षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 303, कुल 408 में से
संदर्भ में पढ़ेंतथाच ते भगवदंशा एवेति निष्कर्षः । यदा च स्वरतीच्छा तदा मायामप्युपसंहरतीति
तेऽपि न प्रतिभासन्ते । वस्तुतस्तेषामसत्त्वात् । तथाच ये प्रपञ्चं मायिकमेवाहुस्त आसुरा
एव । यतस्तेषां तथैव भासते । 'पुण्यो गन्ध' इत्यादिवाक्यविचारेण दोषप्रतीतिमात्रस्य
मायिकत्वमिति न कोऽपि दोषः । ननु सामर्थ्यस्य स्वरूपानतिरिक्तत्वात्प्रावाहिकाणां
विकारस्य च मायोपादानकत्वाद्विकारित्वं ब्रह्मणो दुर्वारमिति चेत् । न । न हि तेषां
सामर्थ्यरूपत्वम् । असत्त्वात् । किन्तु सामर्थ्यात्प्रतीयमानत्वम् । अन्यथा सत्यता स्यात् ।
दृश्यतेऽपि नटैः प्रदर्श्यमानस्य मिथ्यात्वं क्षणिकत्वात्तत्सामर्थ्यस्य च सत्यत्वमिति न
मार्गभेदानुपपत्तिः । यद्वा । वीररसभोगार्थमुत्पादिता अपि जीवाः सत्या एव । 'जीवेशावा-
भासेने'ति श्रुत्युक्तस्याप्याभासस्याभाससमानाकारत्वात् । तयोः समानाकारत्वस्यैव लोके
दर्शनात् । अत्राभासाभासयोरुभयोरप्यन्तरत्वेन द्वेषरूपधर्मप्रतिबिम्बेऽपि बाधकाभावात् ।
न च वीररस उपयुज्यमानस्य तद्धर्मस्य द्वेषस्य तेष्वभावः शङ्क्यः । द्वेषस्याप्यानन्दतिरो-
भावात्मकत्वेन तेषु तत्सत्त्वात् । अतस्तद्विशिष्टा एव ते । किञ्च । 'सत्त्वं रजस्तम इति
निर्गुणस्य गुणास्त्रयः । स्थितिसर्गनिरोधेषु गृहीता मायया विभो'रिति द्वितीयस्कन्धोक्ता
भगवदुत्पन्ना गुणाः कार्यार्थं मायया यथा गृह्यन्ते, तथा भगवत्कार्यार्थं तया ते जीवा अपि
स्वजन्यया अविद्याशक्त्या गृह्यन्ते । अत एव विद्वन्मण्डने 'यस्मिञ्जीवे यादृशीच्छा तदनुरूपा
एवाविद्यादिशक्तयः सत्त्वादिभेदेन तं व्याप्नुवन्तीति महदैश्वर्यं भगवत' इत्युक्तम् ।
तेन ते 'प्रवृत्तिं च निवृत्तिं चे'त्युक्तासुरधर्माणो भवन्ति । तद्धननादिना भगवानपि
वीररसादिकं भुङ्क्ते । तादृशभगवदिच्छावशादेव तेषां तथात्वमिति 'यो यदंशः स तं
भजत' इति वाक्यस्यापि न विरोधः । तैर्भजनकारणे भगवदिच्छाभावात् । तेन
तेषां देहादिकं सदसद्ग्रन्थिरूपं प्रागेव साधितम् । एवं सति ते स्वकर्मणान्धे तमसि
प्रविशन्ति । अन्धंतमश्च प्रलयेऽविद्यायां प्रविशति । अविद्या च मायायाम्, माया च
ब्रह्मणि । प्रलयस्य श्रुतौ पुराणेषु च प्रतिसञ्चरत्वेन सृष्टिविपरीतक्रमतया सिद्ध-
त्वात्तदापि ते भगवन्तं न प्राप्नुवन्तीति 'मामप्राप्यैवे'ति वाक्यमप्युपपद्यते । न च विका-
रस्य सत्यत्वे ब्रह्मणो विकारित्वापत्तिः । विकारस्य वाचारब्धत्वेन तदनन्यतया तदभावात् ।
तस्य दुष्टताया अपि लीलार्थमैच्छिकत्वात् । वस्तुविचारे दोषस्य प्रतीतिमात्रत्वात् । तदन-
न्यत्वाधिकरणे तथैव सिद्धत्वात् । द्वितीयस्कन्धसुबोधिन्यामपि 'यत्किञ्चिद्दूषणं त्वत्र दूष्यं
चापि हरिः स्वयम् । विरुद्धपक्षाः सर्वेऽपि सर्वमत्रैव शोभत' इति निर्णीतत्वाच्च । अत
एवं विचारेऽपि न मार्गभेदानुपपत्तिः । न च पक्षद्वयमध्येऽन्यतरवैयर्थ्यं शङ्क्यम् । कल्प-
भेदेनोभयथापि सामञ्जस्यात् । तथाच पूर्वोक्तरीतिकेनेच्छामात्रेण निमित्तेन मनसा सहजा-
सुरानसुरावेशिनो दैवांश्च सृष्टवान् । तथाच द्विधा प्रवाहोऽत्रोक्तः सहजासुरावेशिभेदेनेति
ज्ञेयम् । अन्यत्स्पष्टम् । ननु 'तदिच्छामात्रतस्तस्माद्ब्रह्मभूतांशचेतना' इत्यादिना दैवसृष्टिर्नि-