सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

२८ श्रीकल्याणरायकृतविवरणसमेता ।
पुष्टिमार्गे 'जयति जननिवास' इत्यादिवाक्यैर्लीलास्थानां जीवदेहकृतीनां नित्यत्वं भिन्नत्वं
चेत्यर्थः । अथवा । यथा श्रुतेः 'ते ते धामान्युश्मसि गमध्यै गाव' इति वेदात् लीलास्थानां
जीवदेहकृतीनां नित्यता भिन्नत्वम्, तद्वत् पुष्टिमार्गेपि लीलान्तर्गतौ जीवदेहकृतीनां
नित्यता भिन्नत्वं च भवतीत्यर्थः । द्वयोरपि निषेधत इति । 'स जहाति मतिं लोके वेदे
च परिनिष्ठिता'मितिवाक्येन भगवदनुग्रहानन्तरं प्रवाहमर्यादामार्गयोर्निषेधात् प्रवाह-
मर्यादामार्गस्थयोर्देहादीनां भिन्नत्वं नित्यता च न भवतीत्यर्थः ॥ ७ ॥
प्रमाणभेदाद्भिन्नो हि पुष्टिमार्गो निरूपितः ।
अतः कारणात् । पुष्टिमार्गे भगवाननुग्रहेण पुष्टिमार्गस्थं यथा ज्ञापयति, यथा
प्रेरयति, तथा स प्रवर्तते । अतः पुष्टिमार्गे भगवान् प्रमाणम्, भगवदनुग्रहश्च । तस्मात्
प्रमाणभेदादपि पुष्टिमार्गो भिन्न इत्यर्थः ॥ ७ १/२ ॥
सर्गभेदं प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतम् ॥ ८ ॥
त्रयाणां सर्गभेदमाहुः । जीवदेहक्रियासहितं भिन्नं सर्गं प्रवक्ष्यामीत्यर्थः ॥ ८ ॥
इच्छामात्रेण मनसा प्रवाहं सृष्टवान् हरिः ।
वचसा वेदमार्गं हि पुष्टिं कायेन निश्चयः ॥ ९ ॥
त्रयाणां सर्गाणां भेदे किं निमित्तमित्याकाङ्क्षायामाहुः । इच्छामात्रेण सामान्ये-
च्छया, मल्लादियुद्धवत् न तु स्वयं रन्तुम्, हरिः मनसा प्रवाहं सृष्टवान् ।
'सोऽकामयत बहु स्यां प्रजायेये'तिश्रुतेः वचसा वेदवाण्या वेदमार्गं सृष्टवान् । कायेन
स्वरूपेण पुष्टिमार्गस्थान् सृष्टवान् । 'स वै नैव रेमे, तस्मादेकाकी न रमते, स
द्वितीयमैच्छत्, स हैतावानासे'ति श्रुतेः । अत एव वाराहपुराणे 'भिन्नेव काचित्
सा सृष्टिर्विधातुर्व्यतिरेकिणी'ति । अथवा । स्वयमाविर्भूय भक्तैः स्वसेवां कारयित्वा
तन्मार्गं प्रकटितवानित्यर्थः ॥ ९ ॥
त्रयाणां मार्गाणां फलभेदादपि भेदमाहुः ।
मूलेच्छातः फलं लोके वेदोक्तं वैदिकेपि च ।
कायेन तु फलं पुष्टौ भिन्नेच्छातोऽपि नैकधा ॥ १० ॥
मूलं सृष्टिकारणं ब्रह्म, तस्य सर्गादौ अस्यानेनैवमेवं करिष्यामीतीच्छा, तत एव
प्रवाहस्थानां फलमित्यर्थः । वैदिके कर्ममार्गे वेदोक्तं स्वर्गापवर्गरूपमपि फलं भवतीत्यर्थः ।
पुष्टौ पुष्टिमार्गे कायेन स्वरूपेण फलं भवतीत्यर्थः । तदुक्तं 'गोपीभिः स्तोभितोऽनृत्य'-
दित्यादिना । पुष्टौ प्रवाहमर्यादाभ्यां भिन्नेच्छातोपि जातं फलं कौमारलीलादिरूपेणा-
नेकविधं भवतीत्यर्थः ॥ १० ॥
'तानहं द्विषतो' वाक्याद्भिन्ना जीवाः प्रवाहिनः ।
अत एवेतरौ भिन्नौ सान्तौ मोक्षप्रवेशतः ॥ ११ ॥
प्रमाणपूर्वकं प्रवाहस्थान् जीवान् भिन्नानाहुः । भूतसर्गे दैवजीवेषु भगवदनुगृहीता-
१. तत्र ।

पुष्टिप्रवाहमर्यादा । २९
भक्तिमार्गीया भवन्ति, अन्ये दैवा एव कर्मिणः वेदोक्तफलभाजो भवन्ति । अवशिष्टा जीवाः
'प्रवृत्तिं च निवृत्तिं चे'त्यारभ्य 'प्रद्विषन्तोऽभ्यसूयका' इत्यन्तेन निरूपितानां 'तानहं द्विषतः
क्रूरा'नित्यारभ्य 'ततो यान्त्यधमां गतिं' मित्यन्तेनाधमगतित्वेन निरूपणात् प्रवाहस्था
आसुराः पूर्वोक्तेभ्यो भिन्ना इत्यर्थः । अत एवैतौ पुष्टिमार्गीयमर्यादामार्गीयजीवौ एभ्यो
भिन्नौ । तत्र हेतुः । सान्तौ अन्तः फलपर्यवसानं तत्सहितौ, कुतः, मोक्षप्रवेशत इति ।
मर्यादामार्गीयस्य मोक्षात् पुष्टिमार्गीयस्य लीलाप्रवेशत इत्यर्थः ॥
तस्माज्जीवाः पुष्टिमार्गे भिन्ना एव न संशयः ।
भगवद्रूपसेवार्थं तत्सृष्टिर्नान्यथा भवेत् ॥ १२ ॥
अत्युत्कर्षादपि पुष्टिमार्गीयाणां भेदमाहुः । यस्मात् सर्वोत्कृष्टातस्तस्मात् पुष्टिमार्गीय-
जीवास्तेभ्यो भिन्ना एवेत्यर्थः । विपक्षे बाधकं तर्कमाहुः भगवद्रूपसेवार्थमिति । यदि
पुष्टिमार्गीयाः सर्वोत्कृष्टा न स्युः, तदा साक्षात्पुरुषोत्तमस्वरूपसेवार्थं तत्सृष्टिर्न भवेत् ॥
शुद्धपुष्टिमार्गीयाणां सेवार्थं सहकारियोग्यतामाहुः ।
स्वरूपेणावतारेण लिङ्गेन च गुणेन च ।
तारतम्यं न स्वरूपे देहे वा न क्रियासु वा ॥ १३ ॥
लीलासृष्टेर्भगवद्रूपत्वात् स्वरूपसाम्यम् । यथा भगवदवतारः प्रादुर्भावो न
जीववज्जन्म, तथा मुख्यभक्तानामपीत्यवतारसाम्यम् । अलौकिकत्वज्ञापकस्य भगवता समं
नृत्यादिसामर्थ्यस्य विद्यमानत्वात् चिह्नसाम्यम् । गुणाः सौन्दर्यादयस्तत्साम्यं स्पष्टमेव ।
तेन तासां क्रियासु स्वरूपे देहे वा न तारतम्यमित्यर्थः । भगवतो लीलान्तःपातिनां
भक्तानां च स्वरूपादिभिस्तुल्यत्वम्, न तूत्कर्षापकर्षाविति श्लोकार्थः ॥ १३ ॥
तथापि भगवान् स्वार्थं तारतम्यं करोतीत्याहुः ।
तथापि यावता कार्यं तावत्तस्य करोति हि ।
स्वरूपादेस्तुल्यत्वेपि भगवान् स्वस्य कार्यं रमणं स्वस्य भक्तानां च यावता
तारतम्येन सिध्यति, तावत्तारतम्यं प्रकटयति । हि युक्तोयमर्थः । उत्कर्षापकर्षवैचित्र्यैर्विना
समग्ररमणासिद्धेः । अत एव बाललीलादयो युक्तरूपा भवन्तीति दिक् ॥ १३½ ॥
एवं विशेषलीलायास्साधनानि प्रकारं चोक्त्वा सामान्यलीलायाः साधनानि प्रकारं
चाहुः ते हीत्यारभ्य, भवेदित्यन्तेन ।
ते हि द्विधा शुद्धमिश्रभेदान्मिश्रास्त्रिधा पुनः ॥ १४ ॥
प्रवाहादिविभेदेन भगवत्कार्यसिद्धये ।
पुष्ट्या विमिश्राः सर्वज्ञाः प्रवाहेण क्रियारताः ॥ १५ ॥
मर्यादया गुणज्ञास्ते शुद्धाः प्रेम्णातिदुर्लभाः ।
एवं सर्गस्तु तेषां हि फलमत्र निरूप्यते ॥ १६ ॥
भगवानैव हि फलं स यथाविर्भवेद्भुवि ।
गुणस्वरूपभेदेन तथा तेषां फलं भवेत् ॥ १७ ॥

३० श्रीकल्याणरायकृतविवरणसमेता ।

ते पूर्वोक्ताः त्रयोपि मार्गाः द्विधा द्विपकाराः शुद्धमिश्रभेदात् । अन्यमार्गधर्म-
संवलिता मिश्राः, तदसंवलिताः शुद्धाः । मिश्रा अपि परस्परं त्रयाणां मिश्रणेन प्रत्येकं
त्रिप्रकाराः । एवं भेदानां प्रयोजनमाहुः भगवत्कार्यसिद्धय इति । 'क्रीडाभाण्डमिदं
विश्व'मित्यादिवाक्यैः विश्वस्य क्रीडार्थत्वात् । पुष्ट्यादीनां त्रयाणां स्वतः परतः मिश्रणे
ज्ञापकान् धर्मानाहुः पुष्ट्या....दुर्लभाः । पूर्वं सामान्यतोऽनुगृहीता विशेषानुग्रहं प्राप्ताः
पुष्ट्या विमिश्राः । ते भगवदभिप्रायादिसर्वज्ञातारो भवन्ति, नारदादय इव, सर्वज्ञत्वमेव
तेषां लक्षणम् । पुष्टिस्था मर्यादामिश्रिताः भगवद्धर्मज्ञातारो भवन्ति, कविप्रभृतयो नव-
योगेश्वरा इव । पुष्टिस्थाः प्रवाहमिश्रिताः यत्किञ्चिद्भगवद्धर्मं ज्ञात्वा तीर्थाटनपरा
भवन्ति । प्रवाहस्थाः पुष्टिमिश्रिताः भगवद्भजनानुकूलक्रियानुसारिणो भवन्ति । प्रवाहस्थाः
मर्यादामिश्रिताः सत्कर्मकर्तारो भवन्ति । प्रवाहस्थाः प्रवाहमिश्रिताः केवलं लौकिकक्रि-
यारता भवन्ति । त एव आसुराः । मर्यादामार्गीयाः पुष्टिमिश्रिताः माहात्म्यज्ञानात्
भगवत्प्रीत्यर्थं कर्मकर्तारो भवन्ति । मर्यादामार्गीयाः मर्यादामिश्रिताः स्वर्गार्थं कर्मकर्तारो
भवन्ति । मर्यादामार्गीयाः प्रवाहमिश्रिताः लौकिकार्थं कर्मकर्तारो भवन्ति । प्रेम्णा
स्नेहेन शुद्धाः प्रेमविषयातिरिक्तस्फूर्तिरहिताः ते शुद्धपुष्टिस्थाः । तेऽतिदुर्लभा इत्यर्थः ।
भगवत्कार्यसिद्धये एवंप्रकारेण तेषां सर्गो निरूपितः । हि युक्तोयमर्थः । वैचित्र्यं
विना रमणासिद्धेः । तेषां फलमत्र निरूप्यते । तेषां फलमाहुः भगवानेवेति । धर्म-
धर्मिणोरभेदात् सर्वेषां धर्मधर्मिरूपेण भगवानेव फलं स यथा भुवि भक्तानां गृहादौ
हृदये च यथा प्रकटो भवेत् गुणस्वरूपभेदेन, भक्तानां वा गुणस्वरूपभेदेन स्वरूपैक-
निष्ठानां पुष्टिमार्गीयाणां स्वरूपेण आनन्दमात्रकरपादमुखोदरादिरूपेण प्रकटो भूत्वा फलं
ददाति, धर्मज्ञानादिपरेषु धर्मादिरूपेण स्थित्वा यथा फलं ददाति, तथा तत्तत्फलं तेषां
भवतीत्यर्थः । यद्वा । भगवानिति । गुणा ऐश्वर्यादयो धर्माः, स्वरूपं धर्मी । भगवानेश्वर्या-
दिषड्गुणयुक्तो यस्य भक्तस्यान्तःकरणे यथा येन भावेन प्रकटो भवति तत्प्रियं कर्तुं स्वरूप-
मेव तस्य फलमित्यर्थः । 'ये यथा मां प्रपद्यन्ते तांस्तथैव'ति प्रतिज्ञानात् ॥ १७ ॥
प्रमेयप्रमाणलीले तयोः प्रकारांश्चाभिधाय भक्तिमार्गविरोधं परिहर्तुं आसक्ता-
वित्यारभ्य सार्धश्लोकत्रयेण समादधते ।
आसक्तौ भगवानेव शापं दापयति क्वचित् ।
अहङ्कारेऽथवा लोके तन्मार्गस्थापनाय हि ॥ १८ ॥
न ते पाषण्डतां यान्ति न च रोगाद्युपद्रवः ।
महानुभावाः प्रायेण शास्त्रं शुद्धत्वहेतवे ॥ १९ ॥
भगवत्तारतम्येन तारतम्यं भजन्ति हि ।
वैदिकत्वं लौकिकत्वं कापत्यात्तेषु नान्यथा ॥ २० ॥
वैष्णवत्वं हि सहजं ततोऽन्यत्र विपर्ययः ।

पुष्टिप्रवाहमर्यादा । ३१
ननु भक्तिमार्गीयाणां कथमन्थेन ( शापेन ) पराभव इत्याकाङ्क्षायामाहुः भगवा-
नेवेति । पुष्टिस्थस्य लोके लौकिके आसक्तौ सत्यां अथवा अहंकार जाते अनयोः भजने-
न्तरायरूपत्वात् भगवानेव अन्येन शापं दापयति क्वचिदेव । यथा चित्रकेतौ । क्वचित्
स्वसामर्थ्यादिज्ञापनेनाहंकारादिकमेव दूरीकरोति । यथार्जुनादेर्ब्राह्मणपुत्रानयनादौ ।
भक्तिमार्गस्थापनाय । हि यस्मात् अन्यथान्‍येपि बहिर्मुखाः स्युः । एवं भगवता स्वेषां
शिक्षार्थं दण्डे कृते दण्डभयात् ते भक्तिमार्गीयाः पाषण्डतां न यान्ति लोकवेदभक्तिमार्ग-
विरुद्धाचरणं न कुर्वन्ति । विरुद्धाचरणाभावात् तेषां रोगाद्युपद्रवो न भवति । तर्हि
भक्ता अपि साधारणजनतुल्या एव किमित्याकाङ्क्षायामाहुः । ते भक्तिमार्गीया महानुभावाः
प्रह्लादाम्बरीषादय इव, यदि ते शुद्धाः स्युः । शुद्धत्वं नाम भक्तिमार्गविरुद्धधर्मराहित्येन
कायवाङ्मनोभिस्तत्परत्वम् । तेषां शुद्धत्वप्रयोजकं शास्त्रम् । तच्छास्त्रं ‘श्रुतिस्मृती ममै-
वाज्ञे यस्ते उल्लङ्घ्य वर्तते । आज्ञोच्छेदी मम द्रोही मद्भक्तोपि न मे प्रियः' । 'अनन्यचेताः
सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ।' 'मन्मना
भवे'त्यादिभगवद्वाक्यम् । तदुक्तं ये कुर्वन्ति, ते शुद्धत्वात् महानुभावा भवन्तीत्य-
भिप्रायेणोक्तं प्रायेणेति । तत्र हेतुः । भगवदिति । 'ये भजन्ति तु मां भक्त्ये'ति
वाक्यात् भक्त्या भजनेन यथा यथा षड्गुणयुक्तो भगवान् तेषां हृदये प्रविष्ट ऐश्वर्यादीन्
प्रकटयति, तथा तथा तारतम्यं भजन्ति उत्कृष्टा भवन्तीत्यर्थः । लौकिकेषु इदानीं
प्रसिद्धेषु ( महेता ) नरसिंहाख्यादिष्वपि प्रसिद्धिबोधको हिशब्दः । ननु एतादृशानां
भगवद्भक्त्यैव सर्वसिद्धौ वेदोक्तकर्मकरणं लौकिककरणं च किमर्थमित्याकाङ्क्षायामाहुः ।
उत्कृष्टानां भगवद्भक्तानां वेदोक्तकर्मकरणं लौकिकव्यवहारकरणं च ‘सक्ताः कर्मण्यविद्वांसो
यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रह’मिति भगवद्वाक्यात्
लोकसङ्ग्रहार्थमेव वेदोक्तकर्माणि लौकिकव्यवहारं च कापट्यं विधाय स्वस्य बहिः
कर्मासक्तिं दर्शयित्वा कुर्वन्ति, नान्यथेत्यर्थः । तर्हि तेषां मुख्यः कर्तव्यो धर्मः क
इत्याकाङ्क्षायामाहुः वैष्णवत्वं भक्तिमार्गीयदीक्षापूर्वकं भगवद्भजनं सहजं आदरेण कर्तव्यो
मुख्यो धर्मः । ततोऽन्यत्र अन्यधर्मेषु एतद्विपर्यय इत्यर्थः । हि युक्तोयमर्थः । यो
यस्य दासः तस्य तद्भजनमेव मुख्यो धर्म इति ॥ १४ ॥
भक्तिमार्गीयाणां व्यवस्थामुक्त्वा तत्सम्बन्धिनां उदासीनानामन्येषां च व्यवस्थामाहुः
सम्बन्धनस्त्विति श्लोकद्वयेन ।
सम्बन्धिनस्तु ये जीवाः प्रवाहस्थास्तथापरे ॥ २१ ॥
चर्षणीशब्दवाच्यास्ते ते सर्वे सर्ववर्त्मसु ।
क्षणात् सर्वत्वमायान्ति रुचिस्तेषां न कुत्रचित् ॥ २२ ॥
तेषां क्रियानुसारेण सर्वत्र सकलं फलम् ।
भक्तिमार्गीयसम्बन्धिनो ये तु अदीक्षिताः, तथा भक्तिमार्गीयासम्बन्धिनः

३२ श्रीकल्याणरायकृतविवरणसमेता ।
प्रवाहस्था ये च अदीक्षिताः, ते चर्षणीशब्दवाच्याः सर्वमार्गेषु परिभ्रमणशीलत्वात्
सर्ववर्त्मसु सर्वेषु मार्गेषु क्षणात् अल्पकालादेव तन्मार्गियसङ्गं प्राप्य तन्मार्गधर्माचरणा
तन्मार्गीयसदृशा भवन्ति, नतु तेषां कुत्रापि रुचिः स्नेहोऽस्ति । तेषां तत्तन्मार्गीयक्रिया
नुरूपं कामितं फलं भवतीत्यर्थः ॥ २० ॥
लक्षणप्रमाणाभ्यामासुरान् जीवानाहुः प्रवाहस्थानित्यारभ्य श्लोकद्वयेन ।
प्रवाहस्थान् प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतान् ॥ २३ ॥
जीवास्ते ह्यासुराः सर्वे 'प्रवृत्तिं चे'ति वर्णिताः ।
ते च द्विधा प्रकीर्त्यन्ते ह्यज्ञदुर्ज्ञविभेदतः ॥ २४ ॥
दुर्ज्ञास्ते भगवत्प्रोक्ता ह्यज्ञास्ताननु ये पुनः ।
प्रवाह एव तिष्ठन्ति स्वोदरपोषणमात्रपराः, स्वरूपदेहक्रियातत्पराः, न तु धर्मा-
दिपराः, ते जीवा आसुरा ज्ञेयाः । ते च 'प्रवृत्तिं च निवृत्तिं चे'त्यादिना भगवता
वर्णिताः । ते आसुराः द्विप्रकाराः अज्ञदुर्ज्ञभेदात् । 'प्रवृत्तिं चे'त्यादिनोक्ता दुर्ज्ञाः ।
तान् ये अनुसरन्ति तदुक्तकारिणो भवन्ति, ते तु अज्ञाः ॥ २४½ ॥
ननु आसुराणामपि भक्तिः श्रूयते, सा कथं संभवतीत्याशङ्कायां समाधानमाहुः ।
प्रवाहेऽपि समागत्य पुष्टिस्थस्तैर्न युज्यते ॥ २५ ॥
सोपि तैस्तत्कुले जातः कर्मणा जायते यतः ॥ २५½ ॥
वस्तुतो यस्य भक्तिर्दृश्यते, स आसुरजीवो न भवति, किन्तु भगवदपराधेन भक्ता-
पराधेन वेदादिनिन्दया वा प्रवाहेऽपि समागत्य प्राप्तोपि तैः प्रवाहस्थैर्न युज्यते न
मिलति । तत्कुले जातोपि स पुष्टिस्थस्तैः प्रवाहस्थकुलधर्मैर्न युज्यते, न युक्तो भवति ।
'न वै जनो जात्वि'ति वाक्यात् । तर्हि भक्तिमतः कथं प्रावाहिकेषु जन्मेत्यत आहुः
कर्मणा जायते यत इति । यतः यस्मात् कारणात् भगवदपराधादिना प्रारब्धकर्मणा
वा जायते उत्पद्यते । देहस्य कर्माधीनत्वाद्यादृशं कर्म, तादृशो देहो भवतीत्यर्थः ॥ २३ ॥
इति श्रीवल्लभाचार्यैः साधनादिविभेदतः ।
मार्गाः प्रोक्ता विचार्यैषु प्रविशन्तु फलार्थिनः ॥ १ ॥
भक्त्या श्रीवल्लभाचार्यचरणाम्बुजयुगं प्रभून ।
प्रणम्य कृपया तेषां यताङ्कः१ सुखावहाः ॥ २ ॥
श्रीमत्कल्याणरायेण श्रीगोविन्दसुतेन हि ।
पुष्टिप्रवाहमर्यादाविवृतिः कृतिना कृता ॥ ३ ॥
इति श्रीविट्ठलेश्वरचरणकमलैकतानश्रीकल्याणरायविरचिता पुष्टिप्रवाह-
मर्यादाविवृतिः समाप्तिसमर्पत् ॥
१. साधु ।

श्रीकृष्णाय नमः।

पुष्टिप्रवाहमर्यादा ।

श्रीपीताम्बरकृतविवृतिसमेता ।
नमः श्रीवल्लभाचार्यचरणान्जनखेन्दवे ।
पुष्टिप्रवाहमर्यादास्तारका येनं शोभिताः ॥ १ ॥
न भेदस्ते कुत्राप्यतिरुचिर किन्तु प्रियतया
विभेदोऽतः स्वामिन् कृपय मयि दासेऽतिविधुरे ।
विभेदः केन स्यात् स्वकृतनिजपुष्टेरितरथा
प्रवाहादेः स्वीयप्रणतचरणप्रापक विभो ॥ २ ॥
श्रीवल्लभसुतचरणाम्भोरुहमकरन्दमत्तमधुपो यः।
जयति निगूढत्रिसरणिमाल्यां तस्य झङ्कारः ॥ ३ ॥
इह हि चिद्रूपत्वेन भगवदंशत्वेन च तुल्येषु जीवेषु केषाञ्चित्पुरुषोत्तमप्राप्तिः,
केषाञ्चिदक्षरस्य, केषाञ्चित्स्वर्गादेः, केषाञ्चिदन्धन्तमसः, सा श्रूयत इति कुतः फलभेदः,
कुतो वा स्वभावभेदः, कथं वा केषाञ्चित्स्वभावविरुद्धे देहक्रिये, इतरेषां च तदनुरूपे
इत्यादिप्रकारेण सेवाफलविवरणादिग्रन्थश्रवणादन्यतश्च सन्दिहानानां सन्देहवारणाय
तदुपायभूतसार्गतत्साङ्कर्य निरूपयितुं बहूनां सन्देहानां भेदज्ञानादेव निवृत्तिं हृदि कृत्वा
मार्गत्रयभेदनिरूपणं श्रीमदाचार्याः प्रतिजानते पुष्टीत्यादि ।
पुष्टिप्रवाहमर्यादा विशेषेण पृथक् पृथक् ।
जीवदेहक्रियाभेदैः प्रवाहेण फलेन च ॥ १ ॥
वक्ष्यामि सर्वसन्देहा न भविष्यन्ति यच्छ्रुतेः ।
एतन्मार्गत्रयं विशेषेणोत्कर्षादिरूपव्यावर्तकधर्मेण जीवादिभेदैः प्रवाहेण सर्ग-
परम्पराया अविच्छेदेन फलेन च पृथक् पृथक् भिन्नं भिन्नं यथा स्यात्तथा वक्ष्यामीत्यर्थः ।
भेदकथनफलमाहुः सर्वेति । यच्छ्रुतेः उक्तभेदकचतुष्टयश्रवणात् । एतेन जगत्यनेके
मार्गाः कथं त्रय एवोच्यन्त इत्यपि सन्देहोऽनेनैवापयासतीत्यपि बोधितम् । ज्ञाते स्वरूपे
अन्यान्तर्भावस्यापि सुखेनैव ज्ञानात् । न चैकेनैव भेदसिद्धावितरेषां वैयर्थ्यं शङ्क्यम् ।
स्वरूपसाधनफलैक्यनिरासकत्वेन सर्वेषामेव सार्थक्यात् । अत्यन्तविविक्तत्वज्ञान एव
सर्वसन्देहानिरासात् ॥ १ ॥
नन्वाश्रयसिद्धौ भेदकं वक्तव्यम्, प्रकृते तु पुष्ट्यादिशब्दवाच्यानां मार्गाणामप्रसि-
५ पु. प्र. म.

३४ श्रीपीताम्बरकृतविवृतिसमेता ।
द्धत्वात्तद्भेदनिरूपणं गगनकुसुमसौरभमनुकरोतीत्याशङ्कायामाश्रयसत्त्वं सिसाधयिषवः पुष्टेः
पूर्वमुद्दिष्टत्वात्तत्रैव पूर्वं प्रमाणमाहुः भक्तीत्यादि ।
भक्तिमार्गस्य कथनात् पुष्टि‍रस्तीति निश्चयः ॥ २ ॥
दशमस्कन्धे भ्रमरगीतस्थसन्देशे 'या मया क्रीडते'त्यारभ्य 'अचिरान्माम-
वाप्स्यथे'त्यन्तस्य, 'युवां मां पुत्रभावेन ब्रह्मभावेने'त्यादेः, 'दिष्ट्या गृहेश्वर्य-
सकृन्मयि त्वया कृतानुवृत्ति'रित्यादेः, एकादशस्कन्धे च 'अथैतत्परमं गुह्यं शृण्वतो
यदुनन्दन । सुगोप्यमपि वक्ष्यामी'त्यारभ्य 'तस्मात्त्वमुद्धवोत्सृज्ये'ति श्लोकद्वया-
न्तस्य 'भक्तियोगः पुरैवोक्तः प्रीयमाणाय तेऽनघ । पुनश्च कथयिष्यामि मद्भक्तेः
कारणं पर'मित्यादिभिर्भगवता भक्तिमार्गस्य कथनात्, 'सालोक्यसार्ष्टिसामीप्यसारूप्यै-
कत्वमप्युत । दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः । स एव भक्तियोगाख्य आत्य-
न्तिक उदाहृत' इति तृतीयस्कन्धे उक्तायाः 'भक्तिरस्य भजनं तदिहामुत्रोपाधिनैराश्येनै-
वामुष्मिन्मनःकल्पनमि'त्याथर्वणोपनिषदि च श्राविताया भक्तेर्यो मार्ग उपायः प्रकारश्च
तस्य कथनात्, पुष्टि‍रस्ति 'पोषणं तदनुग्रह' इति वाक्यादनुग्रहपरपर्याया तत्तद्भक्तिबी-
जभूता कृपा भगवति वर्तत इति निश्चयः । अन्यथा भगवानेवं भक्तिमार्गं न वदेत् ।
'निर्विण्णानां ज्ञानयोगः कर्मयोगस्तु कामिनामि'ति वाक्यादुभयोस्ताभ्यां फलसिद्धेरू-
क्तत्त्वात् 'न निर्विण्णो नातिसक्त' इत्यनेनोक्तस्येषत्सक्तस्य कामसद्भावात्कर्मणा कथञ्चित्तेन
तदपूर्तौ निर्वेदे ज्ञानेन च यदाकदाचिद्यथाकथञ्चित्फलसिद्धेः सम्भवात् । लोकेऽपि
स्वल्पधनस्याधमर्णस्य तावद्धनग्रहणादिभिर्महर्णविमोक्षस्योत्तमर्णानुग्रहेण दर्शनात् । कष्ट-
साध्ये प्रायश्चित्तादौ पर्षदनुग्रहेणैव सुकरसाधनोपदेशस्य स्मृतिष्वपि सिद्धत्वात् । 'भवन्ता-
वनुगृह्णीतां याता वोऽनुग्रहाद्दिव'मित्यादिषु तत्रार्थिनादर्शनाच्च सुकरसाधनोपदेशबीजभू-
तानुग्रहे सिद्धे पुष्टिर्भगवत्यस्ति । सुकरसाधनरूपस्य भक्तिमार्गस्य कथनात् । यत्र यत्र
हितरूपसुकरसाधनकथनं तत्र तत्र वक्तुरनुग्रहसत्ता । यथा उक्तपरिषदि । यत्र नैवं तत्र
नैवम् । यथा नृगसम्प्रदानविप्रादिषु, इत्यनुमानेन भक्तिरूपसुकरसाधनोपदेशाद्भगवति
तत्सत्तायां न सन्देह इत्यर्थः । स च धर्मान्तरमेव । न तु फलदित्सा । 'यस्यानुग्रह-
मिच्छामी'ति वाक्यात् । दित्सात्वे इच्छाकर्मत्वायोगात् । अत एव न परदुःखप्रहा-
णेच्छापि । नापि तदर्थको यत्नः । कृपयामि न तु यते इति तदुत्तरं व्यवसायदर्शनात् ।
कृपया यते दित्स इत्यादिप्रयोगाच्च । नापि ज्ञानम् । दुःखं जानन्नपि न दुष्टे कृपयति,
नास्य दुष्टस्य दुःखमिति जानन्न कृपयतीत्यादिप्रयोगात् । दृष्टत्वान्नादृष्टविशेषः । द्वेषा-
दिवैलक्षण्याच्च न द्वेषादि । न च कृपयत्यनुगृह्णातीति भिन्नशब्दाभिलाप्यत्वाद्विद्वदनुव्यव-
सायगम्यत्वाच्च कृपानुग्रहयोर्भेदः शङ्क्यः । लोके कृपाभिन्नतया तत्प्रसिद्ध्यभावे धातुभेदप्रयो-
गादेस्तद्भेदाप्रयोजकत्वादिति । तस्मात्स्वीकारफलदित्सादिप्रयोजकं कृपापरपर्यायं धर्मान्त-
१. कथञ्चित्तेनेति नास्ति ।

पुष्टिप्रवाहमर्यादा । ३५
मेवेति निश्चयः । स च भक्त्युपदेशस्येव भक्तेरपि कारणम् । यत्रानुग्रहाभावस्तस्य भक्ते-
रदानात् । 'भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित्स्म न भक्तियोग'मिति-
वाक्यात् । इदं यथा तथा भक्तिहेतुनिर्णये प्रपञ्चितं प्रभुचरणैः । तथा च सति भक्त्युपदेशो
वक्त्रनुग्रहपूर्वकः । सुकरसाधनोपदेशत्वात् । पर्षदुक्तसुकरप्रायश्चित्तोपदेशवत् । व्यतिरेके
कष्टसाध्यदितिपयोव्रतोपदेशवत् । अयमनुग्रहविषयः । भक्तिमत्त्वात् । नारदवत् । व्यतिरेके
साल्वादिवदित्यनुमानमपि तत्र प्रमाणं ज्ञेयम् । यद्यपि 'यमेवैष वृणुते तेन लभ्य' इति
श्रुतिर्भगवत्प्राप्तेर्वरणैकसाधनत्वं वदन्ती 'स वरस्तया वृतः' 'कन्यां वृणीते' इत्यादिप्रयोग-
दर्शनात्स्वीकारात्मकत्वेन सिद्धस्य वरणस्यानुग्रहजन्यत्वात्तत्र प्रमाणं भवति, तथापि 'तस्यैष
आत्मा विवृणुते तनूँ स्वा'मित्युक्तस्य विवरणस्य स्वरूपप्रकाशनात्मकत्वात्तत्र यत्फलं
लाभात्मकं ग्रहणं तस्य 'भक्त्याहमेकया ग्राह्य' इत्यादिसमृत्य भक्तिसाध्यताबोधनात्पर्यव-
सानतो भक्तिद्वारैव जातस्य ग्रहणस्य प्रमितिरूपत्वं बोधयति । भक्तिश्च मार्गेणैव प्रमीयते ।
स चोपदेशादेवेति हृदि कृत्वाचार्यैरेवमुक्तम् । श्रुतेर्वादकवलितत्वेन पुनः प्रयासकर-
णापाताच्च ॥ १ ॥ २ ॥
एवं पुष्टिसत्तां साधयित्वा प्रवाहसत्त्वे प्रमाणमाहुः द्वौ भूतसर्गाविति ।
'द्वौ भूतसर्गौ'वित्युक्तेः प्रवाहोपि व्यवस्थितः ।
वेदस्य विद्यमानत्वान्मर्यादापि व्यवस्थिता ॥ ३ ॥
प्रवहणं प्रवाहः । सर्गपरम्पराया अविच्छेदः । सोऽप्युक्तवाक्यादैवासुरविभेदेन
व्यवस्थितः कृतविभागः । यदि स न प्रवेहेदाप्रलयम्, तदा विभागो मुधैव स्यात् । अतः
सोऽप्यस्तीत्यर्थः । मर्यादा सत्त्वे प्रमाणमाहुः वेदस्येत्यादि । नियमानतिक्रमो मर्यादा ।
सात्र कर्मज्ञानादेस्तत्तत्प्रकारनियमस्य बोध्या । सापि वेदस्य विधिमन्त्रनामधेयनिषेधार्थवा-
दात्मकस्यापौरुषेयनित्यशब्दस्य विद्यमानत्वात् व्यवस्थिता, 'स्वर्गकामो यजेते'त्यादि-
भिर्विध्यादिभिः स्वर्गार्थे ज्योतिष्टोमं कुर्यात्, मन्त्रेणैव देवतां स्मरेत्, अग्निनामैव स्वाहा-
कारे वदेत्, ब्राह्मणं न हन्यात्, शीघ्रगामिनीं देवतां ज्ञात्वैव वायव्यालम्भः कर्तव्यो,
नान्यथेत्यादिरूपेण नियमेन कृतविभागा। यदि सा न स्यात्, तद्विभाजको वेदो न स्यात् ।
अतो विभाजकस्य वेदस्य विद्यमानत्वात्साप्यस्तीत्यर्थः । तथाच यद्यपि प्रवाहोऽस्ति । द्वौ
भूतसर्गावित्युक्तेर्व्यवस्थितत्वात् । यद्व्यवस्थितं तदस्ति दायादिवदिति मर्यादास्ति ।
तद्व्यवस्थापकस्य वेदस्य विद्यमानत्वात् । यद्व्यवस्थापकस्य वेदस्य विद्यमानत्वं तस्य सत्त्वम् ।
यथा यज्ञादेरित्यनुमानाभ्यां तयोः सत्तापि सिध्यति, तथापि प्रवाहे प्रत्यक्षं मर्यादायां
वा व्यतिरेकः प्रमाणत्वेन वर्तत इत्यतस्तदुभयसत्तासाधनाय नास्माभिः प्रयासः कृत इति
भावः । अत्रैवं स्वरूपनिश्चायनेन यावन्तः पुष्टिप्रयुक्ता मार्गा भक्तिरूपास्ते पुष्टिमा-


१. विभागसार्थक्यात्साऽप्यस्तीत्यर्थः इति पाठः ।

३६ श्रीपीताम्बरकृतविवृतिसमेता ।
र्गेऽन्तर्भवन्ति, ये लौकिकाः सर्गपरम्परां न विच्छिन्दन्ति, ते प्रवाहेऽन्तर्भवन्ति,
ये वेदनियमं नातिवर्तन्ते ते मर्यादायामन्तर्भवन्तीत्येवं बुद्धिसौकर्यात्त्रयो मार्गा ज्ञेयाः
सन्देहनिरासेप्सुभिरिति बोधितम् । न च भगद्वाक्ये ‘योगास्त्रयो मया प्रोक्ता’
इति ज्ञानकर्मभक्तीनामेवोपायतया मार्गत्वबोधानादेतेषां कथं मार्गत्वमिति शङ्क्यम् ।
भक्तेर्विचारे तन्मूलभूतानुग्रह एव मार्गत्वस्य पर्यवसानेन, सर्गपरम्पराविचारे ‘जायस्व
म्रियस्वे’ति श्रुत्युक्तजन्माद्यनुच्छेदरूपफलहेतुतायाः प्रवाह एव पर्यवसानेन, ज्ञानकर्मफलस्य
चोक्तविधिनियमादेव भवनेन तद्धेतुतायास्तदनतिक्रम एव पर्यवसानेन, तात्पर्यतस्तेषां
मार्गत्वस्याप्रत्यूहत्वात् । एतेनैव ‘प्रवाहपुष्टिमर्यादाः कुत उत्प्रेक्षिताः किल । दृष्टा वा
कुत्रचिद्ग्रन्थे मूलमत्र निरूप्यता’ मिति भ्रान्तपर्यनुयोगोऽप्यपास्तो बोध्यः ॥ ३ ॥
अतः परं भेदसाधनार्थं यतन्ते । तत्र, नन्वस्तु पुष्ट्यादिसत्ता । तावता परस्पर-
विवेकस्तु न सेत्स्यति । तथाहि । ‘फलमत उपपत्ते’रिति न्यायेन फलमात्रं भगवतः
सकाशादेव । ब्रह्मवादे च चैतन्यभेदाभावान्नामभेदमात्रं नोपास्यभेदः । अतो लोकास्तत्त-
न्नाम्ना भजन्तोऽपि तत्तत्फलार्थं तमेव भजन्ते प्रावाहिका अपि । ततः फलं च लौकिक-
मलौकिकं प्राप्नुवन्तीति सर्वेषां भक्तत्वाविशेषाद्भक्तिमार्गस्य चानुग्रहप्रयुक्तस्य सर्वान् प्रति
तुल्यत्वान्न प्रवाहाद्विवेकः शक्यवचनः । मर्यादा तु वेदोक्तत्वाद्विविक्तैवेति द्वावेव मार्गा-
वभ्युपगन्तव्यावित्याशङ्कायामाहुः कश्चिदेव हीति ।
कश्चिदेव हि भक्तो हि ‘यो मद्भक्त’ इतीरणात् ।
न सर्वोतः प्रवाहाद्धि भिन्नो वेदाच्च भेदतः ॥ ४ ॥
‘यदा यस्ये’ति वचनान्नाहं वेदै’रितीरणात् ।
सर्वत्रोत्कर्षकथनात् पुष्टिस्तीति निश्चयः ॥ ५ ॥
गीतायां ‘यो मद्भक्तः स मे प्रिय’ इति भगवता यच्छब्दोपबन्धेन कस्यचिदेव
भक्तत्वं बोधितम् । अतो न सर्वोऽपि लोको भक्तः । एवं परिसंख्याते भक्ते तत्प्रयोजको
मार्गोऽपि प्रवाहाद्भिन्नः असङ्कीर्णः । तथाच भजनमात्रं न भक्तिः । किन्तु प्रियत्वप्रयोजकं
भजनम् । अत एव ‘अनपेक्षः शुचिर्दक्षः’ ‘मय्यर्पितमनोबुद्धि’रित्यादि विशिनष्टि । ‘प्रियो
हि ज्ञानिनोऽत्यर्थ’मित्यत्रापि ‘चतुर्विधा भजन्ते मा’मिति भक्तिमेवोपक्रम्य ज्ञानिनो भक्तस्या-
त्मत्वं वक्ति, न केवलज्ञानिनः । तेन तादृशभक्तेरेव मार्गत्वात्तद्रम्यायाः पुष्टेः प्रवाहेणासा-
ङ्कर्यात्सिद्धास्त्रयो मार्गा इत्यर्थः । नन्वस्त्वेवम्, तथापि मर्यादया साङ्कर्यं दुर्वारम् ।
तथाहि । भक्तिमार्गो नाम किं श्रवणादिसरणिरूपः, उत ‘माहात्म्यज्ञानपूर्वस्तु सुदृढः
सर्वतोऽधिकः । स्नेहो भक्तिरिति प्रोक्तस्तया मुक्तिर्न चान्यथे’ति पञ्चरात्रोक्तमाहात्म्यज्ञा-
नपूर्वकस्नेहसरणीरूपः । आद्यश्चेत्, ‘धारयति रसति भजती’त्यादिश्रुतिसिद्धः । द्वितीय-
१. तत्रैवेति पाठः ।

पुष्टिप्रवाहमर्यादा । [पृ. ३७]

श्चेत्, सुप्त्यादिवाक्यैर्माहात्म्यस्य 'आत्मनस्तु कामाय सर्वं प्रियं भवती'त्यादिभिर्निरुपाधि-
प्रीतिविषयत्वस्य च प्रतिपादनान्माहात्म्यज्ञानपूर्वकस्नेह एव श्रुतेस्तात्पर्यमिति तद्गोचरः ।
पुराणानां श्रुत्युपबृंहणत्वात्तदुक्तत्वेऽपि श्रुतिमूलकत्वेन विधिविषयत्वान्मर्यादातो नाति-
रिच्यते । यत्पुनर्देवान्तरभजनम्, तदपि 'एकं सद्विप्रा बहुधा वदन्ती'ति श्रुतेर्भगवद्भजन-
मेवेति द्वावेव मार्गावित्याशङ्कायामाहुः वेदाच्च भेदत इति । वक्ष्यमाणहेतुभिः वेदात्
वेदोक्तमर्यादामार्गाच्च । लोकादपि भेदं प्राप्य पुष्टिर्हस्तीत्यन्वयः । अनुग्रहः स्वविषयं पुष्णा-
तीति पुष्टिः । कर्तरि क्तिच् । सेतुर्विधृतिरितिवत् । वेदादिति वाच्यवाचकयोरभेदोपचारा-
न्निर्देशः । तथाच, 'यदा यस्यानुगृह्णाति भगवान्मात्मभावितः । स जहाति मतिं लोके
वेदे च परिनिष्ठिता'मित्यत्र लोकवेदौ पृथङ्निर्दिश्य भगवदनुगृहीतस्य तयोरास्थात्यागं
वक्ति । यद्यनुग्रहो लौकिकेषु वैदिकेषु वा साधनेषु प्रविशेत्, तदैवं सामान्येनारुचिं न
वदेत् । किञ्च । 'नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि
मां यथा । भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च
परन्तपे'त्यत्र वेदादिपदैरुक्तानां ब्रह्मचारिवैनैष्ठिकगृहस्थधर्माणां 'श्रेयान् द्रव्यमयाद्यज्ञाज्ज्ञान-
यज्ञः परन्तपे'ति वचनादिहेज्यापदसङ्गृहीतस्य यतिधर्मस्य ज्ञानस्यापि दर्शनसाधनत्वमुपल-
क्षणविधया निषिध्य स्वविषयकस्य ज्ञानस्य ज्ञानफलयोर्दर्शनप्रवेशयोश्चानन्यभक्तिसाधनकत्वं
वदति । तेनापि ज्ञायते, अनन्या भक्तिर्नोक्तधर्मेषु प्रविशति, केवलैव च फलं साधयतीत्य-
तोऽपि तत्कारणभूता पुष्टिस्तथा । किञ्च । 'नायमात्मे' ति श्रुतावपि प्रवचनादिनिषेधपूर्वकं
वरणैकलभ्यत्वं वृतं प्रत्येव स्वस्वरूपविवरणं चोक्तम् । तेन वरणस्यैवोत्कर्ष उक्तः । वरणं
चानुग्रहप्रयुक्तोऽङ्गीकार एव । तथा 'अथैतत्परमं गुह्यं शृण्वतो यदुनन्दन । सुगोप्यमपि
वक्ष्यामि' 'रामेण सार्धं' 'प्रीयतेऽमलया भक्त्या हरिरन्यद्विडम्बनम्' 'भक्तिं लब्धवतः
साधोः किमन्यदवशिष्यते' 'ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्' 'वशे
कुर्वन्ति मां भक्त्या सत्स्त्रियः सत्पतिं यथा' 'केवलेन हि भावेन' 'ता मन्मनस्का' इत्या-
दिषु भक्त्युत्कर्षकथनेनापि तत्कारणीभूतपुष्टेरेवोत्कर्षः सिद्धः । अतो वेदोक्तत्वेऽपि वेद-
तात्पर्यगोचरत्वेऽपि जीवकृतवैधसाधनेष्वप्रवेशात्तदसाध्यसाधनात्फलवैलक्षण्याच्च स्वरूपतः
कार्यतः फलतश्चोत्कर्षाच्च वेदोक्तसाधनेभ्योऽपि भिन्नैव तत्तदाकारिका पुष्टिस्तीत्यतो हेतोः
सिद्धं मार्गत्रयमित्यत्र न सन्देह इत्यर्थः ॥ ४ ॥ ५ ॥
ननु भवत्वेवं स्वरूपविवेकः, तथापि 'धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः ।
नोत्पादयेद्यदि रतिं श्रम एव हि केवलम्' । 'श्रेयः स्रुतिं भक्तिमुदस्य ते विभो क्लिश्यन्ति
ये केवलबोधलब्धये । तेषामसौ क्लेशल एव शिष्यते नान्यद्यथा स्थूलतुषावघातिनाम्'
'नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जन'मित्यादिभिः केवलस्यैव निन्दा-
स्मरणात् 'निबन्धायासुरो मते'त्यादौ प्रवाहैकदेशस्यैव तथात्वात्तादृशामेवारुच्यत्वादसा-
धनत्वबोधनेन 'यदा यस्ये'त्यादीनां चारितार्थ्याद्देवसर्गस्यानिन्द्यत्वा 'सर्वेऽधिकारिणो ह्यत्र

३८ श्रीपीताम्बरकृतविवृतिसमेता ।
विष्णुभक्तौ यथा नृपे'त्यादिभिश्च तस्य सर्वस्यापि भक्त्यनुकूलत्वेन 'दानव्रततपोहोमजप-
स्वाध्यायसंयमैः । श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते' 'ज्ञानी च भरतर्षभ'
'आत्मारामश्च मुनय' इत्यादिभिर्भक्तिसाधनतास्मरणाच्चाङ्गभावेन प्रवाहमर्यादयोर्भक्तिशरी-
रप्रवेशे एको मार्ग एवास्तु, न त्वत्यन्तविवेक इत्याशङ्कामनूद्य दूषयन्ति मार्गैकत्वेऽपीति ।
मार्गैकत्वेपि चेदन्त्यौ तनू भक्त्यागमौ मतौ ।
न तद्युक्तं सूत्रतो हि भिन्नो युक्त्या हि वैदिकः ॥ ६ ॥
अपिः पूर्वपक्षगर्हायाम् । उक्तरीत्या मार्गैकत्वे अन्त्यौ मर्यादाप्रवाहौ भक्त्यागमौ
भक्तैरागमोऽभिव्यक्तिर्याभ्यां तादृशौ तनू अङ्गभूतौ मतौ त्वयाङ्गीकृतौ । यद्वा । तनू न्यून-
फलसाधनत्वादल्पौ । हेतुगर्भं विशेषणम् । तनुत्वात् उक्तरीत्या भक्तिहेतू शास्त्रसम्मतौ
चेत्, तदङ्गत्वं हेतुत्वं वा न युक्तम् । हि यस्माद्धेतोः वैदिको मार्गः सूत्रतः
कर्मज्ञानविचारकेभ्यो मीमांसाद्वयसूत्रेभ्यो युक्त्या तत्तत्फलयोजनया हि निश्चयेन भिन्नः ।
सूत्रे हि जैमिनीये 'शेषः परार्थत्वादि'ति लक्षयित्वा 'कर्म फलार्थत्वादि'ति कर्मणः फलशेष-
त्वमुक्तम् । फलं च ज्योतिष्टोमादिवाक्ये स्फुटम् । विश्वजिदादिवाक्ये तु 'स स्वर्गः स्या-
त्सर्वान्प्रत्यविशेषादि'त्यनेन व्यवस्थापितमिति कर्माणि तावता चरितार्थानि शेषित्वेन भक्तिं
नापेक्षन्ते । एवं 'अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तमि'ति वैयासे
सूत्रे 'परं ब्रह्मैतद्यो धारयति रसति भजति ध्यायति प्रेमति शृणोति श्रावयत्युपदिशत्या-
चरति सोऽमृतो भवती'ति भगवद्धर्माणां मुक्तिसाधनत्वमाथर्वणोपनिषदि श्रुतम् ।
'तमेवं विद्वानमृत इह भवती'ति तैत्तिरीये श्वेताश्वतरे च ज्ञानस्य श्रुतम् । तत्र किं सर्वेषां
कारणता, उत ज्ञानस्यैवेति सन्देहे, 'नान्यः पन्था विद्यतेऽयनाये'त्यन्यनिषेधात् साधन-
वैजात्ये फलवैजात्यस्य दृष्टस्य मुक्तावयुक्तत्वात् 'भक्त्या मामभिजानाती'ति भक्तेर्ज्ञानोप-
क्षीणत्वाच्च ज्ञानादेव मोक्ष इति प्राप्ते, 'एतद्वै तदक्षरं गार्गि अस्थूलमनणु' 'अथ परा यया
तदक्षरमधिगम्यते' 'अदृश्यमग्राह्यमि'त्यादिश्रुत्युक्तानामक्षरधियामक्षरविषयकज्ञानानाम् ।
तुः पूर्वपक्षनिरासे । अवरोधो मुक्तिसाधनेषु सङ्ग्रहः । सः सामान्यतद्भावाभ्याम् । उक्त-
श्रुतौ यथा धर्माणां पुरुषोत्तमसम्बन्धित्वं श्रुतम्, तथा तैत्तिरीयखिले 'अम्भस्यपार' इत्युप-
क्रम्य, 'तदक्षरे परमे व्योमन्नि'ति भगवत्स्थानत्वेनाक्षरस्यापि श्रुतम् । अतो भगवद्धर्मा-
क्षरयोः सामान्यम् । तथा 'ब्रह्म वेद ब्रह्मैव भवती' ति श्रुतौ यस्तद्भावः ज्ञानिनो ब्रह्म-
भाव उक्तः, सोऽपि 'ब्रह्मभूतः प्रसन्नात्मे'त्यत्र परमभक्तिप्राप्तौ स्वरूपयोग्यतासम्पाद-
कत्वेन स्मृत इति ताभ्यां हेतुभ्याम्, न तु साक्षात्पुरुषोत्तमप्राप्तिसाधनत्वेन । नन्वेवं
स्मृतावुच्यते । श्रुतौ तु तत्र विश्राम्यते इति विरोधः । किञ्च । अक्षरमप्यविशिष्टमिति
तद्वित्सु केषाञ्चितत्सायुज्यम्, केषाञ्चिद्भक्तिलाभ इति निर्हेतुकं वैषम्यम् । तदुभयं कथं
निरसनीयमित्याशङ्कायां दृष्टान्तेनाह औपसदवदिति । यथा उपसदाख्यकर्मसम्बन्धिनि
तानूनप्त्रस्पर्शाख्ये कर्मणि 'अनाधृष्टमस्यनाधृष्यमि'ति मन्त्रेण तानूनप्त्राख्यं श्रौवाज्य-

स्रुचि चतुरवत्तमाज्यं षोडशर्त्विजः 'अनु मे दीक्षामि'ति मन्त्रेण यजमानञ्च स्पृशन्ति ।
तत्र कल्पे श्रुतौ च श्रूयते 'यमृत्विजं कामयेत यज्ञयशसमृच्छेदिति तं प्रथममवमृशेये'दिति ।
अत्र सर्वेषामृत्विजां तुल्यत्वेऽपि यथा यजमानेच्छया फलवैषम्यम्, एवमिहापि भगव-
दिच्छया । अत्र सम्मतिमाह तदुक्तमिति । गीतास्विति शेषः । 'यदक्षरं वेदविदो वदन्ती'-
त्यादिना, 'पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यये'त्यन्तेन तथाचोपबृंहणत्वान्न
विरोधो, नापि निर्हेतुकं वैषम्यमिति प्रतिपादितम् । अतो मर्यादामार्गीयं ज्ञानमपि स्वार-
स्येन मोक्षमेव शेषित्वेन गृह्णाति, न भक्तिम् । तथाँच मीमांसाद्वये कर्मज्ञानयोस्तत्तन्मुख्य-
फलस्य पृथग्रूपेण केवलाङ्गभूतप्रयाजादितुल्यत्वाभावात्तत्रतो वैदिकमार्गो भिन्नो,
'दानव्रततपोहोमे'त्यादिवाक्यसिद्धोऽनुग्रहयुतश्च भिन्नः । १ एवं दैवसर्गात्मा प्रवाहोऽपि
मोक्षशेष एव, 'दैवी सम्पद्विमोक्षाये' ति वाक्यात् । इतरस्तु बन्धशेष इति दूरापास्तं
भक्तिशेषत्वम् । यदि प्रवाहो भक्तिशेषः स्यात्, भगवानेवम्भावं तत्सम्पत्तेर्न वदेदिति
युक्त्या वैदिकः सर्गोऽपि भिन्नोऽनुग्रहयुतश्च भिन्न इत्यनुपदं साधनीयम् । अतः केव-
लानां त्रयाणां स्वरूपमत्यन्तंविविक्तमेवेति सिद्धं मार्गत्रयमित्यर्थः ॥ ६ ॥
एवं स्वरूपं विविच्य उक्तवाक्यैः संयोगपृथक्त्वेन भक्तिशेषत्वे मार्गैक्यं दुर्वारमि-
त्याशङ्कायां पूर्वोक्तविवेकोपष्टम्भाय युक्तिमप्याहुः जीवेत्यादि ।
जीवदेहकृतीनां च भिन्नत्वं नित्यता श्रुतेः ।
यथा तद्वत्पुष्टिमार्गे द्वयोरपि निषेधतः ॥ ७ ॥
प्रमाणभेदाद्भिन्नो हि पुष्टिमार्गो निरूपितः ।
'ध्रुवासो अस्य कीरयो जनास' इति श्रुतौ स्तुतिक्रियावतां जननशालिनां चेतनानां
नित्यत्वश्रावणाद्यथा पुष्टिमार्गे भिन्नत्वं इतरवैलक्षण्यम्, तद्वत् 'नायं सुखापो भगवान् देहिनां
गोपिकासुतः । ज्ञानिनां चात्मपोतानां यथा भक्तिमतामिहे' ति वाक्ये द्वयोर्देहिज्ञानिनोर्नि-
षेधतः सुखेन भगवत्प्राप्तिनिषेधादपि भिन्नत्वम् । यदि सर्वजीवदेहकृतीनां नित्यत्वं स्यात्,
कीरय इत्यादि विशिष्य श्रुतिस्तन्नित्यत्वं न वदेत् । ब्रह्मवादे नित्यत्वस्य विशिष्टाद्वैतद्वैतवा-
दयोरनित्यत्वस्य मायावादे मायिकत्वस्य सर्वेष्वविशिष्टत्वात् । एवं सत्यपि यदेवं वदति,
तेन तादृशतद्विशिष्टः पुष्टिमार्गो भिन्न एव । किञ्च । यदि पुष्टिमार्गसेतरविवेको न स्यात्,
उक्तवाक्ये द्वयोः सुखेन भगवत्प्राप्तिं न निषेधेत् । यस्मादेवम्, तस्मान्मार्गो भिन्न इति ।
पूर्वश्लोकस्थयुक्तिपदस्यैवायं प्रपञ्चः । एवञ्च ज्ञानादिमार्गो यदि पुष्टिमार्गः स्यात्, साक्षादेव
पुरुषोत्तमप्रापकः स्यात् । यदि तथा स्यात्, 'यतो वाचो निवर्तन्त' इति श्रुतिर्वागाद्य-
प्राप्यत्वं न वदेत् । 'नैतन्मनो विशती'त्यादि योगेश्वरा न वदेयुः । तथा उक्तवाक्ये
ज्ञानिनां देहिनां च तां न निषेधेत् । निषेधो यद्यन्वर्थः स्याद्, 'यथा भक्तिमता' मिति
न वदेत् । 'भक्त्या त्वनन्यये'ति 'यमेवैष वृणुत' इति स्मृतिश्रुती न वदेताम् । यस्मादेवं
१. तस्मात्सूत्रतो वैदिकमार्गो भिन्नोऽनुग्रहयुतश्च भिन्न इति पाठः । २. अत्यन्तविभक्तमेवेति पाठः ।

४० श्रीपीताम्बरकृतविवृतिसमेता ।
तस्मात्तथेत्यादयोऽप्यनुसन्धेयाः । एवं नानाप्रमाणैर्मार्गस्वरूपभेदे सिद्धे मर्यादामार्गीयाणां
'श्रोतव्य' इत्यादिषु श्रवणादीनां यद्दर्शनसाधनत्वमुच्यते, तत् 'नायमात्मे'त्यादिपूर्वोक्त-
श्रुतिस्मृत्यनुरोधाद्भक्तिरूपाणामेव । न तु केवलानाम् । परमात्मनस्तत्राप्रकाशादक्षरा-
त्मन्येव पर्यवसानात् । 'क्लेशोऽधिकतर' इति वाक्याद्दुःखसाहचर्यं च क्वचित् । ततो
मर्यादामार्गीयाण्येव तानि । 'ब्रह्मविदामोति पर'मित्यत्रापि तदनुरोधात्स्वकरणकमेव ज्ञान-
मुच्यते । यद्याविर्भवेत्तदा विद्यादिति । आविर्भावस्तूक्तप्रनाडीक्रमक्तस्यैव । 'तमेव विदित्वे'-
त्यत्रापि 'ते ध्यानयोगानुगता' इत्युपक्रमात् मध्ये च 'तस्याभिध्यानाद्योजनात्तत्त्वभावादि'-
ति कथनात्सर्वभावेनाश्रयणरूपामुपासनामपेक्ष्यैव ज्ञानमुच्यत इति तादृग्ज्ञानकारणीभूत-
भावस्य बीजभूतानुग्रहमन्तरेणाभावादुक्तैव प्रनाडी । एवं धर्मदानादयो भक्त्युत्पादकसंहि-
तोक्तरीतियोधकैकादशस्कन्धोदितप्रकारेणानुष्ठीयमाना भक्तिसाधनतां यान्ति । स प्रका-
रोऽप्यनुगृहीतानामेवार्थे भगवतोक्तो भिन्न एव । न तु मीमांसितः । तत्र तथानुसन्धा-
नस्य विचारादर्शनात् । अतो विचारितास्तत्तत्फलसाधका एवेति यथाविचारं मर्यादां
प्रवाहं वा नातिवर्तन्ते । तथैव योगादयो वामादीनि बाह्यानि च स्वस्वशास्त्रोक्तफलसाधनाय
प्रवृत्तानि । अतः सर्वाण्यसङ्कीर्णानि । तदेतत्सर्वं हृदिकृत्य व्यावर्तकधर्मेण पुष्टिमार्गभेदसाधन-
मुपसंहरन्ति प्रमाणभेदादित्यादि । अत्र यद्यपि पुष्टिमार्गस्वरूपभेदनिरूपणस्यैवो पसंहारः
कण्ठादुक्तः, तथापि मर्यादाप्रवाहयोरपि प्रसङ्गात्सिद्धो ज्ञेयः । अग्रे 'प्रवाहस्थान्प्रवक्ष्यामि
स्वरूपाङ्गक्रियायुता'निति स्वरूपादिभेदयुतजीवभेदनिरूपणस्यैव प्रतिज्ञानात् । अन्यथा
सोऽपि व्यावर्तकप्रमाणभेदैः स्वरूपबोधनाय प्रतिज्ञातः स्यात् ॥ ७ ॥
एवं प्रमाणबलेन मार्गस्वरूपभेदः साधितः । तेन मार्गत्रयप्रमितौ जनितायां प्रमेय-
बलेनापि सिद्ध एवेत्यतः साधनभेदेन मार्गत्रयभेदं साधयितुं जीवादिभेदयुताविच्छिन्न-
सर्गेण पुष्टिभेदसाधनाय सामान्यतः सर्गभेदनिरूपणं प्रतिजानते सर्गभेदं प्रवक्ष्यामीति ।
सर्गभेदं प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतम् ॥ ८ ॥
इच्छामात्रेण मनसा प्रवाहं सृष्टवान् हरिः ।
वचसा वेदमार्गं हि पुष्टिं कायेन निश्चयः ॥ ९ ॥
ननु 'यथाग्नेः क्षुद्रा विस्फुलिङ्गा' इति श्रुतौ जीवमात्रस्योत्पत्तिरेकप्रकारिकैवोक्तेति
तेषु वैलक्षण्यस्यासम्भवे तद्देहेषु भौतिकत्वादेस्तुल्यत्वात्क्रियास्वपि तदनुरूपत्वादेस्तुल्यत्वा-
त्साधनसाङ्कर्यस्य वज्रलेपायितत्वेन सर्गभेदनिरूपणं व्यर्थम् । तथा सति नात्यन्तं विवेक
इत्यत आहुः स्वरूपाङ्गक्रियायुतमिति । तथाचैतत्सन्देहनिरासाय तद्भेदोऽपि प्रमाणगो-
चरीकरिष्यत इति भावः । तदेवाहुः इच्छामात्रेणेत्यादि । अत्रेच्छामात्रेणेत्यनेन 'बहु स्यां
प्रजायेयेती' ति श्रौतमालोचनं निमित्तत्वेनोक्तम् । तेनैतदाकारिकेच्छारूपो भगवानैव
१. अतः परं प्रमेयबलेन साधनभेदेन च मार्गत्रयभेदमित्यादिः पाठः । २. असंDefault text: भवात्, एवं भौति-
कत्वादेस्तुल्यत्वाद् देहक्रियास्वपीतिपाठः ।

पुष्टिप्रवाहमर्यादा । ४१

निमित्तम् । तेन हेतुना मनआदिभिः स्वस्य रूपैः समवायिभिः प्रवाहादीन् सृष्टवान् ।
तत्र मनसा प्रवाहसृष्टिरेकादशस्कन्धे 'पुरुषः प्रकृतिश्चेति विकल्पः पुरुषर्षभ । एष वैका-
रिकः सर्गो गुणव्यतिकरात्मक' इत्यनेनोक्तेति ज्ञायते । विकल्पत्वकथनात् । श्रुतौ च 'अस-
तोऽधि मनोऽसृज्यत, मनः प्रजापतिमसृजत, प्रजापतिः प्रजा असृजत, तद्वा इदं मनस्येव
परमं प्रतिष्ठितमि'ति जाग्रति बहिः सृष्टिरुच्यते । तथा 'य एष सुप्तेषु जागर्ति कामं कामं
पुरुषो निर्मिमाणः । न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथः
सृजत' इति स्वप्ने उच्यते । यत्र मनसा बहिः सृजति, तत्र मायापि सहोपादीयते । अत
एव नृसिंहतापनीयश्रुतौ वटबीजदृष्टान्तमुक्त्वा 'तथेयमपि स्वाव्यतिरिक्तानि क्षेत्राणि
दर्शयित्वा जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवती'त्याद्युच्यते ।
अत एव 'यदिदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः । नश्वरं गृह्यमाणं च विद्धि मायाम-
नोमय'मिति भगवतापि उभयमयत्वमुच्यते । अत एवासुराः सृष्टिकर्तृत्वं ब्रह्मलक्षणमस्यां
दृष्ट्वा मायामेवोपासते । तदपि श्रावितं मण्डलब्राह्मणे 'मायेत्यसुरा' इति । इयमेव सृष्टि-
न्तरमन्यदित्यादिशब्दैर्व्यवह्रियते श्रुतौ—'यद्युष्माकमन्तरं बभूवे'ति । 'मायया ह्यन्यदि-
वे'ति। मायावादिनश्चैतामेवावलम्ब्य ब्रह्मवादिभिः प्रत्यवतिष्ठन्ते । इयं च सत्यसृष्टिमुपधाय
तदुत्तरं च जन्यते । अत एव नृसिंहतापनीये योनित्वमात्मन एवोच्यते । अनुमानं च,
विमतः प्रपञ्चः सत्यसृष्ट्युत्तरकालीनः । मायामनोमयत्वात् । स्वाप्निकैन्द्रजालिकवत् ।
व्यतिरेके, तत्तन्मतस्थसत्यप्रपञ्चवत् । एतेनैवार्थदेव सत्यसृष्टिसिद्धिरपि । इयमेव
निबन्धे 'महेन्द्रजालवत्सर्वं कदाचिन्माययासृजदि'त्यनेन सङ्गृहीता । तथाच व्यामोहिका
स्वतः सत्कार्याक्षमा सदुपधानेन तत्तत्क्षमा सृष्टिः प्रवाहसर्ग इति सिद्धम् । तथाच मनसा
व्यामोहबहुलं प्रवाहं सृष्टवानित्यर्थः । वचसा सृष्टिश्च 'एत इति वै प्रजापतिर्देवानसृजता-
सृग्रमिति मनुष्यान्रिन्दव इति पितॄन् तिरःपवित्रमिति ग्रहानाश्व इति शस्त्रं विश्वानीति
स्तोत्रमभिसौभगेत्यन्याः प्रजा इति, स मनसा वाचं मिथुनं समभवदिति, स भूरिति
व्याहरन् भूमिमसृजते'त्यादिश्रुतिषु, 'सर्वेषां स तु नामानि रूपाणि च पृथक्पृथक् ।
वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे । नाम रूपं च भूतानां कर्मणां च प्रवर्तनम् ।
वेदशब्देभ्य एवादौ निर्ममे स महेश्वर'इत्यादिस्मृतिषु च स्फुटा । न चात्र तृतीयाप्र-
योगात्करणत्वमेव, नोपादानत्वमिति वाच्यम् । 'मृदा घटं निर्मिमीत' इत्यादावपि तथा
प्रयोगात् । न चैवं ब्रह्मोपादानत्वश्रुतिव्याकोपः । 'वाचाऽविरूपनित्यया' 'वेदो नारायणः
साक्षादि'त्यादिभिर्भगवद्रूपताबोधनेन तन्निवृत्तेः । न च शब्दस्यार्थोत्पादकत्वमसङ्गतमिति
वाच्यम् । शब्दतन्मात्रादाकाशोत्पत्तेः स्मृतिशतसिद्धत्वात् । तथा वर्णात्मकादपि तदुत्पत्तौ
बाधकाभावात् । वस्तुतस्तु 'वेदा यथा मूर्तिधरास्त्रिपृष्ठ'इति वाक्याद्वेदाभिमानिदेवर्तै-

१. तै. ब्रा. २-२-९-५९.
६ पु. प्र. म.

वोपादीयते । अत एव 'ॐमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानम् । भूतं भवद्भ-
विष्यदिति सर्वमोङ्कार एव । यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एव । सर्वं ह्येतद्ब्रह्मे'ति
माण्डूक्येऽपि श्रूयते । नामसृष्टौ तु नाद एव प्रणवद्वारोपादीयते । अत एव द्वादशस्कन्धे
ॐङ्कारमुपक्रम्य 'खधाम्नो ब्रह्मणः साक्षाद्वाचकः परमात्मनः । स सर्वमन्त्रोपनिषद्वेदबीजं
सनातन'मित्युक्तम् । 'स एष जीव' इत्यादि च । तेन वेदपुराणाद्यात्मकसृष्टेः प्रणव एवो-
पादानम् । एवञ्च, 'मनः पूर्वो वागुत्तर' इत्यादिश्रुत्या वाचो मनःपूर्वकत्वश्रवणात्, 'वचसा
वेदमार्गं ही'त्यत्राथर्भादेव मनःपूर्वकत्वसिद्धिः । तथाच मनस्समाधिपूर्वकं वचसा वेदमार्गं
सृष्टवान् । हि युक्तश्चायमर्थः । तेन मार्गेण भगवान् प्राप्यत इति । यतो हरिः सर्वदुः-
खहर्त्ता । तथाच वेदमार्गं विना जीवानां दुःखनिवृत्तिर्न स्यादतस्तथा कृतवानित्यर्थः ।
एतदेव 'तेने ब्रह्म हृदे'त्यनेनोच्यते । अत एव 'जन्माद्यस्य यतः शास्त्रयोनित्वा'दिति
सूत्रकारोऽपि रूपसृष्टेर्नामसृष्टेर्भेदं क्रमेणाह । तथा 'रूपप्रपञ्चकरणादासक्तस्वांशवारणे ।
श्रुतिमात्मप्रसादाय चकारात्मानमेव स' इत्याचार्यैर्निबन्धे निरूपितम् । इदमत्राकूतम् ।
'स वै नैव रेमे' इति श्रौते सन्दर्भे रमणार्थमेव प्रपञ्चरूपेणाविर्भाव उच्यते । तथाच
रमणं वैचित्र्यं विना न सम्भवतीति सर्वेषामविद्यया स्वशक्त्या तत्तदासक्तिरूपं बन्धं
सम्पादितवान् । पश्चात्सर्वे एते दुःखिता एव भविष्यन्तीति करुणया वेदमार्गकरणं
दुःखनिवर्तकम् । अतो मनस्समाधिपूर्वकत्वमुच्यते । तथाच येषां वेदमार्गेण मुक्तिस्ते
दैवजीवाः । येषां बन्ध एव ते आसुराः । 'दैवी सम्प'दिति वाक्यात् । पुष्टिं तु कायेन ।
'कस्य रूपमभूद्द्वेधा तत्कायमभिचक्षत' इति कायपदनिर्वचनात् । 'स इममेवात्मानं
द्वेधापातयत्ततः पतिश्च पत्नी चाभवता' मिति पुरुषविधब्राह्मणे श्रावणात्स्वरूपस्यैवानेकधा
भवनम्, स्वरूपं चानन्द एवेत्यानन्देनेत्यर्थः । तत्रापि निश्चयः नितरां चय एकीभावो यस्य
तादृशोऽतिसावधानः । तेन मनोवचःपूर्वकत्वमर्थादेव सिद्धम् । गोवर्धनोद्धरणप्रसङ्गे
तथात्वं स्पष्टम् । तस्यानन्दांशादेर्न तिरोभावः । एतद्यथा तथा विद्वन्मण्डने निबन्धे
च स्पष्टम् । यद्यपि पूर्वत्र समवायित्वं भगवत एवेति तस्यापि कायेनैव सृष्टिरायाति,
तथापि तत्र समवायित्वे सच्चितोरेव प्राधान्यम्, अत्र तु केवलानन्दस्येति भेदः । अथवा ।
मर्यादायाः समवाय्यप्यक्षरमेव । 'मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि
सर्वभूतानि न चाहं तेष्ववस्थितः' 'अव्यक्तोऽक्षर इत्युक्तः' 'अव्यक्ताद्व्यक्तयः सर्वा'
इत्यादिवाक्यैर्मर्यादासृष्टावुपादानकारणत्वेनाक्षरं ब्रह्म निरूपयित्वा, 'परस्तस्मात्तु भावोऽन्य'
इत्यादिना तस्य क्षरात्परत्वमुक्त्वा, तस्य स्वधामत्वं चोक्त्वा, अग्रे 'पुरुषः स परः पार्थ
भक्त्या लभ्यस्त्वनन्यये'ति स्वस्य ततो भिन्नत्वं भणितवान् भगवान् । अत एव 'एकांशेन
स्थितो जग'दिति स्पष्टमेव सङ्गच्छते । अत्र 'एकांशेने'ति कथनाद्भगवदंशस्याक्षरस्य मर्या-
दासमवायित्वमवगम्यते । कालपक्षेऽपि तस्याभिन्नत्वादविरोधः । अत एव बृहद्वामनपुराणे
ब्रह्मवाक्यं 'अक्षरं ब्रह्म परमं वेदानां स्थानमुत्तम'मिति । अत एव 'द्विरूपं तद्धि सर्व

४. जलभेदः, संन्यासनिर्णयः, निरोधलक्षणम् एवं सेवाफलम्

पुष्टिप्रवाहमर्यादा । ४३

ष्या' दिति सिद्धान्तमुक्तावल्यामाचार्यैर्निरूपितम् । एवं प्रवाहेऽपि मायामनोरूपः समवायी ।
'द्वे अस्य बीजे' इत्यारभ्य 'मायामयं वेद स वेद वेद' मिति भगवता निरूपणात् । न च
मिथ्यात्वं सर्वस्य । मायामात्रस्यैव तथात्वात् । सन्ध्याधिकरणेन तथा निश्चयात् । अत्र मात्र-
पदाभावात् । कात्स्न्र्येनाभिव्यक्तस्वरूपत्वाच्च । मायायाः शक्तितया सतीत्वेन मयटो विकारा-
र्थत्वेऽप्यदोषाच्च । अतोऽहङ्कारस्य चिदचिद्रन्थिरूपत्ववद्व्यावहारिकप्रवाहस्य सदसद्ग्रन्थिरू-
पतया सत्यत्वस्यापि विद्यमानत्वान्न कोऽपि शङ्कालेशः । पुष्टौ तु पुरुषोत्तम एव सर्वांशेन
कार्यकारणरूप इत्यभिप्रेत्य कायेनेत्युक्तम् । अत एव श्रुतौ साक्षात्परम्पराभ्यां सृष्टिः
स्वस्यैव सर्वरूपेण भवनं चेति प्रकारत्रयेण सृष्टिकथनम् । अत एव तैत्तिरीये ब्रह्मविद्ब्र-
पाठके 'तस्माद्वा एतस्मादात्मन आकाशः सम्भूत' इति 'सोऽकामयत बहु स्यां प्रजायेयेति'
'स आत्मानग्ंस्वयमकुरुते'ति वारत्रयं सृष्टिरुक्ता । वैजात्याभावे तथा कथनमप्रयोजनकं
स्यात् । तस्मान्न कोऽपि शङ्कांशः । कारणवैजात्ये फलवैजात्यन्यायस्य तुल्यत्वात् । अवा-
न्तरभेदास्त्वेतेष्वेवान्तर्भवन्ति । एतच्च लीला सृष्टेर्भगवदात्मकत्वं 'नारायणसमो गुणै'रित्यत्र
'तमद्भुतमि'त्यत्रापि च निर्णीतं श्रीमदाचार्यचरणैः । अत एव 'अथ यदिदमस्मिन्ब्रह्मपुरे
दहरं पुण्डरीकं वेश्म' 'दहर उत्तरेभ्य' इत्यादिश्रुतिसूत्रैर्भगवल्लीलासृष्टेर्भगवद्रूपत्वमुच्यते ।
बृहद्वामनपुराणे 'आनन्दमात्रमिति यद्वदन्तीह पुराविदः । तद्रूपं दर्शयास्माकं यदि देयो
वरो हि न' इति श्रुतिभिः प्रार्थितो भगवान् 'स्वलोकं प्रकृतेः परम् । केवलानुभवानन्द-
मात्रमक्षरमध्यग' मित्युपक्रम्य 'किशोराकृतिरच्युत' इत्यन्तेन वृन्दावनगोवर्धनयमुनादिसर्वभ-
क्तसहितं स्वस्वरूपं दर्शितवानिति सर्वस्या एव लीला सृष्टेस्तद्रूपत्वमायातीत्येतत्सर्वं विद्वन्म-
ण्डने स्पष्टम् । ननु भवत्वेवं सर्गभेदः, तथापि सर्वेषां जीवानां भगवदंशत्वाविशेषात्प्र-
वाहिकानामेव अतिदुष्टत्वे को हेतुः । न च रमणेच्छैव हेतुः । तथा सति स्वरतीच्छायां
तेषां लयः स्यात् । न च जायत एवेति वाच्यम् । तथा सति अतिदुष्टता न स्यात् । यथा
कर्मिणाम् । न चेष्टापत्तिः । तथा सति 'मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गति'मिति
भगद्वाक्यविरोधः स्यात् । एवकारश्च सर्वमुक्तिदशायामपि प्राप्यभावद्योतको विरुध्येत ।
कर्मिणामपि सर्वमुक्तितोऽर्वाक् भगवत्प्राप्त्यभावादुच्चनीचकर्मणा चाधमादिगतेरपि जाय-
मानत्वादविशेषश्च स्यात् । मामित्यस्य पदस्याक्षरपरत्वेऽपि न निस्तारः । उक्तदोषताद-
वस्थ्यात् । वस्तुतस्तु लयाभावोऽप्यशक्यवचनः । 'यथाग्निप्रभवा' इति वाक्यात् । अथोक्त-
गीतावाक्यानुरोधा'द्यथाद्री'ति वाक्यस्थे गतिपदे सङ्कोचः कार्यः । तथा सति तेषामन्धत-
मःप्रवेश एव मुक्तिः । तथाच सर्वमुक्तिदशायामपि न भगवति तेषां लय इति स्वीक्रियत
इति चेत् । तर्हि 'यतो वा इमानी'त्यादि 'अव्यक्तादीनि भूतानी'त्यादिश्रुतिभगद्वाक्य-
योर्भगवत एवोत्पत्तेर्भगवत्येव च लयस्य कथनात्तेषां तत्र लयानङ्गीकारे तत उत्पत्तिरपि न
स्यात् । यदि चोभयसामञ्जस्यार्थमन्धतमसस्ततोऽतिरेकेण प्रलये स्थितिरङ्गीक्रियते, तदा
'भवानेकः शिष्यतेऽशेषसंज्ञ' इति श्रीभागवतवाक्यविरोधः । न च सर्वस्य ब्रह्मात्मकत्वा-

४४ श्रीपीताम्बरकृतविवृतिसमेता ।
दन्धतमसोऽपि तथात्वादेकपदस्य मुख्यवाचकत्वेनाप्युपपत्तेस्तत्स्थितौ को दोष इति
वाच्यम् । अन्धतमसो विकारत्वात्तस्य ब्रह्मत्वाङ्गीकारे 'वाचारम्भणं विकार'इत्यादि
'विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवा' नित्यादिश्रुतिभगवद्वाक्यविरोधात् । 'बृहदुपल-
ब्धमेतदवयन्त्यवशेषतये'त्यादि 'निर्दोषपूर्णगुणविग्रह' इत्यादिवाक्यानि च विरुध्येरन् ।
अतो भगवति लयानङ्गीकारे भगवतो न तदुपादानत्वमिति सिध्येत् । किञ्च । रमणेच्छाप्ये-
तदुत्पत्तौ न कारणीभवितुमर्हति । यतो रमणेच्छया स्वयं तावद्रूपो भूत्वा क्रीडतीत्युच्यते ।
एतेषां च केवलं दुःखित्वान्न रमणलेशोऽपि । अत एव 'केवलं नित्यदुःखा' इति श्रीवल्ल-
भाष्टकोक्तिरपि सङ्गच्छते । न च भगवद्विष्रा एव केचनैव जीवाः सन्ति येषामियं व्यव-
स्थेति वाच्यम् । अद्वैतश्रुतिविरोधात् । तस्मादुत्पत्तेरेवाभावान्मार्गभेदव्यवस्था कर्तुमेवाश-
क्येति चेत् । अत्रोच्यते । भगवान् हि सर्वरसभोक्ता राजवद्रमणार्थं स्वस्वरूपात्मकं प्रपञ्चं
कृतवान् । तत्र च वैरिणोऽप्यपेक्षिताः । अन्यथा वीररसभोगो न स्यात् । स्वांशाश्च
वैरिणो न भवन्त्येव । 'यो यदंशः स तं भजते' इति वाक्यात् । तथाच पूर्वोदाहृतश्रुतिस्मृ-
तिभिर्भगवता स्वसामर्थ्यरूपया मायया केचन जीवा मायांशा एव 'जीवेशावाभासेन
करोती'ति श्रुत्युक्ता व्यावहारिकस्तद्योग्यव्यावहारिकसकलसामग्रीयुक्ताः सृष्टाः सन्तीत्य-
वगम्यते । व्यवहारश्च लौकिको गुणानां सन्निपातः । 'अदृष्टान्यतम'मित्यस्य देवक्युद्दे-
शेनोक्तस्य भगवतो वाक्यस्य विवरणे 'यद्यपि मत्तोऽन्ये ये केचन सम्भवन्ति मायया सृष्टा'
इत्यत्र स्पष्टमिदम् । सप्तत्रिंशाध्यायेऽक्रूरस्तुतौ 'म्लेच्छप्राये'त्यस्य विवरणे च 'म्लेच्छा ये
सहजा दैत्यास्ते गुणवन्तोऽपि हन्तव्या' इत्यनेन । अत एव श्रीमदाचार्यैरपि सृष्टिभेदनि-
रूपणे निबन्धे 'महेन्द्रजालवत्सर्वं कदाचिन्माययासृजत् । तदा ज्ञानादयः सर्वे वार्ता-
मात्रं न वस्तुत' इति पद्याभासे 'स्वप्नादिसृष्टिसङ्ग्रहार्थमाहे'त्यादिपदमेतदभिप्रायकमे-
वोक्तम् । अत एव 'मायेत्यसुराः' 'यो यदंशः स तं भजत'इत्यादिश्रुत्यादयोऽपि सङ्ग-
च्छन्ते । अत एव श्रीगोकुलनाथचरणैरपि सिद्धान्तमुक्तावलीविवृतिच्छायाः 'सेवा हि सेव-
कधर्मस्तदुक्त्या जीवानाम् अशेषाणां सहजदासत्वं ज्ञापित'मिति फक्किकाया व्याख्याने 'आसु-
रव्यतिरिक्तानामशेषाणा'मित्युक्तम् । अत एव 'पुमान् विरज्येत विना पशुघ्ना'दिति श्लोक-
व्याख्याने 'अनिवर्त्यदोषेण चाप्रवेश' इत्युक्तिराचार्याणामस्माकमाश्रयः । 'सहजासुरत्वेनेत्यर्थ'
इति प्रभुचरणतद्विवृतिरपि । अत एव 'असन्नेव स भवति असद्ब्रह्मेति वेद चे'दिति 'न
सत्यं तेषु विद्यत' इत्यादिश्रुतिभगवद्वाक्ये तेषां व्यावहारिकं सत्त्वं वदतः । अत एव
देवकीसुतानयनाय गतवन्तं भगवन्तं स्तुवतो बलेर्वाक्यविवृतौ श्रीमदाचार्यैरुक्तम् , 'ते चेत्
द्वेषिणस्तदा तेषां नरकपात आवश्यक इत्या'सुरीं योनिमापन्ना' इति वाक्यानुसारेण कदाचि-
दप्यमुक्तौ कथं भगवान् सर्वात्मे'ति । तथाच इच्छामात्रेण निमित्तेन मायोपादानकं
प्रवाहं सृष्टवान् । न तु स्वयं तत्र प्रविष्टः । तथाच मायया निर्मितेषु नरकादिरूपविकारेषु
ते पतन्तीति न कोऽपि दोष इत्यर्थः । ये च मुच्यन्ते ते च नासुराः । किन्त्वासुरावेशिनः ।

तथाच ते भगवदंशा एवेति निष्कर्षः । यदा च स्वरतीच्छा तदा मायामप्युपसंहरतीति
तेऽपि न प्रतिभासन्ते । वस्तुतस्तेषामसत्त्वात् । तथाच ये प्रपञ्चं मायिकमेवाहुस्त आसुरा
एव । यतस्तेषां तथैव भासते । 'पुण्यो गन्ध' इत्यादिवाक्यविचारेण दोषप्रतीतिमात्रस्य
मायिकत्वमिति न कोऽपि दोषः । ननु सामर्थ्यस्य स्वरूपानतिरिक्तत्वात्प्रावाहिकाणां
विकारस्य च मायोपादानकत्वाद्विकारित्वं ब्रह्मणो दुर्वारमिति चेत् । न । न हि तेषां
सामर्थ्यरूपत्वम् । असत्त्वात् । किन्तु सामर्थ्यात्प्रतीयमानत्वम् । अन्यथा सत्यता स्यात् ।
दृश्यतेऽपि नटैः प्रदर्श्यमानस्य मिथ्यात्वं क्षणिकत्वात्तत्सामर्थ्यस्य च सत्यत्वमिति न
मार्गभेदानुपपत्तिः । यद्वा । वीररसभोगार्थमुत्पादिता अपि जीवाः सत्या एव । 'जीवेशावा-
भासेने'ति श्रुत्युक्तस्याप्याभासस्याभाससमानाकारत्वात् । तयोः समानाकारत्वस्यैव लोके
दर्शनात् । अत्राभासाभासयोरुभयोरप्यन्तरत्वेन द्वेषरूपधर्मप्रतिबिम्बेऽपि बाधकाभावात् ।
न च वीररस उपयुज्यमानस्य तद्धर्मस्य द्वेषस्य तेष्वभावः शङ्क्यः । द्वेषस्याप्यानन्दतिरो-
भावात्मकत्वेन तेषु तत्सत्त्वात् । अतस्तद्विशिष्टा एव ते । किञ्च । 'सत्त्वं रजस्तम इति
निर्गुणस्य गुणास्त्रयः । स्थितिसर्गनिरोधेषु गृहीता मायया विभो'रिति द्वितीयस्कन्धोक्ता
भगवदुत्पन्ना गुणाः कार्यार्थं मायया यथा गृह्यन्ते, तथा भगवत्कार्यार्थं तया ते जीवा अपि
स्वजन्यया अविद्याशक्त्या गृह्यन्ते । अत एव विद्वन्मण्डने 'यस्मिञ्जीवे यादृशीच्छा तदनुरूपा
एवाविद्यादिशक्तयः सत्त्वादिभेदेन तं व्याप्नुवन्तीति महदैश्वर्यं भगवत' इत्युक्तम् ।
तेन ते 'प्रवृत्तिं च निवृत्तिं चे'त्युक्तासुरधर्माणो भवन्ति । तद्धननादिना भगवानपि
वीररसादिकं भुङ्क्ते । तादृशभगवदिच्छावशादेव तेषां तथात्वमिति 'यो यदंशः स तं
भजत' इति वाक्यस्यापि न विरोधः । तैर्भजनकारणे भगवदिच्छाभावात् । तेन
तेषां देहादिकं सदसद्ग्रन्थिरूपं प्रागेव साधितम् । एवं सति ते स्वकर्मणान्धे तमसि
प्रविशन्ति । अन्धंतमश्च प्रलयेऽविद्यायां प्रविशति । अविद्या च मायायाम्, माया च
ब्रह्मणि । प्रलयस्य श्रुतौ पुराणेषु च प्रतिसञ्चरत्वेन सृष्टिविपरीतक्रमतया सिद्ध-
त्वात्तदापि ते भगवन्तं न प्राप्नुवन्तीति 'मामप्राप्यैवे'ति वाक्यमप्युपपद्यते । न च विका-
रस्य सत्यत्वे ब्रह्मणो विकारित्वापत्तिः । विकारस्य वाचारब्धत्वेन तदनन्यतया तदभावात् ।
तस्य दुष्टताया अपि लीलार्थमैच्छिकत्वात् । वस्तुविचारे दोषस्य प्रतीतिमात्रत्वात् । तदन-
न्यत्वाधिकरणे तथैव सिद्धत्वात् । द्वितीयस्कन्धसुबोधिन्यामपि 'यत्किञ्चिद्दूषणं त्वत्र दूष्यं
चापि हरिः स्वयम् । विरुद्धपक्षाः सर्वेऽपि सर्वमत्रैव शोभत' इति निर्णीतत्वाच्च । अत
एवं विचारेऽपि न मार्गभेदानुपपत्तिः । न च पक्षद्वयमध्येऽन्यतरवैयर्थ्यं शङ्क्यम् । कल्प-
भेदेनोभयथापि सामञ्जस्यात् । तथाच पूर्वोक्तरीतिकेनेच्छामात्रेण निमित्तेन मनसा सहजा-
सुरानसुरावेशिनो दैवांश्च सृष्टवान् । तथाच द्विधा प्रवाहोऽत्रोक्तः सहजासुरावेशिभेदेनेति
ज्ञेयम् । अन्यत्स्पष्टम् । ननु 'तदिच्छामात्रतस्तस्माद्ब्रह्मभूतांशचेतना' इत्यादिना दैवसृष्टिर्नि-

४६ श्रीपीताम्बरकृतविवृतिसमेता।
बन्धे इच्छामात्रत एव निरूपितेति कथं त्वया मनस्त उच्यते । उच्यते स्वभिप्रायज्ञानात् ।
तथाहि । निबन्धे यदिच्छामात्रेति पदं तदनुपहितस्य स्वतन्त्रस्य निर्गुणस्य कारणताबोधाय ।
अत्र तु यत्तत्पदं तदस्यां स्वसमवायिकारणताकत्वनिरासार्थम् । अत एव निबन्धे तत्र
'ब्रह्मभूतांशे'त्यादि जीवविशेषणमुक्तम् । अत्र तु नोक्तमित्येवं विनिगम्यते । न च तत्रत्य-
मेवात्रातिदेश्यम् । असुरसृष्टित्वात् । 'प्रवाहस्थान्प्रवक्ष्यामी'त्यादिना प्रावाहिकसृष्टेरासु-
रत्वनिर्धारणात् । तस्मादेवं सर्गभेदेन भूतभेदाद्देहादिवैलक्षण्यसिद्धेः साधनसाङ्कर्याभावान्न
सर्गभेदनिरूपणवैयर्थ्यमिति मार्गाणामत्यन्तविवेक उपपन्नः प्रामाणिक एवेति भावः ॥ ८ ॥
ननूपादानभेदेऽपि निमित्तसाजात्ये कार्यं फलं च तुल्यमेव लोके दृष्टम् । यथा
सौवर्णराजतताम्रघटास्ततो जलाहरणं च । वेदेऽपि यथा व्रीहियवप्रकृतिकपुरोडाशाभ्यां
समानो यागोऽदृष्टं च । तद्वदत्रापि निमित्तसाजात्यादैक्याद्वा फलमेकमेव चेद्ध्यर्थः सृष्टिभेद-
मार्गभेदसाधनप्रयास इत्याशङ्कायामुपोद्घातसङ्गत्या फलनिमित्तयोर्भेदमाहुः मूलेच्छात् इति ।
मूलेच्छात् फलं लोके वेदोक्तं वैदिकेऽपि च ।
कायेन तु फलं पुष्टौ भिन्नेच्छातोऽपि नैकधा ॥ १० ॥
'प्रजायेये'त्याकारिकया मूलेच्छया । सिसृक्षयेति यावत् । तया कृत्वा फलं लोके
भवति । न त्वलौकिकम् । 'अथैतयोः पथोर्न कतरेण च न तानीमानि क्षुद्राण्यसकृदा-
वर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेति । अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते
धूममभिसम्भवन्ति । धूमाद्रात्रिं रात्रेपरपक्षीयमाणपक्ष'मित्यादिश्रुतेः । 'एवं त्रयीधर्ममनुप्रपन्ना
गतागतं कामकामा लभन्ते' 'क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिष्वि'त्यादिस्मृतेश्च । न
च त्रयीधर्मानुप्रपन्नत्वे कथमासुरत्वमिति शङ्क्यम् । दैवावेशेन तत्सम्भवात् । आसुरलक्षणेषु
'यक्ष्ये दास्यामि मोदिष्ये' 'यजन्ते नाम यज्ञैस्ते दम्भेनाविधिपूर्वक'मित्युक्तत्वादिति । वैदिके
मर्यादामार्गे वेदोक्तं स्वर्गमोक्षादिरूपं फलं भवति । 'ये चेमेऽरण्ये श्रद्धा तप इत्युपासते
तेऽर्चिरभिसम्भवन्ती'ति 'यन्न दुःखेन सम्भिन्न'मिति 'ब्रह्म वेद ब्रह्मैव भवति' 'न स
पुनरावर्तत' इत्यादिश्रुतेः । 'त्रैविद्या मां'मित्यादिस्मृतेश्च । अत्रापि 'एष उ एव साधु कर्म
कारयति तं यमेभ्यो लोकेभ्य उन्निनीषती'त्यादिश्राविता उन्निनीषाधोनिनीषा च कारण-
त्वेनानुसन्धेया, अज्ञानरूपकार्यान्मुमोचयिषा चानुमातव्या । कायेन आनन्दमात्रकरपादमु-
खोदरादिरूपेण फलं नानाविधं तल्लीलानुभवरूपं पुष्टौ भवति । तुना लौकिकवैदिकप्रकार-
शङ्का निरस्ता । तथाच यथा यथा पुष्टिमार्गीया वाञ्छन्ति, तथा तथा ताननुरुध्य
ददाति । न त्वीश्वरत्वेन । यथान्यत्र । अत एव प्रभुचरणैर्नवरत्नस्य 'निजेच्छात्: करिष्य-
ती'त्यस्य व्याख्याने 'निजानामिच्छात् स्वेच्छात्तश्चे'त्युभयथा व्याख्यातम् । 'गोपीभिः
स्तोभितोऽनृत्यत्' 'यां गोपीमनय'दित्यादौ स्पष्टं च तथा । अत्रापि 'गोपायै स्वात्मयोगेन'
'सङ्कल्पसिद्धये तेषां कृपयैतदचिन्तयत्' 'वीक्ष्य रन्तुं मनश्चक्रे' इत्यादिभिरनुमापितोक्ता
चेच्छा कारणत्वेन बोध्या । एवञ्च यत्र धूममार्गीयसङ्कीर्णमन्यद्वा सङ्कीर्णं फलं तत्र तद्भे-

तुभूता सङ्कीर्णेच्छानुमन्तव्या । अत एवं भिन्नेच्छात् अपिशब्दात्फलभेदतश्च नैकधा
सर्गा मार्गाश्च एकविधा नेत्यर्थः । नैकतेति पाठे सर्गाणां मार्गाणां चैकता नेत्यर्थः । एवमु-
त्पत्तिमारभ्यान्तं मार्गप्रवाहभेदात्प्रमेयबलेन मार्गत्रयभेदः साधितः । तेन प्रमीयमाणा-
वस्थासम्बन्धिनः सन्देहा निवारिताः ॥ ९ ॥
अतः परमनुष्ठीयमानावस्थासम्बन्धिनः सन्देहान्परिहर्तुं मार्गसाधनीभूतजीवदेह-
क्रियाभिर्भेदः पूर्वप्रतिज्ञातो वक्तव्यः । तेषु जीवानां मुख्यत्वात् प्रथमं तद्भेदं वदिष्यन्त
इच्छाभेदेऽपि जीवेषु वैलक्षण्याभावात्कथं फलभेद इत्याशङ्कामपि परिहरिष्यन्तश्चिद्रूपत्वा-
विशेषेपि तत्तदसाधारणधर्मभेदाज्जीवा भिद्यन्ते, तेन फलभेद इति हृदिकृत्य अत्यन्तवि-
विक्तो धर्मः प्रावाहिकाणामेवेति प्रथमं तानाहुः तानहमित्यादि ।
'तानहं द्विषतो' वाक्याद्भिन्ना जीवाः प्रवाहिनः ।
अत एवेतरौ भिन्नौ सान्तौ मोक्षप्रवेशतः ॥ ११ ॥
तथाच येषां भगवद्वेषोऽसाधारणधर्मस्तेन सार्वदिकोऽतिघोरः संसारस्ततोऽन्धत-
मःप्रवेशः पर्यवसाने ते प्रवाहिनः । भगवद्वेषश्च त्रिविधः । मूलरूपावताररूपद्वेषो विभू-
त्यादिद्वेषो जगद्रूपद्वेषश्च । तत्र मूलरूपावताररूपान्यतरद्विषो भगवन्तं पश्यन्तः कालं
प्राप्य मुच्यन्त इति 'मन्येऽसुरान् भागवता'नित्यत्र व्यवस्थापितम् । 'कामं क्रोध'मिति
वाक्याच्च । 'तदेव रूपं दुरवापमाप' 'लेभे गतिं धात्र्युचिता'मिति कंसपूतनयोर्मुक्त्यु-
क्तेश्च । विभूतिद्विषस्तु द्वेषत्यागे क्रमेण शुध्यन्ति । 'अत्यागे धर्महीनाः पतन्ति' 'सम्मु-
ह्यन्तु हरद्विष' इत्यस्य निबन्धे शिवद्विषां तथा व्यवस्थापनात्समानन्यायेनान्यत्रापि युक्तिसि-
द्धत्वात् । एते उभयेऽप्यासुरावेशिन इत्यग्रे सेत्स्यति । जगद्द्विषस्तु जायमाना अन्ततोऽ-
न्धन्तमः प्रविशन्ति । इदमपि सुबोधिन्यां स्थापितम् । 'ये चान्धन्तमः प्रविशन्ति, ते
केवला एव प्रविशन्ति, न तु प्राणादिसहिता' इत्यपि धृतराष्ट्रं प्रत्यक्रूरवाक्ये 'अकृतार्थं प्रहि-
ण्वन्ती'त्यस्य सुबोधिन्यां निर्णीतम् । आर्तभागब्राह्मणे मुक्तेरनुपक्रान्तत्वेन 'अत्रैव समवनी-
यन्ते' 'स उ क्ष्वयत्याध्मायत्याध्मातो मृतः शेत' इति श्रुतेस्तादृशपरत्वस्य महता विचारेण
व्यवस्थापनात् । इदमत्राग्रिमग्रन्थस्य त्रुटितत्वाद्यथाबुद्धि प्रबोधनायोक्तम् ।
प्रकृतमनुसरामः ।
अत एव द्वेषभेदादेव । इतरौ मर्यादापुष्टीस्थौ जीवौ । जात्यभिप्रायेण द्विवचनम् ।
तेभ्यो विविक्तौ । अत्रापि पूर्ववत्फलभेदमाहुः सान्तौ मोक्षप्रवेशतः । मोक्षोऽक्ष-
रप्राप्तिः । प्रवेशः पुरुषोत्तमस्वरूपे । 'विशते तदनन्तर'मिति वाक्यात् । ताभ्यां सान्तौ
पर्यवसाने निवृत्तजीवभावौ । प्रावाहिकास्तु ताभ्यां न तथेति त्रयोऽपि जीवा भिन्ना
इत्यर्थः । एवं चात्र मोक्षप्रवेशत इति कथनान्मर्यादानामेव वेदोक्तमुक्तेरुक्तत्वाद्भगवति
साधारणभावेन प्रमाणेऽभिनिवेशेन यथाविधि वेदोक्तकर्मज्ञानादिप्रवृत्तिपरत्वमेव तेषां