सामग्री पर जाएँ
सर्वकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 240, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 240

१३८ गोलाध्याये
अस्य प्रश्नस्योत्तरमाह—
दर्शावधिश्चान्द्रसमो हि मासः सौरस्तु संक्रान्त्यवधिर्यतोऽतः ।
दर्शश्रितः संक्रमकालतः प्राक् सदैव तिष्ठत्याधिमासशेषम् ॥१६॥
दर्शान्ततो याततिथिप्रमाणैः सौरैस्तु सौरा दिवसाः समेताः ।
यतोऽधिशेषोत्थदिनाधिकास्ते त्यक्तं तदस्मादधिमासशेषम् ॥१७॥
तिथ्यन्तसूर्योदययोस्तु मध्ये सदैव तिष्ठत्यवमावशेषम् ।
त्यक्तेन तेनोदयकालिकः स्यात्तिथ्यन्तकाले द्युगणोऽन्यथाऽतः ॥१८॥
वा० भा०—मध्यममानेन यावत्यमावास्या तदन्ते चान्द्रमासान्तः । मध्य-
मार्कस्य यस्मिन् दिने संक्रान्तिस्तत्र संक्रान्तिकाल रविमासान्तः । तयो रविचन्द्र-
मासान्तयोरन्तरे यावत्यस्तिथयः सावयवास्ता अधिमासशेषतिथयः । यतः सौर-
चान्द्रान्तरमधिमासाः । अहर्गणानयने गताब्दा रविगुणास्ते सौरा मासा जाताः ।
अतस्तेषु चैत्रादिचान्द्रतुल्याः सौरा एव मासा योजितास्ते संक्रान्त्यवधयो जाता-
स्तेषु त्रिंशद्गुणेषु गततिथितुल्याः सौरा एव दिवसा योजिताः । अतः सौरचान्द्रा-
न्तरेणाधिका जातास्तदन्तरमधिमासशेषदिनानि भवन्ति । सौरचान्द्रान्तरत्वात् ।
अतोऽधिमासशेषदिनान्येभ्यः शोध्यानि । अथ चाधिमासानयनेऽनुपातलब्धैरधि-
मासैर्दिनीकृतैस्तच्छेषदिनैश्च युक्ताः सौराहाश्चान्द्राहा भवितुमर्हन्ति । एवमत्राधि-
मासशेषदिनानि क्षेप्याणि । तत्र शोध्यानि । अतः कारणादधिमासशेषं त्यक्तम् ।
अथावमशेषत्यागकारणमुच्यते । तिथ्यन्तानन्तरं यावतीभिर्घटिभिः सूर्योदयस्ता
अवशेषघटिकाः । यतश्चान्द्रसावनान्तरमवमानि । यद्यवमशेषं न त्यज्यते लब्धा-
वमैरवमशेषघटिकाभिश्च तिथय ऊनीक्रियन्ते तदा तिथ्यन्ते सावनोऽहर्गणो
भवति । अथ च सूर्योदयावधिः साध्यः । तिथ्यन्ताहर्गणोऽवमशेषघटीभिर्युक्तः
सन्नुदयावधिर्भवति । अतोऽवमशेषे त्यक्ते स्वतः सूर्योदयावधिर्भवति । १५।१६।
१७।१८।
मरीचिः—अथाहर्गणसाधनोपजीव्याधिमासावमस्वरूपं प्रतिपाद्याहर्गणस्य संसिद्धत्व-
व्यवस्थापनं विवक्षुः प्रथमं तत्प्रतिपादनेच्छोपयोग्यं पूर्वार्धोक्ताहर्गणानयनखण्डनरूपशिष्य-
प्रश्नमुपजातिकयाऽऽह—अहर्गणस्येति ।
हे गणक । साधुत्वेन स्वीकृतोक्ताहर्गणानयने । अहर्गणस्य ग्रहज्ञानोपजीव्य-
भूतस्याऽऽनयनप्रकारोक्तौ । मध्याधिकरोक्तकथितकल्पगतोऽर्कसमागण इत्यादिश्लोकत्रय-
निबद्धे अर्कमासाः कथितकल्पगतोऽर्कसमागणो रविगुण इत्यनेन जाताः । चैत्रादिगतचान्द्र-
मासैः । किं कुतोऽन्विताः। गतमाससमन्वित इत्यनेन चैत्रादिगतचन्द्रमासैर्योजयितुं न युक्ताः ।