षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 305, कुल 408 में से
संदर्भ में पढ़ेंतुभूता सङ्कीर्णेच्छानुमन्तव्या । अत एवं भिन्नेच्छात् अपिशब्दात्फलभेदतश्च नैकधा
सर्गा मार्गाश्च एकविधा नेत्यर्थः । नैकतेति पाठे सर्गाणां मार्गाणां चैकता नेत्यर्थः । एवमु-
त्पत्तिमारभ्यान्तं मार्गप्रवाहभेदात्प्रमेयबलेन मार्गत्रयभेदः साधितः । तेन प्रमीयमाणा-
वस्थासम्बन्धिनः सन्देहा निवारिताः ॥ ९ ॥
अतः परमनुष्ठीयमानावस्थासम्बन्धिनः सन्देहान्परिहर्तुं मार्गसाधनीभूतजीवदेह-
क्रियाभिर्भेदः पूर्वप्रतिज्ञातो वक्तव्यः । तेषु जीवानां मुख्यत्वात् प्रथमं तद्भेदं वदिष्यन्त
इच्छाभेदेऽपि जीवेषु वैलक्षण्याभावात्कथं फलभेद इत्याशङ्कामपि परिहरिष्यन्तश्चिद्रूपत्वा-
विशेषेपि तत्तदसाधारणधर्मभेदाज्जीवा भिद्यन्ते, तेन फलभेद इति हृदिकृत्य अत्यन्तवि-
विक्तो धर्मः प्रावाहिकाणामेवेति प्रथमं तानाहुः तानहमित्यादि ।
'तानहं द्विषतो' वाक्याद्भिन्ना जीवाः प्रवाहिनः ।
अत एवेतरौ भिन्नौ सान्तौ मोक्षप्रवेशतः ॥ ११ ॥
तथाच येषां भगवद्वेषोऽसाधारणधर्मस्तेन सार्वदिकोऽतिघोरः संसारस्ततोऽन्धत-
मःप्रवेशः पर्यवसाने ते प्रवाहिनः । भगवद्वेषश्च त्रिविधः । मूलरूपावताररूपद्वेषो विभू-
त्यादिद्वेषो जगद्रूपद्वेषश्च । तत्र मूलरूपावताररूपान्यतरद्विषो भगवन्तं पश्यन्तः कालं
प्राप्य मुच्यन्त इति 'मन्येऽसुरान् भागवता'नित्यत्र व्यवस्थापितम् । 'कामं क्रोध'मिति
वाक्याच्च । 'तदेव रूपं दुरवापमाप' 'लेभे गतिं धात्र्युचिता'मिति कंसपूतनयोर्मुक्त्यु-
क्तेश्च । विभूतिद्विषस्तु द्वेषत्यागे क्रमेण शुध्यन्ति । 'अत्यागे धर्महीनाः पतन्ति' 'सम्मु-
ह्यन्तु हरद्विष' इत्यस्य निबन्धे शिवद्विषां तथा व्यवस्थापनात्समानन्यायेनान्यत्रापि युक्तिसि-
द्धत्वात् । एते उभयेऽप्यासुरावेशिन इत्यग्रे सेत्स्यति । जगद्द्विषस्तु जायमाना अन्ततोऽ-
न्धन्तमः प्रविशन्ति । इदमपि सुबोधिन्यां स्थापितम् । 'ये चान्धन्तमः प्रविशन्ति, ते
केवला एव प्रविशन्ति, न तु प्राणादिसहिता' इत्यपि धृतराष्ट्रं प्रत्यक्रूरवाक्ये 'अकृतार्थं प्रहि-
ण्वन्ती'त्यस्य सुबोधिन्यां निर्णीतम् । आर्तभागब्राह्मणे मुक्तेरनुपक्रान्तत्वेन 'अत्रैव समवनी-
यन्ते' 'स उ क्ष्वयत्याध्मायत्याध्मातो मृतः शेत' इति श्रुतेस्तादृशपरत्वस्य महता विचारेण
व्यवस्थापनात् । इदमत्राग्रिमग्रन्थस्य त्रुटितत्वाद्यथाबुद्धि प्रबोधनायोक्तम् ।
प्रकृतमनुसरामः ।
अत एव द्वेषभेदादेव । इतरौ मर्यादापुष्टीस्थौ जीवौ । जात्यभिप्रायेण द्विवचनम् ।
तेभ्यो विविक्तौ । अत्रापि पूर्ववत्फलभेदमाहुः सान्तौ मोक्षप्रवेशतः । मोक्षोऽक्ष-
रप्राप्तिः । प्रवेशः पुरुषोत्तमस्वरूपे । 'विशते तदनन्तर'मिति वाक्यात् । ताभ्यां सान्तौ
पर्यवसाने निवृत्तजीवभावौ । प्रावाहिकास्तु ताभ्यां न तथेति त्रयोऽपि जीवा भिन्ना
इत्यर्थः । एवं चात्र मोक्षप्रवेशत इति कथनान्मर्यादानामेव वेदोक्तमुक्तेरुक्तत्वाद्भगवति
साधारणभावेन प्रमाणेऽभिनिवेशेन यथाविधि वेदोक्तकर्मज्ञानादिप्रवृत्तिपरत्वमेव तेषां