तः—अहर्गण गणित साधन करते समय इष्ट सौर मासों में चैत्रादि चान्द्र-
मासों की संख्या क्यों जोड़ी गई है ? क्योंकि योगान्तर तो सजातीय पदार्थों का ही होता
है । तथा इसी अवसर पर अनुपात लब्ध सावयव फल में, अधिक मास शेष तथा क्षय
शेष को भी जोड़ना चाहिए था, किन्तु जोड़ा नहीं गया ऐसा क्यों ?