सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

४ सिद्धान्तमुक्तावली ।
आधिदैविकं रूपमाहुः तत्रैवेति ।
तत्रैव देवतामूर्तिर्भक्त्या या दृश्यते क्वचित् ।
गङ्गायां च विशेषेण प्रवाहाभेदबुद्धये ॥ ७ ॥
प्रत्यक्षा सा न सर्वेषां प्राकाम्यं स्यात्तया जले ।
विहिताच्च फलात्तद्धि प्रतीत्यापि विशिष्यते ॥ ८ ॥
यथा जलं तथा सर्वं यथा शक्ता तथा बृहत् ।
यथा देवी तथा कृष्णस्तत्राप्येतदिहोच्यते ॥ ९ ॥
जगत्तु त्रिविधं प्रोक्तं ब्रह्मविष्णुशिवास्ततः ।
देवतारूपवत्प्रोक्ता ब्रह्मणीत्थं हरिर्मतः ॥ १० ॥
कामचारस्तु लोकेऽस्मिन् ब्रह्मादिभ्यो न चान्यथा ।
परमानन्दरूपे तु कृष्णे स्वात्मनि निश्चयः ॥ ११ ॥
अतस्तु ब्रह्मवादेन कृष्णे बुद्धिर्विधीयताम् ।
उक्तद्विरूपायां गङ्गायामेव देवतारूपा सा तद्भिन्नास्तीत्यर्थः । तत्र मानमाहुः
मूर्तिरिति । भक्त्यैव, न तु मर्यादामार्गविधिनोपासनयेत्यर्थः । तदपि क्वचिदेव, भक्त्युद्रे-
कदशायामेव । अथवा । यत्र क्वचिद्गुहादिष्वपीत्यर्थः । भक्तविशेषे विशेषमाहुः गङ्गाया-
मिति । देवतारूपायां गङ्गायां भक्त्युद्रेकेण दृश्यमानप्रवाहादभिन्नत्वेन यस्य बुद्धिस्तस्मै
गङ्गायां प्रवाहमध्य एव ( देवतारूपा गङ्गा ) प्रत्यक्षा भवतीत्यर्थः । एतेन प्रपञ्चमध्य एव
भगवदाकारभगवद्भक्तयोर्दर्शने भगवति स्नेहातिशयेन तत्र भगवदभेदबुद्धये तत्र भगव-
त्प्राकट्यं भवतीति भावः सूच्यते । अग्रिमव्यवस्थामाहुः प्राकाम्यमिति । स्वाभीष्टस्वसर्व-
स्वरूपायाः स्थानभूतत्वेन ज्ञानात्तज्जले सर्वत्रानिषिद्धयथेष्टव्यवहारः स्यादित्यर्थः । एवमेवो-
क्तप्रकारकभगवद्दर्शने सर्वत्र तद्भावः स्फुरतीति भावः । विहितेति । भक्त्या गङ्गादर्श-
नानन्तरं प्रवाहरूपाया अपि दर्शनं विहितात्स्वर्गापवर्गरूपात्फलाद्विशिष्यते । तद्धेत्वित्यर्थः ।
यद्वा । येषां न प्रत्यक्षा, तेषामपि तया देवतारूपया सा तत्रास्तीति तत्सम्बन्धानुभा-
श्रीमद्गोकुलनाथकृतविवृतिटिप्पणी ।
आध्यात्मिक्यास्तीर्थरूपत्वे प्रमाणमाहुः योद्धृतजलेति । अस्यायमाशयः । यथा प्रवाहोद्धृ-
तजले गङ्गाजलत्वाविशेषज्ञानेपि तत्कृतस्नानादेर्न तदुक्तफलजनकत्वम्, एवमक्षराभिन्नत्वेन
ज्ञातस्यापि प्रपञ्चस्य ध्यानादिना न मोक्षादिसिद्धिरित्यर्थः । तत्र हेतुः पुरुषोत्तमेच्छयैवे-
त्याहुः मर्यादामार्गसम्बन्धीति । भक्त्यैवेति । यथा गङ्गाधिदैविकरूपं भक्त्यैकदृश्यमेव,
तथा पुरुषोत्तमस्वरूपमपीति भावः । भक्तविशेष इति । मर्यादामार्गीयभक्तविशेष इत्यर्थः ।
तस्यैव भाव उक्तः देवतारूपायां गङ्गायामिति । भगवदभेदबुद्ध्यै भक्तायेति शेषः ।
यथा जलमिति । जलं दृश्यमानप्रवाहरूपम्, शक्ता पापादिनिवारणे शक्तिरस्यास्तीति
शक्ता तीर्थरूपेत्यर्थः । बृहदक्षरम् । देवी आधिदैविकीत्यर्थः । कृष्णः पुरुषोत्तम इत्यर्थः ।
तत्रापि जगद्रूपे एतदग्रे वक्ष्यमाणमित्यर्थः । तदेवाहुर्र्जगत्त्विति । तत इत्येतस्यैवार्थ उक्तो
१ तथा । देवतारूपा सेति पाठः । २. कामनेति पाठः ।

श्रीमद्विठ्ठलेश्वरविरचितविवृतिसमेता । ५
वेनैव तज्जले प्राकाम्यं प्रकृष्टकामविषयत्वं श्रद्धाविशेषपूर्वकस्नानादिव्यवहारो भवतीत्यर्थः ।
किञ्च । पुराणादिषु तज्जलदर्शनादिभिः फलं यदुक्तं तदनुभवेन महतामन्तःकरणप्रतीत्यापि
तज्जलमन्येभ्यो जलेभ्यो विशिष्यत इत्यर्थः । एवं येषां हृदि भगवत्सान्निध्यं ते भक्ता
अन्येभ्यो विशिष्यन्ते । अत एव 'मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चन' मिति भगवतोक्तम् ।
एवं दृष्टान्तदार्ष्टान्तिकयोः साधर्म्यं निरूप्य उक्तमर्थं स्पष्टयन्ति यथा जलमित्यादिना ।
तत्रापीति । साधर्म्येपि । एतदिति । किञ्चित्तारतम्यम् । इह प्रपञ्चरूपे, दृष्टान्ते त्रि-
विधत्वाभावात् अत उच्यते । जगत्त्विति । त्रिविधं त्रिगुणात्मकं त्रिस्वभावत्वेन प्रकटं,
तेन तत्तद्गुणनियामकत्वेन ब्रह्मादयो भगवतैव कृता इत्यर्थः । ब्रह्मैकरूपमिति तन्निष्ठानां
नियामको हरिरेव । ये तु भगवद्भक्तास्तेषां स्वात्मनि स्वात्मविषये ऐहिके पारलौकिके
चार्थे श्रीकृष्ण एव कामचार इत्यर्थः । अथवा । भक्तानां स्नेहातिशयेन स्वात्मत्वेनैव
प्रभुः स्फुरतीति सर्वांशेन तत्प्रार्थने शङ्का न भवतीत्यर्थः ।
अथ जीवस्वरूपं तन्मुक्तिप्रकारं चाहुः आत्मनीति ।
आत्मनि ब्रह्मरूपे तु छिद्रा व्योम्नीव चेतनाः ॥ १२ ॥
उपाधिनाशे विज्ञाने ब्रह्मात्मत्वावबोधने ।
गङ्गातीरस्थितो यद्वद्देवतां तत्र पश्यति ॥ १३ ॥
तथा कृष्णं परं ब्रह्म स्वस्मिन् ज्ञानी प्रपश्यति ।
संसारी यस्तु भजते स दूरस्थो यथा तथा ॥ १४ ॥
अपेक्षितजलादीनामभावात्तत्र दुःखभाक् ।
तस्माच्छ्रीकृष्णमार्गस्थो विमुक्तः सर्वलोकतः ॥ १५ ॥
आत्मानन्दसमुद्रस्थं कृष्णमेव विचिन्तयेत् ।
लोकार्थी चेद्भजेत्कृष्णं क्लिष्टो भवति सर्वथा ॥ १६ ॥
क्लिष्टोऽपि चेद्भजेत्कृष्णं लोको नश्यति सर्वथा ।
आत्मविषय उच्यत इति शेषः । जीवा ह्यणवोऽक्षरात्मकाः, तदात्मकत्वम-
विद्यान्तरायभूतया न विदन्ति । तेन संसारमापद्यन्ते । इदमेवोपाधिरूपत्वं तस्याः, न
श्रीमद्गोकुलनाथकृतविवृतिटिप्पणी ।
भगवतैव कृता इति । तन्मुक्तिप्रकारं जीवमुक्तिप्रकारमित्यर्थः । न तु तत्कृतं जीवत्वमि-
ति । यथा मायावादिनामित्यर्थः । व्योम्नि यथेति । यथोपाधिभिः क्षुद्रैश्छिद्रैरल्पत्वादय एव
१. एवं दृष्टान्तदार्ष्टान्तिकयोरुक्तमपि साधर्म्यं यत्र यदंशेन तत्र तथा स्पष्टयन्ति यथा जलं तथा
सर्वमिति । तत्राप्येतदिहोच्यत इति । तत्रापि साधर्म्येपि । एतज्जगत्तु त्रिविधमित्यारभ्य न
चान्यथेत्यन्तेन वक्ष्यमाणं किञ्चित्तारतम्यम् । इह प्रपञ्चरूपे तद्दृष्टान्तगङ्गाजले त्रिविधत्वाभावात् अत
उच्यत इत्यर्थः । जगदिति पाठान्तरं पुस्तकद्वये । क्वचित् पाठद्वयमपि मूले नास्ति ।

६ सिद्धान्तमुक्तावली ।
तु तत्कृतं जीवत्वम् । अणुत्वबोधनार्थं दृष्टान्तः । व्योम्नि यथोपाधिभिः क्षुद्रैः छिद्राणीव
प्रतीयन्ते, तथात्मनि क्षुद्रत्वादयो धर्माः प्रतीयन्ते । न तु ब्रह्मधर्मा इति बोधनार्थं च ।
तेषां मध्ये यं जीवं येन प्रकारेण प्रभुरुदिधीर्षुर्भवति, तत्प्रकारकगुरूपदेशादिभिरवि-
द्यालक्षणोपाधेर्ब्रह्मात्मकत्वावबोधनप्रतिबन्धकस्याविद्यात्मकस्य नाशे ब्रह्मात्मकत्वावबोधन-
लक्षणे विज्ञानेऽनुभवे सम्पन्ने पुरुषोत्तमाविर्भावयोग्यता तस्मिन् जाते स्वात्मनि तं प्रक-
र्षेण पश्यतीत्यर्थः । तस्य सर्वस्वरूपो हरिरवेति न तदतिरिक्तमपेक्षते । भजनोपयोग्यथौपे-
क्षायामपि प्रभुणेव सर्वं सम्पद्यत इति न कदाचिद्दुःखी भवति । एतज्ज्ञापनाय दृष्टान्तः ।
यस्तु प्रपञ्चासक्तो गुरूपदेशमात्रेण भजने संसारनिवृत्तिहेतुत्वं ज्ञात्वा भजते, न तु ब्रह्म-
भावसम्पत्त्या पुरुषोत्तमाविर्भाववान्, स तु गङ्गातो दूरस्थो यथा तां भजते, तत्रापेक्षितत-
जलाप्राप्त्या दुःखी भवति, तथा स्वयं भक्तिमार्गस्थ इति साक्षात्स्वरूपसम्बन्ध्यर्थापेक्षायां
तदप्राप्त्या क्लेशभागभवतीत्यर्थः । तथापि न स भजनं त्यजति, अङ्गीकारातप्रभोः । अनङ्गी-
कारे तु मध्ये भजनप्रतिबन्धेऽपि कृतभजनवैयर्थ्यासम्भवाज्जन्मान्तरे तत्फलिष्यतीति ज्ञेयम् ।
आत्मानन्दसमुद्रस्थमिति । श्रीकृष्णपदामृतपुष्टिमार्गीयभक्तप्रकटितनिरवध्यानन्देषु विहरन्त-
मित्यर्थः । ते तु व्रजरत्नात्मका इति मन्मतिः । स आनन्दो भगवत्स्वरूपात्मकस्तद्दत्त
एव । अत आत्मपदं भगवत्परम् ॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥
स्वस्वरूपज्ञानप्रभुस्वरूपज्ञानाभाववान् भक्तोऽपि पुष्टिमर्यादाभेदेन द्विविधः ।
उभयोश्चित्तचाञ्चल्याभावायाहुः ज्ञानाभाव इति ।
ज्ञानाभावे पुष्टिमार्गी तिष्ठेत्पूजोत्सवादिषु ॥ १७ ॥
मर्यादास्थस्तु गङ्गायां श्रीभागवततत्परः ।
अनुग्रहः पुष्टिमार्गे नियामक इति स्थितिः ॥ १८ ॥
उभयोस्तु क्रमेणैव पूर्वोक्तैव फलिष्यति ।
ज्ञानाधिको भक्तिमार्ग एवं तस्मान्निरूपितः ॥ १९ ॥
पुष्टिमार्गीये विशेषमाहुः अनुग्रह इति । तस्य स्थितौ न देशनियमः, किन्तु
प्रभुरनुगृह्य यत्रैव यथा स्थापयति, तत्रैव तिष्ठति तथा । तस्य विधिर्न नियामक
श्रीमद्विठ्ठलनाथकृतविवृतिटिप्पणी ।
प्रतीयन्ते, न तु व्यापकत्वादयः, तथा जीवेष्वपि न व्यापकत्वानन्दांशप्राकट्यादय इत्यर्थः ।
उक्तरूपाणामपि जीवानां भगवान्मर्यादापुष्टिभेदाङ्गीकारेणैव फलं ददाति, नत्वेकेनैव प्रका-
रेणेति ज्ञापनायाहुः तेषां मध्य इति । तेषां मध्य इत्यारभ्य ज्ञेयमित्यन्तेन ग्रन्थेनोक्ता व्यव-
स्था केवलमर्यादामार्गीयमर्यादापुष्टिमार्गीयभक्तानामिति ज्ञेयम् । तत्र ब्रह्मावबोधनरूप-
विज्ञानस्यापेक्षितत्वात् । पुष्टिपुष्टिमार्गे तु नैतदपेक्षेति न तत्सङ्ग्रहः । पुष्टिभेदेनेत्यत्रापि
मर्यादापुष्टिरेवेत्यर्थः । केवलपुष्टस्य भगवत्स्वरूपाज्ञानाभावेन चित्तचाञ्चल्याभावादित्यर्थः ।
पुष्टिमार्गीय इति । केवलमर्यादामार्गयित्वाद्विशेष इत्यर्थः । तमेवाहुस्तस्य स्थिताविति ।

[header]
श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । ७
[/header]

इति भावः । मर्यादास्थावपि ज्ञानिभक्तौ चेदनुगृह्णाति विशेषतः, तदा आदौ पुष्टि-
मार्गं प्राप्य तन्मार्गीयां भक्तिं प्राप्नुत इत्याहुः उभयोरिति । यदि मर्यादायामेवाङ्गीकारः,
तदोभयोर्मुक्तिरेव फलिष्यतीत्याशयः । एवं निरूपणे तात्पर्यमाहुः ज्ञानाधिक इति ।
लोकेऽधुना भक्तेरपि ज्ञानं फलं, तस्य मुक्तिरेवेति सर्वे वदन्ति । तत्र ज्ञानं हि ब्रह्मात्मैक्य-
ज्ञानम् । ब्रह्म चाक्षरात्मकम्, तदात्मकत्वेन सर्वज्ञानं च। एतावतापि पुरुषोत्तमसम्बन्धस्तु
दूरतरः । तस्य अक्षरातीतत्वात् । अत एवार्जुनेन पुरुषोत्तमाक्षरभजनयोस्तारतम्यं पृष्टः
स्वभजन आधिक्यमाह गीतासु द्वादशेऽध्याये । गङ्गायां च क्षराक्षरपुरुषोत्तमतारतम्यदृष्टान्तः
स्पष्टः । न हि देवी तीर्थात्सिका जलात्मिका वा, किन्तु जल एव तीर्थात्मकत्वं जानन्
ज्ञानी भवति । तदतीतदेवतात्मकदर्शने भक्तत्वम् । न हि भक्त्या देवताद्रष्टृसमः पूर्वो
भवति । अत एव पुरुषोत्तमं मां जानन् मामेव सर्वभावेन भजतीति 'यो मामेवमसंमूढ'
इत्युपक्रम्य 'भजति मां सर्वभावेने' ति प्रभुरुक्तवान् । अतो ज्ञानमार्गीयस्यापि पुरुषोत्तम-
विदोपि भक्तिनिष्ठैव फलमिति किमितोऽधिकं वाच्यम्, अनेकप्रमाणसिद्धत्वादिति
विद्वद्भिर्ज्ञेयम् । ऋग्वेदेपि पठ्यते 'तमु स्तोतारः पूर्व्यं यथाविद ऋतस्य गर्भ जनुषा पिपर्तन ।
आस्य जानन्तो नाम चिद्विवक्तन महस्ते विष्णो सुमतिं भजामहे ।' हे स्तोतारो मदुत्कर्षवर्ण-
नपराः पूर्व्यं सर्वकारणकारणरूपं तं लोकवेदप्रसिद्धं पुरुषोत्तमं भवन्तो यथावद्विदन्ति तत्स्वरू-
पमिति तथाभूताः । ऋतस्य सूनृतवाणीरूपस्य वेदस्य गर्भरूपम् । स्वोदरस्थं वेदं विश्वहितार्थं
ब्रह्मण उपदिष्टवानिति तथा । जनुषा स्वजन्मनेव सम्पूर्णेन, न तु क्षणयाममात्रेण पिपर्तन
पूर्तियुक्तं सन्तुष्टं कुरुत । अत्र यथावित्त्वोक्त्या पूर्णज्ञानानां देहेन्द्रियप्राणान्तःकरण-
जीवांस्तदर्थमेव तद्भजनार्थमेवोपयुक्तान् कुरुतेति भक्तिमार्गे विनियोगमुपदिशति । तेन
स्फुटमेव ज्ञानमार्गाद्भक्तिमार्गस्याधिक्यमवगम्यते । भक्त्या विना न कोपि पुरुषार्थः

[section-header]
श्रीमद्गोकुलनाथकृतविवृतिटिप्पणी ।
[/section-header]

उभयोरित्याभास उक्तो मर्यादास्थावपीति । अयमाशयः । यदि मर्यादापुष्टिमार्गियो-
रप्येकमेव फलं स्यात्, तदा मार्गभेदेनाङ्गीकारोऽनुपपन्नः स्यात्, मूले च साधारण्येनोभयो-
रपि फलैक्यप्रतिपादनाद्भवति सन्देहः, तस्मादुक्तं यद्युभावपि अनुगृह्णाति, तदोभयोरपि मर्या-
दांशं त्याजयित्वा केवलपुष्टिमार्गे प्रवेशं कारयित्वा पूर्वोक्तं सेवारूपं फलं प्रयच्छति,
तथा नाङ्गीकरोतीति चेत्, तदोभयोरपि मुक्तिमेव ददातीत्येतदेवोक्तं यदीति । एतेन
मर्यादांशत्याजनपूर्वकपुष्टिमार्गेऽङ्गीकार इति स्पष्टमेव ज्ञानमार्गाधिक्यं भक्तिमार्गे ।
द्वादशेऽध्याये 'येत्वक्षर' मिति 'ये तु सर्वाणि कर्माणी'त्यादिभिरित्यर्थः । ननु ज्ञानभक्त्योः
साम्यमेव कुतो नेति चेत् । न । ज्ञानमार्गस्याक्षरपर्यवसायित्वाद्भक्तिमार्गस्य पुरुषोत्तमपर्य-
वसायित्वात्तयोः भेदस्य च गङ्गादृष्टान्तेनैव पूर्वमुक्तत्वात्तारतम्येन तत्परयोरपि तारतम्यमिति
स्पष्टमेव ज्ञानाधिक्यं भक्तिमार्ग इति । तदेवोक्तं गङ्गायां चेति ॥

८ सिद्धान्तमुक्तावली ।
सिध्यतीति हृदयेनाहाग्रे देहादिसर्वविनियोगाशक्तौ आसमन्ताजानन्तोऽखण्डशब्दब्रह्मरूपं,
न तु लौकिकशब्दरूपमिति नामस्वरूपं जानन्तस्तदेव विवक्तुन् विशेषेण वदन्तु। अधिकमा-
हात्म्याद्यज्ञाने नाममात्रामृत कीर्तयन्तु । एतेनैव भगवत्स्वरूपतन्माहात्म्यादिकं ज्ञातं भवि-
ष्यतीत्याशयेनाह नामस्वरूपम्। चिदिति। चिदित्युपलक्षणम् । सच्चिदानन्दात्मकमित्यर्थः ।
नामस्वरूपाज्ञाने तदुपदेष्टृगुरूपसत्तिः कार्येत्याशयेनाह महस्त इत्यादि। ते त्वत्सम्बन्धिनं
सुमतिं निर्दोषपूर्णगुणत्वेन भवन्तं जानन्तं भगवद्भक्तं भजामहे । स च स्वतेजसा पराज्ञा-
ननिरासक इत्याह मह इति। तेजोरूपमित्यर्थः । स्वहृदि सदा श्रीकृष्णप्राकट्येनोत्सवात्म-
कमिति वा । एतेन ज्ञानिनां भक्तिमार्गप्रवेश एवोपदिष्टो भवति। एवमेव ‘तद्विष्णोः’ ‘तद्विप्रास’
इत्यादि श्रुतिसहस्रैर्निगद्यत इति सुष्ठूक्तं ज्ञानमार्गादधिको भक्तिमार्ग इति ॥१७॥१८॥१९॥
गङ्गादृष्टान्तस्य तात्पर्यान्तरमाहुः भक्त्यभाव इति ।
भक्त्यभावे तु तीरस्थो यथा दुष्टैः स्वकर्मभिः ।
अन्यथाभावमापन्नस्तस्मात्स्थानान्नश्यति ॥ २० ॥
एवं स्वशास्त्रसर्वस्वं मया गुप्तं निरूपितम् ।
एतद्बुद्ध्वा विमुच्येत पुरुषः सर्वसंशयात् ॥ २१ ॥
इति श्रीवल्लभाचार्यविरचिता सिद्धान्तमुक्तावली सम्पूर्णा ॥
भगवत्सान्निध्यदेशेऽपि स्थितौ भक्त्यभावे तथा भवतीति भावः । एतेन भक्तेरा-
वश्यकत्वमुक्तं भवति ॥ २० ॥ २१ ॥
इति श्रीपितृपादाब्जपरागरससिक्तहृत् ।
श्रीविठ्ठलस्तत्सिद्धान्तवाङ्मालां हृदये दधौ ॥ १ ॥
श्रीमद्गोकुलनाथकृतविवृतिटिप्पणी ।
इति श्रीपितृपादाब्जपरागारक्तचेतसा ।
श्रीवल्लभेन सिद्धान्तविवृतेर्विवृतिः कृता ॥ १ ॥
इति श्रीगोकुलनाथविरचिता सिद्धान्तमुक्तावलीटिप्पणी समाप्ता ।
१. अदलितनलिनीदलैव वापी यदहृतपल्लव एव काननान्तः ।
प्रियसखि न जगाम वामशीलः स्फुटममुना नगरेण नन्दसूनुः ॥ २ ॥
इत्यधिकं पद्यं क्वचित् ।
२ सक्तेति पाठः ।

श्रीकृष्णाय नमः ।
सिद्धान्तमुक्तावली ।
श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता ।
प्रणम्य पितृपादाब्जपरागमनुरागतः । कृपया विशदीकुर्मस्तद्वाङ्मुक्ताफलावलीम् ॥१॥
नत्वा हरिं प्रवक्ष्यामि स्वसिद्धान्तविनिश्चयम् ।
कृष्णसेवा सदा कार्या मानसी सा परा मता ॥ १ ॥
स्वसिद्धान्तेति । अग्रे वक्ष्यमाणैर्बहुभिर्मिंथो विरुद्धैः सिद्धान्तैः शास्त्रार्थसन्देहे
तन्निरासाय स्वसिद्धान्तरूपं शास्त्रार्थनिश्चयं वक्ष्यामीत्यर्थः । तमेवाहुः कृष्णसेवेति । फला-
त्मकनामोक्त्या स्वतः पुरुषार्थत्वेन सेवाकृतिः स्वसिद्धान्तो, न त्वन्यशेषत्वेनेति ज्ञाप्यते ।
सेवा हि सेवकधर्मः । तदुक्त्या जीवानामशेषाणां सहजदासत्वं ज्ञापितम् । अत एव न
कर्मणीवात्र कालपरिच्छेदोस्तीत्याहुः सदेति । आवश्यकार्थण्यत्प्रत्ययान्तकार्यपदोक्त्या
तदकरणे प्रत्यवायी भवतीति भावो ज्ञाप्यते । सा च फलरूपा साधनरूपा चास्ते । तत्र
मानसी सा परा फलरूपेत्यर्थः । यथा व्रजसीमन्तिनीनाम् । तदेव तत्प्राणनाथेन गीतं
‘ता नाविदन्मय्यनुषङ्गबद्धधियः स्वमात्मानमदस्तथेद’ मित्यादिना ॥ १ ॥
एतदेव सेवास्वरूपमित्याहुः चेत इति ।
चेतस्तत्प्रवणं सेवा तत्सिद्धौ तनुवित्तजा ।
ततः संसारदुःखस्य निवृत्तिर्ब्रह्मबोधनम् ॥ २ ॥
उक्तसेवासाधने इतरे इत्याहुस्तदिति । वित्तं दत्वा अन्येन पुरुषेण कृत्वा कारि-
श्रीमत्कल्याणरायकृतविवृतिटिप्पणी ।
मुक्ताश्रये रत्नविशेषसेव्ये शुकादिवाञ्छ्ये सुमनोधिगम्ये ।
क्षणं गवेन्द्रस्य पदाम्बुजाते विश्रम्यतां मानसराजहंसः ॥ १ ॥
मायातमोनिरकर्त्रे गोभिः सर्वार्थदर्शिने ।
स्वान्तःस्थाय हरेर्नित्यं द्विजराजाय ते नमः ॥ २ ॥
स्वसिद्धान्तरूपमिति । स्वसिद्धान्तस्य शास्त्रार्थनिश्चयरूपत्वं श्रुतिसिद्धत्वादिति
भावः । आवश्यकार्थेति । कृत्याश्चेति सूत्रेणावश्यकाधमर्ण्ययोरर्थयोः कृत्यसंज्ञकानां
विधानात् कृञोऽप्यावश्यक्यार्थे ण्यत्प्रत्यय इति भावः । भगवद्भजने प्रत्यवायबोधकं महा-
देववचनं स्कन्दपुराणे श्रूयते ‘स कर्ता सर्वधर्माणां भक्तो यस्तव केशव । स कर्ता सर्वपा-
१. विनिश्चितमिति पाठः । २ काले इति पाठः ।
सि० मु० २

१० $\qquad\qquad$ सिद्धान्तमुक्तावली ।
तैका । एतादृशेन पुंसा कृता चापरा । एतादृश्यौ ते तत्साधिके नेत्यभिप्रायज्ञापकं समस्तं
पदम् । एतेन भगवदर्थं निरुपधिखसर्वस्वनिवेदनपूर्वकं तत्रैव स्वदेहविनियोगे प्रेम्णि जाते
सा भवतीति भावः । एतादृशस्यावान्तरफलं भवतीत्याहुः तत इति । अहन्ताममतात्मकः
संसारो, न तु प्रपञ्चात्मकः, तस्य ब्रह्मात्मकत्वात्, तन्निवृत्त्याऽनिष्टनिवृत्तिरुक्ता । इष्टप्राप्ति-
माहुरग्रे । स्वात्मनि प्रपञ्चे चाक्षरब्रह्मात्मकत्वेन ज्ञानम् । भगवत्सेवायामभिनिविष्टस्य
यद्यप्यनभिलषिते ते, तथापि वस्तुस्वभावाद्भवत इति भावः ॥ २ ॥
इदमेव परं ब्रह्मेति न ज्ञेयमित्याहुः परं ब्रह्म त्विति ।
परं ब्रह्म तु कृष्णो हि सच्चिदानन्दकं बृहत् ।
द्विरूपं तद्धि सर्वं स्यादेकं तस्माद्विलक्षणम् ॥ ३ ॥
यशोदोत्सङ्गलालितो, न त्वन्य इति ज्ञापनाय मूलनामोक्तम् । अत्र भेदकं रूपमाहुः
सच्चिदिति । एते हि भगवद्धर्मात्मकाः, प्रकटतत्रितयात्मकमक्षरं ब्रह्म । अत एव प्रपञ्चस्त-
दात्मक इति सच्चिदानन्दात्मकत्वं तस्मिन्नुच्यते । एतावान्परं विशेषो, जडे सदंशः प्रकटः,
इतरावाच्छन्नौ; जीवे त्वाद्यौ प्रकटौ, आनन्दांशस्तिरोहितः; परमात्मनि त्रयं स्फुटमिति ।
कप्रत्ययेन गणितानन्दत्वमेव, न तु पुरुषोत्तमवत् पूर्णानन्दत्वमिति ज्ञाप्यते । कृष्णशब्देनैव
पुरुषोत्तमस्वरूपं निरूपितमित्यक्षरस्वरूपं निरूपयन्ति द्विरूपमिति । तत् अक्षरं ब्रह्म ।
तदेव रूपद्वयं विशदयन्ति सर्वं स्यादिति । प्रपञ्चरूपेणाविर्भूतमेकमित्यर्थः । एकं रूपं
तस्मात् प्रपञ्चरूपात् एकरूपत्वेन श्रुतिप्रतिपाद्यत्वेन ज्ञान्युपास्यत्वेन तन्मुक्तिस्थानत्वेन
पुरुषोत्तमाधिष्ठानत्वादिविभिर्विलक्षणमित्यर्थः । न च विरुद्धधर्मैर्भेदोत्र शङ्कनीयः । उभयो-
र्धर्मयोरेकत्र प्रमाणसिद्धत्वेन विरोधाभावात् । विरुद्धधर्माश्रयत्वस्य ब्रह्मणि 'तदेजति
तन्नैजती'त्यादिश्रुतिभिर्निरूप्यमाणत्वात् । लोक एव विरोधः शङ्कनीयो, नत्वलौकिके
ब्रह्मणि । इदं यथा तथा ब्रह्मसूत्रभाष्ये निरूपितमिति नात्र प्रपञ्च्यते ॥ ३ ॥
श्रीमत्कल्याणरायकृतविवृतिटिप्पणी ।
पानां यो न भक्तस्तवाच्युते'ति । तन्निवृत्त्येति । अहन्ताममतात्मकसंसारसम्बन्धि-
दुःखस्य निवृत्त्या । भक्तानां भगवद्भजनोपयोग्यहन्ताममतात्मकसंसारस्योपादेयत्वा-
दित्यर्थः । तथोक्तं ब्रह्मादिभिर्गर्भस्तुतौ 'त्वय्यम्बुजाक्षाखिलसत्त्वधाम्नी'ति श्लोके ।
कृष्णशब्देनैवेति । 'कृषिर्भूवाचकः शब्दः' 'कृष्णस्तु भगवान् स्वय'मित्यादिवाक्यैः
कृष्णशब्दस्य पुरुषोत्तमवाचकत्वादिति भावः । ज्ञान्युपास्यत्वं तन्मुक्तिस्थानत्वं च 'ये त्व-
क्षरमनिर्देश्यमव्यक्तं पर्युपासते' 'यदक्षरं वेदविदो वदन्ति' इत्यादिभिर्ज्ञेयम् । अत्रेति ।
अक्षरप्रपञ्चयोरित्यर्थः । उभयोरिति । प्रपञ्चस्य ब्रह्मात्मकत्वे सिद्धे विरुद्धयोर्धर्मयोरक्षर-
ब्रह्मणि प्रमाणसिद्धत्वेन सहानवस्थानलक्षणविरोधाभावादित्यर्थः । विरोधपरिहारायेति ।
ब्रह्मात्मकत्वे प्रपञ्चस्योच्यमाने मायावादादिभिर्विरोधः स्यात्तत्परिहाराय श्रुतिसिद्धं स्वसि-

श्रीमद्विठ्ठलेश्वरविरचितविवृतिसमेता । ११
विरोधपरिहाराय स्वसिद्धान्तं वक्तुं परमतान्याहुः अपरमिति ।
अपरं तत्र पूर्वस्मिन् वादिनो बहुधा जगुः ।
मायिकं सगुणं कार्यं स्वतन्त्रं चेति नैकधा ॥ ४ ॥
वेदमतादपरं भिन्नं मतं पूर्वस्मिन् प्रपञ्चरूपेणाविर्भूते । तत्र अक्षरे ब्रह्मणित्यर्थः ।
मायिकमिति हि मायावादिनः । सगुणं गुणकार्यमिति साङ्ख्याः । कार्यं द्व्यणुकादि-
क्रमेणेश्वरकार्यमिति नैयायिकाः । स्वतन्त्रं न कदाचिदनीदृशं जगदिति मीमांसकाः ।
चकारेण वेदबाह्यमतानि सङ्गृह्यन्ते ॥ ४ ॥
तानि मतानि श्रुतिबलेनैव निराकृतानि सन्तीति नात्र पार्थक्येन निराकरणीयानि,
स्वमतनिरूपणेनैव निराकरणसम्भवादित्याशयेन स्वसिद्धान्तमाहुः तदेवेति ।
तदेवैतत्प्रकारेण भवतीति श्रुतेर्मतम् ।
द्विरूपं चापि गङ्गावज्ज्ञेयं सा जलरूपिणी ॥ ५ ॥
माहात्म्यसंयुता नृणां सेवतां भुक्तिमुक्तिदा ।
मर्यादामार्गविधिना तथा ब्रह्मापि बुध्यताम् ॥ ६ ॥
‘स हैतावानास’, ‘सर्वं खल्विदं ब्रह्म, तज्जलानि’त्यादिश्रुतिभ्यः तथेत्यर्थः । एक-
स्यैवाक्षरस्योक्तं द्विरूपत्वं दृष्टान्तेनोपपादयन्ति द्विरूपमिति । प्रपञ्चतद्भिन्नरूपाभ्यां
द्विरूपं तद्ब्रह्म गङ्गावज्ज्ञेयम् । अस्ति गङ्गायां त्रिरूपत्वम् । आधिभौतिकं जलरूपमेकम्,
यद्दृष्ट्यातापाभ्यां वृद्धिह्रासौ भजते, सर्वव्यवहारयोग्यं च । अग्रिमा द्वितीयाध्यात्मिकी
तीर्थरूपा, योद्धृतजलाविशेषेऽपि मर्यादामार्गसम्बन्धी यो विधिस्तेन तत्रैव स्नानपूजा-
दिभिः फलदा । एवमेव प्रपञ्चतद्भिन्नरूपमप्येकमेव तदक्षरं ब्रह्मेति बुध्यतामित्यर्थः ॥५।६॥
आधिदैविकं रूपमाहुः तत्रैवेति ।
तत्रैव देवतामूर्तिर्भक्त्या या दृश्यते क्वचित् ।
गङ्गायां च विशेषेण प्रवाहाभेदबुद्धये ॥ ७ ॥
प्रत्यक्षा सा न सर्वेषां प्राकाम्यं स्यात्तया जले ।
विहिताच्च फलात्सिद्धिः प्रतीत्यापि विशिष्यते ॥ ८ ॥
यथा जलं तथा सर्वं यथा शक्त्या तथा बृहत् ।
यथा देवी तथा कृष्णस्तत्राप्येतदिहोच्यते ॥ ९ ॥
जगत्तु त्रिविधं प्रोक्तं ब्रह्माविष्णुशिवास्ततः ।

श्रीमत्कल्याणरायकृतविवृतिटिप्पणी ।
द्धान्तं वक्तुं पूर्वपक्षत्वेन परमतान्याहुरित्यर्थः । अपरमित्येकवचनमेकवदेव तेषां मतानां
निराकरणीयत्वेन तुच्छत्वबोधनार्थम् । मूले सेवतामित्यत्रानुदात्तेतां धातूनामात्मने-

१२ सिद्धान्तमुक्तावली ।
देवतारूपवत्प्रोक्ता ब्रह्मण्यित्थं हरिर्मतः ॥ १० ॥
कामचारस्तु लोकेऽस्मिन् ब्रह्मादिभ्यो न चान्यथा ।
परमानन्दरूपे तु कृष्णे स्वात्मनि निश्चयः ॥ ११ ॥
अतस्तु ब्रह्मवादेन कृष्णे बुद्धिविधीयताम् ।
उक्तद्विरूपायां गङ्गायामेव देवतारूपा सा तद्भिन्नास्तीत्यर्थः । तत्र मानमाहुः
मूर्तिरिति । भक्त्यैव, न तु मर्यादामार्गविधिनोपासनयेत्यर्थः । तदपि क्वचिदेव, भक्त्युद्रे-
कदशायामेव । अथवा । यत्र क्वचिद्गृहादिष्वपीत्यर्थः । भक्तविशेषे विशेषमाहुः गङ्गाया-
मिति । देवतारूपायां गङ्गायां भक्त्युद्रेकेण दृश्यमानप्रवाहादभिन्नत्वेन यस्य बुद्धिस्तस्मै
गङ्गायां प्रवाहमध्य एव ( देवतारूपा गङ्गा ) प्रत्यक्षा भवतीत्यर्थः । एतेन प्रपञ्चमध्य एव
भगवदाकारभगवद्भक्तयोर्दर्शने भगवति स्नेहातिशयेन तत्र भगवदभेदबुद्धये तत्र भगव-
त्प्राकट्यं भवतीति भावः सूच्यते । अग्रिमव्यवस्थामाहुः प्राकाम्यमिति । स्वाभीष्टस्वसर्व-
स्वरूपायाः स्थानभूतत्वेन ज्ञानात्तजले सर्वत्रानिषिद्धयथेष्टव्यवहारः स्यादित्यर्थः । एवमेवो-
क्तप्रकारकभगवद्दर्शने सर्वत्र तद्भावः स्फुरतीति भावः । विहितेति । भक्त्या गङ्गादर्श-
नानन्तरं प्रवाहरूपाया अपि दर्शनं विहितात्स्वर्गापवर्गरूपात्फलाद्विशिष्यते । तद्वदित्यर्थः ।
यद्वा । येषां न प्रत्यक्षा, तेषामपि तया देवतारूपया सा तत्रास्तीति तत्सम्बन्धानुभा-
वेनैव तज्जले प्राकाम्यं प्रकृष्टकामविषयत्वं श्रद्धाविशेषपूर्वकस्नानादिव्यवहारो भवतीत्यर्थः ।
किञ्च । पुराणादिषु तज्जलदर्शनादिभिः फलं यदुक्तं तदनुभवेन महतामन्तःकरणप्रतीत्यापि
श्रीमत्कल्याणरायकृतविवृतिटिप्पणी ।
पदानित्यत्वात्साधुत्वम् । मूर्तिरिति । देहवतीत्यर्थः । भक्तविशेष इति । प्रेमवति भक्त
इत्यर्थः । तत्र भगवदभेदबुद्धय इति । तत्र भगवदाकारे भगवद्भक्ते च साक्षाद्भगवानयं
मामनेन रूपेणानुगृह्णाति इति बुद्ध्या यो भजते तत्र भगवत्प्राकट्येन तस्य यथोक्तं
भजनफलं भवति । 'तं यथा यथोपासते तथैव भवती'ति श्रुतेः । यस्तु नायं भगवान्,
किन्तु भगवत्प्रतिमेयमिति बुद्ध्या भजते, तस्य भजनं भस्महोमतुल्यं भवति । अनेनैवा-
भिप्रायेण कपिलदेवैर्देवहूतिं प्रत्युक्तं 'यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम् ।
हित्वाऽर्चां भजते मौढ्याद्भस्मन्येव जुहोति स'इति । अत्र सगुणभक्तस्य भेदबुद्धिर्नि-
न्द्यते, न तु प्रतिमादिषु भजनम् । तथा सत्येकादशे श्रीकृष्णोक्तमुद्धवं प्रति प्रतिमादिषु
स्वार्चनं विरुध्येत । अस्यार्थः । अहं सर्वत्र तत्तद्रूपः आत्मरूप ईश्वरोन्तर्यामी नियामकश्च
वर्ते । एवं सर्वभावेन विद्यमानं भगवन्तं मां हित्वा उपेक्ष्य त्यक्त्वाऽर्चां प्रतिमां यो भजते
स भस्मन्येव जुहोति । एतादृशभजने मौढ्यमेव हेतुः, नत्वेवं बोधकं प्रमाणमस्ति ।
प्राकाम्यमिति । प्रकर्षेणासमन्तात्काम्यं स्यात् सिध्येदित्यर्थः । दार्ष्टान्तिकेऽपि ज्ञातव्यम् ।
१ तथा । देवतारूपा सेति पाठः ।

[Page Header]
श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । १३

तज्जलमन्येभ्यो जलेभ्यो विशिष्यत इत्यर्थः । एवं येषां हृदि भगवत्सान्निध्यं ते भक्ता
अन्येभ्यो विशिष्यन्ते । अत एव 'मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चन' मिति भगवतोक्तम् ।
एवं दृष्टान्तदार्ष्टान्तिकयोः साधर्म्यं निरूप्य उक्तमर्थं स्पष्टयन्ति यथा जलमित्यादिना ।
तत्रापीति । साधर्म्येपि । एतदिति । किञ्चित्तारतम्यम् । इह प्रपञ्चरूपे, दृष्टान्ते त्रि-
विधत्वाभावात् अत उच्यते । जगत्त्विति । त्रिविधं त्रिगुणात्मकं त्रिस्वभावत्वेन प्रकटं,
तेन तद्गुणनियामकत्वेन ब्रह्मादयो भगवतैव कृता इत्यर्थः । ब्रह्मैकरूपमिति तन्निष्ठानां
नियामको हरिरैव । ये तु भगवद्भक्तास्तेषां स्वात्मनि स्वात्मविषये ऐहिके पारलौकिके चार्थे
श्रीकृष्ण एव कामचार इत्यर्थः । सर्वत्र नियामकः स एवेति भावः । अथवा । भक्तानां
स्नेहातिशयेन स्वात्मत्वेनैव प्रभुः स्फुरतीति सर्वोशेन तत्रार्थने शङ्का न भवतीत्यर्थः ।

श्रीमत्कल्याणरायकृतविवृतिटिप्पणी ।

अत एवेति । यतो भगवत्प्रतिमाभक्तस्थानेषु भगवत्सान्निध्यमस्ति, ततस्तद्दर्शनस्पर्श-
नार्चनानि भगवता एकादशस्कन्धे एकादशाध्याये 'मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चन' मित्यनेन
भक्तिकारणत्वेनोक्तानीत्यर्थः । यथा जलमिति मूलम् । शक्ता पापनिवारणादौ समर्था ।
आध्यात्मिकी तीर्थरूपा । बृहत् अक्षरम् । देवी मूर्तिमती । आधिदैविकी
गङ्गा । इह गङ्गायाम्, तत्रापि भगवत्स्वरूपेऽपि, एतत्त्रैविध्यमुच्यत इत्यर्थः ।
तद्गुणनियामकत्वेनेति । जगद्गुणनियामकत्वेन भगवतैव ब्रह्मादयोऽधिकृता इत्यर्थः ।
एतदुक्तं नारदीयपुराणे 'यस्याज्ञया जगत्सर्वं ब्रह्मा सृजति नित्यशः । विष्णुश्च पालको नित्यं
रुद्रः संहारकस्तथा' इति । तेन केवलं प्रपञ्चासक्तानां ब्रह्मादय एव नियामका निग्र-
हानुग्रहकर्तार इत्यर्थः । ब्रह्मैकरूपमिति । ब्रह्माक्षरं तस्य गुणातीतत्वेनैकरूपत्वाच्चरणरू-
पत्वाच्च पुरोपासकानां निग्रहानुग्रहकर्ता फलदाता हरिरैवेत्यर्थः । ये त्विति । भगवद्भक्तानां
निग्रह ग्रहकर्ता फलदाता श्रीकृष्ण एव, नतु ब्रह्मादयः, कालः, कर्म वा । एतेषां मनोरथ-
पूर्तिः श्रीकृष्णादेव । यतस्ते नाल्पेच्छवः, अतः परमानन्दरूपात् । परमानन्ददायकात्
पूर्णानन्दात् पुरुषोत्तमात् कृष्णादेवेष्टसिद्धिरित्यर्थः । अत एव कपिलदेववचनम् 'न कर्हि-
चिन्मत्पराः शान्तरूपे नंक्ष्यन्ति नोऽनिमिषो लेढि हेति'रिति । षष्ठे तृतीयाध्याये यमवचनं
'नैषां वयं नच वयः प्रभवाम दण्ड' इति । पदयोजनिका त्वेवम् । जगत्तु त्रिगुणात्म-
कत्वेन त्रिविधं प्रोक्तम् । ततो हेतोर्ब्रह्मविष्णुशिवा जगतो देवता अधिष्ठातारः प्रोक्ताः ।
रूपवज्जगद्वैत्रिगुणयुक्ताः नियामकत्वेन तत्तद्गुणयुक्तत्वमेवैतेषाम्, न तु गुणाधीनत्वम्,
अन्यसाधारणापत्तेः । एतेषां भगवदंशत्वेन गुणावतारत्वेनान्येभ्यो विशिष्टत्वात् । ब्रह्मण्य-
क्षरविषये इत्थमधिष्ठातृत्वेन नियामकत्वेन च हरिः पुरुषोत्तमो मतः संमत इत्यर्थः ।
अस्मिँल्लोके भक्तजने हरिरैव नियामकः । तु पुनः भक्तजने ब्रह्मादिभ्यः कामचारश्चरधा-
तोर्गंत्यर्थत्वेन प्राप्त्यर्थत्वाद्वाञ्छितार्थप्राप्तिर्न । च पुनरन्यथा कालकर्मादिभ्योपि न, किन्तु
परमानन्दरूपे कृष्णे स्वात्मनि स्वात्मत्वेन स्फुरिते स्वात्मवत् प्रिये सति वा कामचार इति
निश्चयः । अतः कारणात्त पुनस्तुशब्दः प्रकारान्तरव्युदासार्थः । ब्रह्मवादेन प्रकारेण

१४ सिद्धांतमुक्तावली ।
अथ जीवस्वरूपं तन्मुक्तिप्रकारं चाहुः आत्मनीति ।
आत्मनि ब्रह्मरूपे तु छिद्रा व्योम्नीव चेतनाः ॥ १२ ॥
उपाधिनाशे विज्ञाने ब्रह्मात्मत्वावबोधने ।
गङ्गातीरस्थितो यद्वद्देवतां तत्र पश्यति ॥ १३ ॥
तथा कृष्णं परं ब्रह्म स्वस्मिन् ज्ञानी प्रपश्यति ।
संसारी यस्तु भजते स दूरस्थो यथा तथा ॥ १४ ॥
अपेक्षितजलादीनामभावात्तत्र दुःखभाक् ।
तस्माच्छ्रीकृष्णमार्गस्थो विमुक्तः सर्वलोकतः ॥ १५ ॥
आत्मानन्दसमुद्रस्थं कृष्णमेव विचिन्तयेत् ।
लोकार्थी चेद्भजेत्कृष्णं क्लिष्टो भवति सर्वथा ॥ १६ ॥
क्लिष्टोऽपि चेद्भजेत्कृष्णं लोको नश्यति सर्वथा ।
आत्मविषय उच्यत इति शेषः । जीवा ह्यणवोऽक्षरात्मकाः, तदात्मकत्वम-
विद्यान्तरायभूतया न विदन्ति । तेन संसारमापद्यन्ते । इदमेवोपाधिरूपत्वं तस्याः, न
तु तत्कृतं जीवत्वम् । अणुत्वबोधनार्थं दृष्टान्तः । व्योम्नि यथोपाधिभिः क्षुद्रैः छिद्राणीव
प्रतीयन्ते, तथात्मनि क्षुद्रत्वादयो धर्माः प्रतीयन्ते न तु ब्रह्मधर्मा इति बोधनार्थं च ।
तेषां मध्ये यं जीवं येन प्रकारेण प्रभुरुदिधीर्षुर्भवति, तत्प्रकारकगुरूपदेशादिभिरवि-
द्यालक्षणोपाधेर्ब्रह्मात्मकत्वावबोधनप्रतिबन्धकस्याविद्यात्मकस्य नाशे ब्रह्मात्मकत्वावबोधन-
लक्षणे विज्ञानेऽनुभवे सम्पन्ने पुरुषोत्तमाविर्भावयोग्यता तस्मिन् जाते स्वात्मनि तं प्रक-
र्षेण पश्यतीत्यर्थः । तस्य सर्वस्वरूपो हरिरेवेति न तदतिरिक्तमपेक्षते । भजनोपयोग्यर्थापे-
क्षायामपि प्रभुणैव सर्वं सम्पद्यत इति न कदाचिद्दुःखी भवति । एतज्ज्ञापनाय दृष्टान्तः ।
यस्तु प्रपञ्चासक्तो गुरूपदेशमात्रेण भजने संसारनिवृत्तिहेतुत्वं ज्ञात्वा भजते, न तु ब्रह्म-
भावसम्पत्त्या पुरुषोत्तमाविर्भाववान्, स तु गङ्गातो दूरस्थो यथा तां भजते, तत्रापेक्षितत-
जलाप्राप्त्या दुःखी भवति, तथा स्वयं भक्तिमार्गस्थ इति साक्षात्स्वरूपसम्बन्ध्यर्थापेक्षायां
श्रीमत्कल्याणरायकृतविवृत्तिटिप्पणी ।
श्रीकृष्णो मूलभूतः पुरुषोत्तमोऽक्षरं तत्पदं तस्मात्प्रपञ्चः समुद्रात्तरङ्गवत् श्रीकृष्ण एव स्वे-
च्छया सर्वं करोति, सर्वरूपश्च भवति, तस्मादेव सर्वं प्राप्यते इति ब्रह्मवादप्रकारः ।
अनेन कृष्णे सदानन्दे बुद्धिविधीयतां निवेश्यतामित्यर्थः । छिद्रा व्योम्नीति । व्योम्नि
यथा क्षुद्रैरुपाधिभिः छिद्रप्रदेशाः प्रतीयन्ते, तथाऽविद्यातद्धर्मैरक्षरे चेतना अपि प्रतीयन्त
इत्यर्थः । उपाधिनाश इति सार्धश्लोकेन ज्ञानिभक्तावस्थोक्ता । भजनप्रकारमाहुः तस्मा-
दिति । भक्तिमार्गीयो भूत्वा भजने लोकानुरोधं त्यक्त्वा बाललीलादिषु यैव लीला स्वस्या-
त्यन्तं रोचते तल्लीलासहितं कृष्णमेव, नत्ववतारान्तरमपि विशेषेण चिन्तयेदित्यर्थः ।
तदभावे बाधकमाहुः लोकार्थी चेदिति । मर्यादास्थावापि ज्ञानिभक्ताविति । अत्र ज्ञानी

तदप्राप्त्या क्लेशभाग्भवतीत्यर्थः । तथापि न स भजनं त्यजति, अङ्गीकारातप्रभोः । अनङ्गी-
कारे तु मध्ये भजनप्रतिबन्धेपि कृतभजनवैयर्थ्यासम्भवाज्जन्मान्तरे तत्फलिष्यतीति ज्ञेयम् ।
आत्मानन्दसमुद्रस्थमिति । श्रीकृष्णपदात्पुष्टिमार्गीयभक्तप्रकटितानिरवध्यानन्देषु विहरन्त-
मित्यर्थः । ते तु व्रजरत्नात्मका इति मन्मतिः । स आनन्दो भगवत्स्वरूपात्मकस्तद्दत्त
एव । अत आत्मपदं भगवत्परम् ॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥
स्वस्वरूपज्ञानप्रभुस्वरूपज्ञानाभाववान् भक्तोऽपि पुष्टिमर्यादाभेदेन द्विविधः ।
उभयोश्चित्तचाञ्चल्याभावायाहुः ज्ञानाभाव इति ।
ज्ञानाभावे पुष्टिमार्गी तिष्ठेत्पूजोत्सवादिषु ॥ १७ ॥
मर्यादास्थस्तु गङ्गायां श्रीभागवततत्परः ।
अनुग्रहः पुष्टिमार्गे नियामक इति स्थितिः ॥ १८ ॥
उभयोस्तु क्रमेणैव पूर्वोक्तैव फलिष्यति ।
ज्ञानाधिको भक्तिमार्ग एवं तस्मान्निरूपितः ॥ १९ ॥
पुष्टिमार्गीये विशेषमाहुः अनुग्रह इति । तस्य स्थितौ न देशनियमः, किन्तु
प्रभुरनुगृह्य यत्रैव यथा स्थापयति, तत्रैव तिष्ठति तथा । तस्य विधिर्न नियामक
इति भावः । मर्यादास्थावपि ज्ञानिभक्तौ चेदनुगृह्णाति विशेषतः, तदा आदौ पुष्टि-
मार्गं प्राप्य तन्मार्गीयां भक्तिं प्राप्नुत इत्याहुः उभयोरिति । यदि मर्यादायामेवाङ्गीकारः,
तदोभयोर्मुक्तिरेव फलिष्यतीत्याशयः । एवं निरूपणे तात्पर्यमाहुः ज्ञानाधिक इति ।
लोकेऽधुना भक्तेरपि ज्ञानं फलं, तस्य मुक्तिरेवेति सर्वे वदन्ति । तत्र ज्ञानं हि ब्रह्मात्मैक्य-
ज्ञानम् । ब्रह्म चाक्षरात्मकम्, तदात्मकत्वेन सर्वज्ञानं च । एतावतापि पुरुषोत्तमसम्बन्धस्तु
दूरतरः । तस्य अक्षरातीतत्वात् । अत एवार्जुनेन पुरुषोत्तमाक्षरभजनयोस्तारतम्यं पृष्टः
स्वभजन आधिक्यमाह गीतासु द्वादशेऽध्याये । गङ्गायां च क्षराक्षरपुरुषोत्तमतारतम्यदृष्टान्तः
स्पष्टः । न हि देवी तीर्थात्मिका जलात्मिका वा, किन्तु जल एव तीर्थात्मकत्वं जानन्
ज्ञानी भवति । तदतीतदेवतात्मकदर्शने भक्तत्वम् । न हि भक्त्या देवताद्रष्टुस्समः पूर्वो
भवति । अत एव पुरुषोत्तमं मां जानन् मामेव सर्वभावेन भजतीति 'यो मामेवमसंमूढ'
इत्युपक्रम्य 'भजति मां सर्वभावेने' ति प्रभुरुक्तवान् । अतो ज्ञानमार्गीयस्यापि पुरुषोत्तम-
विदोपि भक्तिनिष्ठैव फलमिति किमितोऽधिकं वाच्यम्, अनेकप्रमाणसिद्धत्वादिति
विद्वद्भिर्ज्ञेयम् । ऋग्वेदेपि पठ्यते 'तमु स्तोतारः पूर्व्यं यथाविद ऋतस्य गर्भं जनुषा पिपर्तन ।
आस्य जानन्तो नाम चिद्विवक्तन महस्ते विष्णो सुमतिं भजामहे ।' हे स्तोतारो मद्रुत्कर्षवर्ण-
नपराः पूर्व्यं सर्वकारणकारणरूपं तं लोकवेदप्रसिद्धं पुरुषोत्तमं भवन्तो यथावद्विदन्ति तत्स्वरू-
पमिति तथाभूताः । ऋतस्य सूनृतवाणीरूपस्य वेदस्य गर्भरूपम् । स्वोदरस्थं वेदं विश्वहितार्थं
ब्रह्मण उपदिष्टवानिति तथा । जनुषा स्वजन्मनेव सम्पूर्वेन, न तु क्षणयाममात्रेण पिपर्तन


श्रीमत्कल्याणरायकृतविवृत्तिटिप्पणी ।
कर्ममार्गस्थो ज्ञेयो, भक्तो मर्यादाङ्गीकारवान् ज्ञेयः । तदोभयोरिति । ज्ञानिनोऽक्षरमा-

१६ सिद्धान्तमुक्तावली।
पूर्तियुक्तं सन्तुष्टं कुरुत । अत्र यथावित्तोत्त्या पूर्णज्ञानानां देहेन्द्रियप्राणान्तःकरण-
जीवांस्तदर्थमेव तद्भजनार्थमेवोपयुक्तान् कुरुतेति भक्तिमार्गे विनियोगमुपदिशति । तेन
स्फुटमेव ज्ञानमार्गाद्भक्तिमार्गस्याधिक्यमवगम्यते । भक्त्या विना न कोपि पुरुषार्थः
सिध्यतीति हृदयेनाह्याग्रे देहादिसर्वविनियोगाशक्तौ आसमन्ताज्जानन्तोऽखण्डशब्दब्रह्मरूपं,
न तु लौकिकशब्दरूपमिति नामस्वरूपं जानन्तस्तदेव विवक्तन विशेषेण वदन्तु । अधिकमा-
हात्म्याद्यज्ञाने नाममात्रमुत कीर्तयन्तु । एतेनैव भगवत्स्वरूपतन्माहात्म्यादिकं ज्ञातं भवि-
ष्यतीत्याशयेनाह नामस्वरूपम्। चिदिति। चिदित्युपलक्षणम्। सच्चिदानन्दात्मकमित्यर्थः।
नामस्वरूपाज्ञाने तदुपदेष्टृगुरूपसत्तिः कार्येत्याशयेनाह महस्त इत्यादि। ते त्वत्सम्बन्धिनं
सुमतिं निर्दोषपूर्णगुणत्वेन भवन्तं जानन्तं भगवद्भक्तं भजामहे । स च स्वतेजसा पराज्ञा-
ननिरासक इत्याह मह इति । तेजोरूपमित्यर्थः। स्वहृदि सदा श्रीकृष्णप्राकट्येनोत्सवात्म-
कमिति वा । एतेन ज्ञानिनां भक्तिमार्गप्रवेश एवोपदिष्टो भवति । एवमेव 'तद्विष्णोः' 'तद्विप्रास'
इत्यादि श्रुतिसहस्रैर्निगद्यत इति सुष्ठूक्तं ज्ञानमार्गादधिको भक्तिमार्ग इति ॥१७॥१८॥१९॥
गङ्गादृष्टान्तस्य तात्पर्यान्तरमाहुः भक्त्यभाव इति ।
भक्त्यभावे तु तीरस्थो यथा दुष्टैः स्वकर्मभिः ।
अन्यथाभावमापन्नस्तस्मात्स्थानाच्च नश्यति ॥ २० ॥
एवं स्वशास्त्रसर्वस्वं मया गुप्तं निरूपितम् ।
एतद्बुद्ध्वा विमुच्येत पुरुषः सर्वसंशयात् ॥ २१ ॥
इति श्रीवल्लभाचार्यविरचिता सिद्धान्तमुक्तावली सम्पूर्णा ॥
भगवत्सान्निध्यदेशेऽपि स्थितौ भक्त्यभावे तथा भवतीति भावः । एतेन भक्तेरा-
वश्यकत्वमुक्तं भवति ॥ २० ॥ २१ ॥
ईति श्रीपितृपादाब्जपरागरससिक्तहृत् ।
श्रीविठ्ठलस्तत्सिद्धान्तवाङ्मालां हृदये दधौ ॥ १ ॥
श्रीमत्कल्याणरायकृतविवृतिटिप्पणी ।
युज्यम्, अत्र भक्तस्य पुरुषोत्तमसायुज्यमित्यर्थः । भक्त्यभाव इति । स्नेहमाहात्म्यज्ञा-
नयोरभाव इत्यर्थः ।
श्रीमदाचार्यसिद्धान्तमुक्तावल्याः प्रणम्य तान् ।
श्रीमत्कल्याणरायेण टिप्पणी विवृतेः कृता ॥ १ ॥
इति श्रीमद्विठ्ठलेश्वरचरणकमलैकतानश्रीमत्कल्याणरायविरचिता
सिद्धान्तमुक्तावलीविवृतिटिप्पणी समाप्ता ।
१. अदलितनलिनीदलैव वापी यदहृतपल्लव एव काननान्तः ।
प्रियसखि न जगाम वामशीलः स्फुटममुना नगरेण नन्दसूनुः ॥ २ ॥
इत्यधिकं पद्यं क्वचित् ।

श्रीकृष्णाय नमः ।
सिद्धान्तमुक्तावली ।
श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता ।
प्रणम्य पितृपादाब्जपरागमनुरागतः । कृपया विशदीकुर्मस्तद्वाङ्मुक्ताफलावलीम् ॥१॥
नत्वा हरिं प्रवक्ष्यामि स्वसिद्धान्तविनिश्चयम् ।
कृष्णसेवा सदा कार्या मानसी सा परा मता ॥ १ ॥
स्वसिद्धान्तेति । अग्रे वक्ष्यमाणैर्बहुभिर्मिंथो विरुद्धैः सिद्धान्तैः शास्त्रार्थसन्देहे
श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः ।
प्रणम्य श्रीमदाचार्यान् प्रभून् श्रीविठ्ठलेश्वरान् ।
तत्कृपातो यथाबुद्धि तदुक्तीर्विण्वृणोत्ययम् ॥ १ ॥
अथ यच्छ्रीमदाचार्यचरणैर्भागवतार्थनिबन्धे वैदिकमार्गभक्तिमार्गौ निरूपितौ,
निरोधसुबोधिन्यां च स्वतन्त्रभक्तिमार्गो निरूपितः, तत्किं तदर्थं तेषां विकल्पप्राधा-
न्याय, आहोस्विदेकतरमुख्यत्वायेति स्वीयानां संशयस्य तत्प्रसङ्गानुप्रसङ्गपतितानां
सेवास्वरूपतदधिकारादिविषयाणां संशयान्तराणां चोद्भवमवेक्ष्य तन्निवारणाय स्वसि-
द्धान्तनिष्कर्षं सिद्धान्तमुक्तावलीग्रन्थे श्रीमदाचार्यचरणाः संक्षेपेण प्रकाशितवन्तः । तस्य
ग्रन्थस्य दुर्ज्ञेयत्वमालोच्य श्रीमत्प्रभुचरणास्तद्विवरीतुं प्रकृतोपयोगि मङ्गलं शिष्यशिक्षार्थ-
मुपनिबध्नन्तो विवरणं प्रतिजानते प्रणम्येत्यादि । अत्रानुरागतः प्रणामोक्त्या एतद्ग्र-
न्थार्थविबोधेऽपि तस्यैव विघ्नविघातकत्वेन प्रकृतोपयोगित्वं द्योतितम् । कृपयेति ।
श्रीमदाचार्यकृपया । स्वीयोपरि स्वकृपया वा । अतःपरं मूलं विवरणीयम् । तत्रापि
नत्वा हरिं प्रवक्ष्यामीतिमङ्गलघटितमेव प्रतिज्ञावाक्यम् । तत्रानुबन्धचतुष्टयं यद्यपि वक्त-
व्यम्, तथापि तत्र स्वसिद्धान्तविनिश्चयमितिपदेन विषयस्योक्तत्वात् विषयविशेषणी-
भूतेन स्वपदेनैव श्रीमदाचार्यचरणानुरक्तस्य तत्सिद्धान्तजिज्ञासोरधिकारिणोपि लाभाद्वि-
षयोक्त्यैव प्रतिपाद्यप्रतिपादकभावस्य सम्बन्धस्यापि लाभात्प्रयोजनमेवानुक्तत्वादस्फुट-
मवशिष्यते । तदप्युपसंहारवाक्ये ‘एतद्बुद्ध्वा विमुच्येत पुरुषः सर्वसंशया’दित्यनेन वक्ष्यते ।
तद् हृदि कृत्वात्र स्फुटीकर्तुं प्रतिज्ञावाक्यमेव व्याख्यातुमुपक्षिप्य व्याकुर्वन्ति अग्रे
वक्ष्यमाणैरित्यादि । अग्र इति । ‘मायिकं सगुण’मित्यग्रिमग्रन्थे । शास्त्रार्थसन्देह
१. विनिश्चितमिति पाठः ।
सि० मु० ३

१८ सिद्धान्तमुक्तावली ।
तन्निरासाय स्वसिद्धान्तरूपं शास्त्रार्थनिश्चयं वक्ष्यामीत्यर्थः । तमेवाहुः कृष्णसेवेति ।
फलात्मकनामोक्त्या स्वतः पुरुषार्थत्वेन सेवाकृतिः स्वसिद्धान्तो, न त्वन्यशेषत्वेनेति
ज्ञाप्यते । सेवा हि सेवकधर्मः । तदुक्त्या जीवानामशेषाणां सहजदासत्वं ज्ञापितम् ।
श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः ।
इति । शास्त्रं काण्डद्वयात्मको वेदः, तदर्थनिश्चायका वेदान्ता वा । अर्थः प्रयोजनं तात्पर्यं
च, तद्विषयके सन्देहे । तथा च तद्वेदप्रयोजनविषयके तत्तात्पर्यविषयके च संशये जाते
तन्निरासाय तथेति भावः । स्वसिद्धान्तस्य वेदार्थनिश्चयरूपत्वं च । ‘भगवान् ब्रह्मका-
त्स्न्र्येन त्रिरन्वीक्ष्य मनीषया । तदध्यवस्यत्कूटस्थो रतिरात्मन् यतो भवे’दिति द्वितीय-
स्कन्धवाक्यात् । ‘वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिनः । तेषां विकल्पप्राधान्यमुताहो
एकमुख्यता ।’ ‘भवतोदाहृतः स्वामिन् भक्तियोगोऽनपेक्षितः । निरस्य सर्वतः सङ्गं
येन त्वय्याविशेन्मन’ इत्युद्धवप्रश्ने, ‘धर्ममेके यशश्चान्ये कामं सत्यं शमं दमम् । अन्ये
वदन्ति वै स्वार्थमैश्वर्यत्यागभोजनम् । केचिद्यज्ञतपोदानं व्रतानि नियमान् यमान् ।
आद्यन्तवन्त एवैषां लोकाः कर्मविनिर्मिताः । दुःखोदर्कास्तमोनिष्ठाः क्षुद्रानन्दाः शुचा-
र्पिताः । मय्यर्पितात्मनः सभ्यङ्गिरपेक्षस्य सर्वतः । मय्यात्मना सुखं यत्तत्कुतस्तद्विषयात्म-
ना’मित्येकादशस्कन्धीयभगवद्वाक्यात् । ‘सर्वं खल्विदं ब्रह्म’ति श्रुते’र्ब्रह्मविद्याश्रुतेश्चे’-
वगन्तव्यम् । एवं प्रतिज्ञावाक्यव्याख्यानेनाचार्याणां सिद्धान्तस्य वेदार्थनिष्कर्षरूपत्वं
बोधयित्वा पूर्वं साधननिष्कर्षं वदन्तीत्याशयेनाग्रिमवाक्यमवतार्य व्याकुर्वन्ति फलात्म-
केत्यादि । ‘कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभि-
धीयते ।’ ‘पापकर्षणो’ इति श्रुतेः कृष्णपदं परब्रह्मनामत्वेनावगतम् । परं ब्रह्मैव च
‘ब्रह्मविदाप्नोति पर’मिति श्रुत्या भूमविद्योक्तनित्यसुखनिरवधिसुखरूपतया च परमफल-
त्वेनानन्दमयाधिकरणादौ निर्णीतम् । अतः कृष्ण इति फलात्मकस्य भगवतो नाम,
तदुक्त्या तत्समभिव्याहारेण तथा सेवाकृतिः स्वसिद्धान्तः । ‘सालोक्यसार्ष्टिसामीप्यसा-
रूप्यैकत्वमप्युत । दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः । स एव भक्तियोगाख्य
आत्यन्तिक उदाहृत’ इति वाक्योक्तभक्तिलक्षणा सेति सिद्धान्त इति ज्ञाप्यत इत्यर्थः ।
भक्तिपदमनुक्त्वा यत्सेवापदमुक्तं तत्तात्पर्यमाहुः सेवा हीत्यादि । जीवानाम्, ‘एवं
पञ्चविधं लिङ्गं त्रिवृत्षोडशविस्तृतम् । एष चेतनया युक्तो जीव इत्यभिधीयत’ इति
प्राचीनबर्हिषं प्रति नारदवाक्याद्देहविशिष्टानां चेतनानाम् । ‘सर्वयोनिषु कौन्तेय मूर्तयः
प्रभवन्ति याः । तासां ब्रह्म महद्योनिरहं बीजप्रदः पिते’ति गीतावाक्याद्भगवज्जन्यत्वेन
तत्पोष्यत्वम्, तेन सर्वेषां तेषां सहजदासत्वं गर्भदासत्वं ज्ञापितम् । तेनासुराणां
याऽधोगतिः, सापि ‘आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनी’त्यत्र मूढा इति विशेषणेन
दासधर्माकरणादेवेति सिध्यति । अत एव ‘देवोऽसुरो मनुष्यो वे’ति प्रह्लादवाक्ये भजना-
१. ‘’ चिह्नान्तर्गतं पुस्तकद्वये नास्ति । २ भूमविद्येतिपाठः ।

श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । १९
अत एव न कर्मणीवात्र कालपरिच्छेदोऽस्तीत्याहुः सदेति । आवश्यकार्थण्यत्प्रत्यया-
न्तकार्यपदोक्त्या तदकरणे प्रत्यवायी भवतीति भावो ज्ञाप्यते । सा च फलरूपा साधनरूपा
चास्ते । तत्र मानसी सा परा फलरूपेत्यर्थः । यथा व्रजसीमन्तिनीनाम् । तदेव तत्प्राण-
नाथेन गीतं 'ता नाविदन्मय्यनुषङ्गबद्धधियः स्वमात्मानमदस्तथेद' मित्यादिना ॥ १ ॥
श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः ।
धिकारस्तेषामुच्यते । तेन सर्वेषां चेतनानां जीवानां दासत्वमक्षुण्णमित्यर्थः । तदेतदभि-
सन्धाय सदापदाशयमाहुः अत इत्यादि । कार्यपदतात्पर्यमाहुः आवश्यकेत्यादि ।
आवश्यकाधमर्ण्ययोर्णिनिरित्यर्थद्वयं प्रस्तुत्य 'कृत्याश्चे'ति सूत्रे कृत्यप्रत्यया विहिताः ।
तत्रावश्यकत्वं नाम पूर्वं कथञ्चित् ज्ञातस्य पश्चात्तदभावेऽनिष्टजननज्ञानपूर्वकज्ञानविषयत्वं
वा, तथा कृतिविषयत्वं वा, नतु विधिविषयत्वमात्रम् । प्रैषानुवादसूत्रेणैव तदर्थलाभे-
नास्य सूत्रस्य वैयर्थ्यप्रसङ्गात् । अतस्तदर्थकण्यत्प्रत्ययान्तकार्यपदोक्त्या तदकरणे
प्रत्यवायी भवति । प्रत्यवायस्य पातकत्वात्तेन भक्तिमार्गाद्भ्रश्येतेति भावो ज्ञाप्यते । तथा
च स्वस्मिन् भगवद्दासत्वमनुसन्धाय सेवायां च स्वतन्त्रपुरुषार्थत्वमावश्यकदासधर्मत्वं
चानुसन्धाय सर्वकालं सेवाकरणं साधननिष्कर्ष इत्यर्थः । नन्वत्र सेव्यसन्तोषजनिका
पूर्वोक्तप्रकारककायादिव्यापाररूपा क्रिया सेवात्वेन विवक्षिता । यथा राजसेवा गुरुसे-
वेति । तस्याः सर्वदा कार्यत्वकथनमशक्योपदेशरूपमित्याशङ्क्य, तत्र समाधिं वदन्ती-
त्याशयेनाग्रिमं वाक्यं व्याकुर्वन्ति सा चेत्यारभ्य इत्यादिनेत्यन्तम् । तथाच कायादित्रितय-
व्यापाररूपापि विचार्यमाणा बाह्याभ्यन्तरभेदेन द्विधा । तयोराभ्यन्तरी मानसी बाह्यायाः
फलरूपा । बाह्या तु तत्साधनरूपा । तयोरवान्तरफलरूपत्वं सर्वदा कार्यत्वं च फला-
ध्यायाद्यपादे 'आवृत्तिरसकृदुपदेशा'दित्यस्य प्रथमवर्णके सिद्धम् । तत्र हि 'द्रष्टव्य' इति
पदेन श्रवणादीनां फलरूपं दर्शनं पूर्वमुक्त्वा, 'श्रोतव्य' इत्यादिना तत्साधनानां पश्चा-
त्कथनेनात्मनः परोक्षमपि ज्ञानमवान्तरफलरूपं ज्ञानमार्गे । भक्तिमार्गे तु परमफलरूपज्ञान-
सजातीयत्वेनापि फलमध्यपात्येव श्रुत्यभिमतम् ।१ अत एव 'सूत्रकृदपि फलप्रकरणे साधन-
विचारं चकारे'ति कथनादसकृदुपदेशकथनाच्च । मानस्याः मुख्यत्वं च साधनाध्याये
सहकार्यन्तराधिकरणे । श्रुतौ कायिकं वाचिकं मानसिकं च साधनं विधीयते । तत्र
मानसं मुख्यम् । 'मनसैवावाप्तव्य'मिति श्रुतेः । तस्यापि स्नेहोदयपर्यन्तमेव विहितत्वेन
कर्तव्यता । तदुत्तरं तु स्वत एव तत्सम्भव इति निर्णयात् । पुष्टिमार्गे तु तस्य या
परा काष्ठा, सात्र 'यथा व्रजसीमन्तिनीना'मित्यादिना दर्शिता । यदि हि प्रकारान्तरं तत
उत्कृष्टं भगवदभिप्रेतं स्यात्, तदा भगवान् 'अथैतत्परमं गुह्य'मित्यत्र 'सुगोप्यमपि
वक्ष्यामी'ति प्रतिज्ञायैतमेव प्रकारं तथात्वेन न वदेत्, अतस्तथा । तेन साधनरूपाया
असकृदावर्तनमेव सदा कार्यत्वम् । मानस्यास्तु भगवति मनोगत्यविच्छेदरूपम् । तच्च
बाह्याया आवर्तनात्साधनीयम्, अतो नाशक्योपदेशरूपत्वमित्यर्थः ॥ १ ॥
१ काले इति पाठः ।

एतदेव सेवारूपमित्याहुः चेत इति ।
चेतस्तत्प्रवणं सेवा तत्सिद्धयै तनुवित्तजा ।
ततः संसारदुःखस्य निवृत्तिर्ब्रह्मबोधनम् ॥ २ ॥
उक्तसेवासाधने इतरे इत्याहुस्तदिति । वित्तं दत्त्वा अन्येन पुरुषेण कृत्वा कारि-
श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः ।
तदेतदग्रिमावतरणेन निगमयन्ति एतदेवेत्यादि । अत्र मूले मानस्याः स्वरूपं 'चेत-
स्तत्प्रवणं सेवे'त्यनेनोक्तम् । तत्र प्रवणपदं तावत् 'प्रवणं क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे'
इत्यमरात्, 'प्रवणस्तु क्षणे प्रह्वे क्रमनिम्ने चतुष्पथे । आयत्ते चे'त्यनेकार्थचिन्तेषु रूढम् । मनश्च
वेदे अन्नमयत्वेन श्रावणात्पार्थिवं पृथिवीपोषितं चेति सिद्धम् । एवं सति तस्मिन् कृष्णे
पूर्वं प्रह्रमीषन्नम्रं तत आयत्तं तदधीनं ततः क्रमेण भगवदेकतानत्वरूपां 'ता नाविद'न्नितिवा-
क्योक्तप्रकारां गभीरतां प्राप्तं यच्चेतस्तदेव सेवारूपम् । समाधाविव भगवति लयं प्राप्तमिति
यावत् । नतु वृत्त्यन्तरविशिष्टमित्यर्थः । ( न च क्रमनिम्नत्वस्याचार्याशयगोचरत्वे मानाभावः
शङ्क्यः । भक्तिवर्धिन्यां बीजदार्थ्यप्रकारकथने 'ततः प्रेम तथासक्तिर्व्यसनं च यदा भवे'दित्यत्र
तथाङ्गीकारस्य स्फुटत्वादिति ) । एवं मानसीं साध्यरूपां निष्कृष्य साधनरूपाया निष्कर्षं
वदन्तीत्याशयेनाग्रिममवतार्य व्याकुर्वन्ति उक्तसेवेत्यादि । अत्रेदं बोध्यते । इन्द्रियव्यापारं
विना केवलस्य देहस्य न सेवाकर्तृत्वमिति प्रत्यक्षतोऽवसीयते । अत इन्द्रियव्यापारापेक्षायां
यथा ज्ञानमार्गे नित्यनैमित्तिककर्मसहकृतं श्रवणादित्रयं पूर्वं साधनं, तत्परिपाकद्शायां
प्रव्राजसहकृतं केवलमुपासनात्मकं ज्ञानम्; तथा भक्तिमार्गे 'एतान्यपि तु कर्माणी'ति
गीतोक्तरीत्या तत्सहकृतं श्रवणादिनवकम्, तदप्येकादशस्कन्धे 'पुनश्च कथयिष्यामि
मद्भक्तेः कारणं पर'मित्युपक्रम्य 'एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिनाम् । मयि सञ्जायते
भक्ति'रित्यन्तोक्तरीत्या क्रियमाणं साधनम् । तत्परिपाकद्शायां तु स्नेहेन क्रियमाणं
तत्साधनम् । तच्चेद्वित्तं वेतनत्वेन दत्वा कार्यते, तदा सा चित्तस्य राजसत्वं कुर्वन्ती
चित्तस्य तत्प्रवणत्वं न करोति । यदि च वित्तं वेतनत्वेन गृहीत्वा क्रियते, तदा ऋत्विजो
यागवत् स्वस्य तत्प्रवणत्वरूपं फलं न साधयति । न च यागो यजमानस्येव वित्तदातुः फल-
तीति शङ्क्यम् । तत्रर्त्विग्दक्षिणावरणादिवदत्र तद्दानादेर्भक्तिमार्गे भगवतानुक्तत्वात् । अत-
स्तथा न कार्यम्, किन्तु भगवदुक्तरीत्यैव कार्यम् । तदैव साधनरूपा साध्यरूपां मानसीं
सेवां जनयन्ती स्वयमपि पश्चात्फलरूपतया व्रजस्थानामिव पर्यवस्यतीति । एतदेव निबन्धे
'विशिष्टरूपं वेदार्थ' इत्यादिना 'एतन्मार्गद्वयं प्रोक्त'मित्यन्तेन सविवरणेन बोधितम् ।
यत्तुनरादिमे 'सेव्यः सायुज्यकाम्यये'त्युक्तम्, ततु मुख्याधिकाराभावपरम् । अत एव
सर्वनिर्णये 'भक्तिः स्वतन्त्रा शुद्धा च दुर्लभेति न सोच्यत' इत्युक्तम्, अतो न दोषः । एवं
१ ( ) क्वचिन्नास्ति ।

श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । २१

तैका । एतादृशेन पुंसा कृता चापरा । एतादृश्यौ ते तत्साधिके नेत्यभिप्रायज्ञापकं समस्तं
पदम् । एतेन भगवदर्थं निरुपाधिसर्वस्वनिवेदनपूर्वकं तत्रैव स्वदेहविनियोगे प्रेम्णि जाते
सा भवतीति भावः । एतादृशस्यावान्तरफलं भवतीत्याहुः तत इति । अहन्ताममत्वात्मकः
संसारो, न तु प्रपञ्चात्मकः, तस्य ब्रह्मात्मकत्वात्, तन्निवृत्त्याऽनिष्टनिवृत्तिरुक्ता । इष्टप्राप्ति-
माहुरग्रे । स्वात्मनि प्रपञ्चे चाक्षरब्रह्मात्मकत्वेन ज्ञानम् । भगवत्सेवायामभिनिविष्टस्य
यद्यप्यनभिलषिते ते, तथापि वस्तुस्वभावाद्भवत इति भावः ॥ २ ॥
इदमेव परं ब्रह्मेति न ज्ञेयमित्याहुः परं ब्रह्म त्विति ।
परं ब्रह्म तु कृष्णो हि सच्चिदानन्दकं बृहत् ।
द्विरूपं तद्धि सर्वं स्यादेकं तस्माद्विलक्षणम् ॥ ३ ॥

श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः ।

साधननिष्कर्षमुक्त्वा तस्याग्रिमव्यवस्थां वदन्तीत्याशयेनाग्रिममवतारयन्ति एतादृशस्ये-
त्यादि । अत्रैतादृशस्येति पदेनेदं ज्ञाप्यते । यद्याधुनिकैस्तादृशाधिकारराहित्येऽपि मार्गप्र-
वर्तकाचार्योक्तप्रकारेण क्रियते, तत्तु भक्तिहंसे विधिमजानता बालेन पित्रादिशिक्षया
कृतः सन्ध्यावन्दनादिः प्रत्यवायपरिहारेण यथा आरात् कर्ममार्गीयफलोपकारी भवति,
तथैतदपि ।' 'न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छती'ति न्यायेनारादुपकरोति, न तु
साक्षात् । अतः सद्भिरुपदिष्टेन प्रकारेण शास्त्रार्थं बुद्ध्वा करणीयमिति व्याकुर्वन्ति अह-
न्तेत्यादि । तन्निवृत्त्येति । अहन्ताममत्वात्मकसंसारनिवृत्त्या । अग्रे इति । ब्रह्मबोधनपदे ।
तस्य स्वरूपं स्वात्मनीत्यादिनोक्तम् । एतस्यावान्तरफलस्योक्तेः प्रयोजनमाहुः भगवदि-
त्यादि । अभिनिविष्टस्येति । 'स्नेहाद्रागविनाशः स्यादासक्त्या स्याद्गृहारुचिः । गृहस्थानां
बाधकत्वमनात्मत्वं च भासते । यदा स्याद्व्यसनं कृष्णे कृतार्थः स्यात्तदैव ही'ति रीत्या
जातव्यसनस्य तदुत्तरं भक्तिवृद्धिमत्तः । तथाच क्रियमाणा बाह्याभ्यन्तरी यथोक्तरूपा
जाता अतः परं परमं फलं साधयिष्यतीति तेन निश्चेयमिति ज्ञापनायेदमवान्तरफलमु-
क्तमित्यर्थः ॥ २ ॥
एतस्मिन् सम्पन्ने दुःखनिवृत्त्योक्तविधज्ञानमेव मानसीकाष्ठां मन्येत, तदा भक्ति-
मार्गीयं फलं न भवेत्, अतस्तन्निवृत्त्यर्थं फलनिष्कर्षं प्रमेयनिष्कर्षं च सार्धनवभिर्वक्तुं
प्रथममवान्तरप्रमेयं वदन्तीत्याशयेनाग्रिममवतारयन्ति इदमेवेत्यादि । इदमिति । जीव-
स्वरूपमक्षरं वा । व्याकुर्वन्ति यशोदेत्यादि । अत्र 'परं ब्रह्म तु कृष्णो ही'ति मूलम् । तत्र
तुः पूर्वव्यावर्तकः । हिर्हेतौ । तथा च यतो हेतोः । 'कृषिर्भूवाचकः शब्दः' 'गोपवेशम-
भ्रामम्' 'गोपवेशो मे पुरुषस्तदा आविर्बभूवे'त्यादितापनीयश्रुतिभिः 'कृष्णस्तु भगवान्
स्वय'मित्यादिस्मृतिभिरुपनिषत्सु गोपालतापिनीति नाम्ना च 'यशोदोत्सङ्गललितः कृष्णः
अक्षरात्परतः परः । एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते । परं ज्योतिरुपसंपद्य

२२ सिद्धान्तमुक्तावली ।

यशोदोत्सङ्गलालितो, न त्वन्य इति ज्ञापनाय मूलनामोक्तम् । अत्र भेदकं रूपमाहुः
सच्चिदिति । एते हि भगवद्धर्मात्मकाः, प्रकटतन्नित्यात्मकमक्षरं ब्रह्म । अत एव प्रपञ्चस्त-
दात्मक इति सच्चिदानन्दात्मकत्वं तस्मिन्नुच्यते । एतावान्परं विशेषो, जडे सदंशः प्रकटः,
इतरावाच्छन्नौ; जीवे त्वाद्यौ प्रकटौ, आनन्दांशस्तिरोहितः; परमात्मनि त्रयं स्फुटमिति ।
कप्रत्ययेन गणितानन्दत्वमेव, न तु पुरुषोत्तमवत् पूर्णानन्दत्वमिति ज्ञाप्यते । कृष्णशब्देनैव
पुरुषोत्तमस्वरूपं निरूपितमित्यक्षरस्वरूपं निरूपयन्ति द्विरूपमिति । तत् अक्षरं ब्रह्म ।

श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः ।
स्वेन रूपेणाभिनिष्पद्यते । स उत्तमः पुरुष' इत्यादिश्रुतेः, 'यस्मात्क्षरमतीतोऽहमक्षराद-
पि चोत्तमः ।' 'उत्तमः पुरुषस्त्वन्यः' 'परं ब्रह्म परं धामे'त्यादिस्मृतेश्च परं ब्रह्म, नत्वन्यः
'वृष्णीनां वासुदेवोऽस्मि' 'रामकृष्णाविति भुवो भगवानहरद्भर'मित्याद्युक्तो विभूत्यादि-
रूपो न इति ज्ञापनाय मूलस्य परब्रह्मणो नामोक्तम् । यदि हि सोऽवतारः स्यात्, तदा
यदुवंशोद्भवो मुख्य इति यादवतापिन्युपनिषत्स्यात्, गोपरूपेण च नाविर्भवेदिति ।
अतस्तत्रावतारत्वं न ज्ञेयम् । अक्षरं च परब्रह्मत्वेन न ज्ञेयमित्यर्थः । ननु 'सच्चिदान-
न्दरूपाय कृष्णायाक्लिष्टकर्मणे' इति तापनीयश्रुतिवत् 'सत्यं ज्ञानमनन्तं ब्रह्मे'ति तैत्तिरी-
येपि श्रावणादक्षरकृष्णयोः स्वरूपलक्षणैक्यादभेद एवाङ्गीकार्य इत्याशङ्कां निवारयन्ती-
त्याशयेनाग्रिमभवतारयन्ति अत्रेत्यादि । सच्चिदानन्दकं बृहदित्यत्रापि देहलीदीपवत्
हिशब्दः सम्बध्यत इत्याशयेन व्याकुर्वन्ति एते हीत्यादि, ज्ञाप्यत इत्यन्तम् । हिर्हेतौ ।
एत इति । सच्चिदानन्दाः । कप्रत्ययश्च प्रतिकृतौ 'इवे प्रतिकृता'वित्यनेन भवति ।
कुत्सापक्षेऽपि प्रतिकृतित्वादेव हीनताद्योतनम् । तथा चानन्दमीमांसायां शतानन्दिभ्य
आधिक्येपि 'ते ये शतं प्रजापतेरानन्दाः, स एको ब्रह्मण आनन्द' इति गणनापरिच्छेदस्य
तैत्तिरीये श्रावणात्, बृहदारण्यके च 'ते ये शतं प्रजापतिलोक आनन्दाः, स एको ब्रह्मलोक
आनन्द' इति तदानन्दिनो लोकत्वेन विशेषितत्वात्, ततः परस्य च 'यतो वाचो निव-
र्त्तन्ते अप्राप्य मनसा सहे'त्यनेनापरिच्छिन्नानन्दत्वश्रावणात्तयोः स्वरूपैक्येपि भेद एव
पर्यवस्यति । इदं यथा तथा समन्वयाध्याये अदृश्यत्वाद्यधिकरणे प्रपञ्चितम् । तेनाभेदोऽ-
प्यमित्रादिवत् भेदविरुद्धसम्पद्रूपस्तादात्म्य एव पर्यवस्यति । तेनाक्षरस्य पुरुषोत्तमान्यून-
त्वमप्यक्षुण्णमिति तदेव भेदकमित्यर्थः । एवमत्र भगवतः कृष्णस्य परब्रह्मत्वकथनेन
फलनिष्कर्ष उक्तः ।
अतः परमवान्तरप्रमेयनिष्कर्षं वदन्तीत्याशयेनाग्रिमभवतारयन्ति कृष्णशब्देने-
त्यादि । निरूपितमिति । मुख्यप्रमेयत्वेन फलत्वेन च निरूपितम् । निरूपयन्तीति ।
अवान्तरप्रमेयत्वेन निरूपयन्ति । व्याकुर्वन्ति तदित्यादि । तत् अक्षरं ब्रह्म द्विरूपम् ।
अथ परा, यया तदक्षरमधिगम्यते, यत्तददृश्यमग्राह्यम् । एतद्वै तदक्षरं गार्गि अस्थूल-

श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । २३
तदेव रूपद्वयं विशदयन्ति सर्वं स्यादिति । प्रपञ्चरूपेणाविर्भूतमेकमित्यर्थः । एकं रूपं
तस्मात् प्रपञ्चरूपात् एकरूपत्वेन श्रुतिप्रतिपाद्यत्वेन ज्ञान्युपास्यत्वेन तन्मुक्तिस्थानत्वेन
पुरुषोत्तमाधिष्ठानत्वादिभिर्विलक्षणमित्यर्थः । न च विरुद्धधर्मभेदोत्र शङ्कनीयः । उभयो-
र्धर्मयोरेकत्र प्रमाणसिद्धत्वेन विरोधाभावात् । विरुद्धधर्माश्रयत्वस्य ब्रह्मणि 'तदेजति
तन्नैजती'त्यादिश्रुतिभिर्निरूप्यमाणत्वात् । लोक एव विरोधः शङ्कनीयो, नत्वलौकिके
ब्रह्मणि । इदं यथा तथा ब्रह्मसूत्रभाष्ये निरूपितमिति नात्र प्रपञ्च्यते ॥ ३ ॥
विरोधपरिहाराय स्वसिद्धान्तं वक्तुं परमतान्याहुः अपरमिति ।
अपरं तत्र पूर्वस्मिन् वादिनो बहुधा जगुः ।
मायिकं सगुणं कार्यं खतन्त्रं चेति नैकधा ॥ ४ ॥
वेदमतादपरं भिन्नं मतं पूर्वस्मिन् प्रपञ्चरूपेणाविर्भूते । तत्र अक्षरे ब्रह्मणीत्यर्थः ।
श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः ।
मनण्वि' त्यादिश्रुतिषु, 'अक्षरं ब्रह्म परम'मित्यादिस्मृतिषु च यदुक्तं, तत् द्विप्रकारकं
कथमित्याकाङ्क्षायामाहुः तदेवेत्यादि । एकपदं देहलीदीपवदग्रिमेऽपि सम्बध्यत
इत्याशयेनाहुः एकं रूपमित्यादि । अत्र पुरुषोत्तमाधिष्ठानत्वं 'तदक्षरे परमे व्योमन्नि'ति
श्रुतौ, आदिपदोक्तं चरणादिरूपत्वं च 'ब्रह्म पुच्छं प्रतिष्ठे'ति श्रुतौ स्फुटम् । शेषं
'क्व परे'त्युक्तश्रुतेर्ज्ञेयम् । तथाचैवं मूलयोजना । हि यतो हेतोः, सर्वं स्यादेकं
तस्माद्विलक्षणमेकमतो द्विरूपमिति । ननु रूपद्वयस्येतरेतरवैलक्षण्येन भेदे रूपिण ऐक्यं न
प्रमातुं शक्यत इत्याकाङ्क्षायामाहुः नचेत्यादि, ब्रह्मणीत्यन्तम् । भेद इति, रूपिणो
भेदः । अत्रेति, अस्मिन्मते । तथा च लोकतः प्रमातुमशक्यत्वेऽपि श्रुतितः प्रमातुं
शक्यत इत्यर्थः । ननु लोकविरोधे श्रुतेः स्तावकत्वं कल्पनीयमित्यत आहुः इदं यथे-
त्यादि । श्रुतेः स्तुतिपरत्वमुपचारपरत्वं च वारयितुमेव ब्रह्मसूत्रप्रवृत्तेर्भाष्ये प्रतिपादित-
त्वात्तत्र स्तावकत्वादिकं न कल्पयितुं शक्यमित्यर्थः ॥ ३ ॥
ननु 'एषाऽविद्या जगत्सर्व'मिति नृसिंहतापनीयवाक्यावलम्बनेन मायावादो, 'यस्त-
न्तुनाभ इव तन्तुभिः प्रधानजैः स्वभावत'इत्यादिवाक्यावलम्बनेन साङ्ख्यादिवादः प्रवृत्त
इति कथं तन्मूलश्रुतिविरोधपरिहार इत्याशङ्कायां वदन्तीत्याशयेनाग्रिममवतारयन्ति विरोध-
परीत्यादि । व्याकुर्वन्ति वेदेत्यादि । वादिनो बहुधा जगुरित्यर्थः । तथा च श्रुतितात्पर्यस्य
तत्र प्रकारान्तरेण सत्त्वात्तेषां भिन्नत्वमित्यर्थः । तदेतद्बोध्यितुं मतप्रणेतॄनाहुः मायिकमि-
त्यादिना । मायिकमिति, मायोपादानकं सगुणेश्वरकर्तृकम् । एवमग्रेऽपि तत्तन्मत्तरीत्या
बोध्यम् । साङ्ख्यपदं पातञ्जलानामप्युपलक्षकम् । नैयायिकपदं च वैशेषिकानाम् । वेद-
बाह्यमतानीति चतुर्विधबौद्धार्हतलोकायतिकवामशाक्तादिमतानि । मूले इति नैकधेति ।
इतिः प्रकारे नैकधेति बहुधापदोक्तार्थस्य निगमनम् ॥ ४ ॥