षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 166, कुल 408 में से
संदर्भ में पढ़ें१४ सिद्धांतमुक्तावली ।
अथ जीवस्वरूपं तन्मुक्तिप्रकारं चाहुः आत्मनीति ।
आत्मनि ब्रह्मरूपे तु छिद्रा व्योम्नीव चेतनाः ॥ १२ ॥
उपाधिनाशे विज्ञाने ब्रह्मात्मत्वावबोधने ।
गङ्गातीरस्थितो यद्वद्देवतां तत्र पश्यति ॥ १३ ॥
तथा कृष्णं परं ब्रह्म स्वस्मिन् ज्ञानी प्रपश्यति ।
संसारी यस्तु भजते स दूरस्थो यथा तथा ॥ १४ ॥
अपेक्षितजलादीनामभावात्तत्र दुःखभाक् ।
तस्माच्छ्रीकृष्णमार्गस्थो विमुक्तः सर्वलोकतः ॥ १५ ॥
आत्मानन्दसमुद्रस्थं कृष्णमेव विचिन्तयेत् ।
लोकार्थी चेद्भजेत्कृष्णं क्लिष्टो भवति सर्वथा ॥ १६ ॥
क्लिष्टोऽपि चेद्भजेत्कृष्णं लोको नश्यति सर्वथा ।
आत्मविषय उच्यत इति शेषः । जीवा ह्यणवोऽक्षरात्मकाः, तदात्मकत्वम-
विद्यान्तरायभूतया न विदन्ति । तेन संसारमापद्यन्ते । इदमेवोपाधिरूपत्वं तस्याः, न
तु तत्कृतं जीवत्वम् । अणुत्वबोधनार्थं दृष्टान्तः । व्योम्नि यथोपाधिभिः क्षुद्रैः छिद्राणीव
प्रतीयन्ते, तथात्मनि क्षुद्रत्वादयो धर्माः प्रतीयन्ते न तु ब्रह्मधर्मा इति बोधनार्थं च ।
तेषां मध्ये यं जीवं येन प्रकारेण प्रभुरुदिधीर्षुर्भवति, तत्प्रकारकगुरूपदेशादिभिरवि-
द्यालक्षणोपाधेर्ब्रह्मात्मकत्वावबोधनप्रतिबन्धकस्याविद्यात्मकस्य नाशे ब्रह्मात्मकत्वावबोधन-
लक्षणे विज्ञानेऽनुभवे सम्पन्ने पुरुषोत्तमाविर्भावयोग्यता तस्मिन् जाते स्वात्मनि तं प्रक-
र्षेण पश्यतीत्यर्थः । तस्य सर्वस्वरूपो हरिरेवेति न तदतिरिक्तमपेक्षते । भजनोपयोग्यर्थापे-
क्षायामपि प्रभुणैव सर्वं सम्पद्यत इति न कदाचिद्दुःखी भवति । एतज्ज्ञापनाय दृष्टान्तः ।
यस्तु प्रपञ्चासक्तो गुरूपदेशमात्रेण भजने संसारनिवृत्तिहेतुत्वं ज्ञात्वा भजते, न तु ब्रह्म-
भावसम्पत्त्या पुरुषोत्तमाविर्भाववान्, स तु गङ्गातो दूरस्थो यथा तां भजते, तत्रापेक्षितत-
जलाप्राप्त्या दुःखी भवति, तथा स्वयं भक्तिमार्गस्थ इति साक्षात्स्वरूपसम्बन्ध्यर्थापेक्षायां
श्रीमत्कल्याणरायकृतविवृत्तिटिप्पणी ।
श्रीकृष्णो मूलभूतः पुरुषोत्तमोऽक्षरं तत्पदं तस्मात्प्रपञ्चः समुद्रात्तरङ्गवत् श्रीकृष्ण एव स्वे-
च्छया सर्वं करोति, सर्वरूपश्च भवति, तस्मादेव सर्वं प्राप्यते इति ब्रह्मवादप्रकारः ।
अनेन कृष्णे सदानन्दे बुद्धिविधीयतां निवेश्यतामित्यर्थः । छिद्रा व्योम्नीति । व्योम्नि
यथा क्षुद्रैरुपाधिभिः छिद्रप्रदेशाः प्रतीयन्ते, तथाऽविद्यातद्धर्मैरक्षरे चेतना अपि प्रतीयन्त
इत्यर्थः । उपाधिनाश इति सार्धश्लोकेन ज्ञानिभक्तावस्थोक्ता । भजनप्रकारमाहुः तस्मा-
दिति । भक्तिमार्गीयो भूत्वा भजने लोकानुरोधं त्यक्त्वा बाललीलादिषु यैव लीला स्वस्या-
त्यन्तं रोचते तल्लीलासहितं कृष्णमेव, नत्ववतारान्तरमपि विशेषेण चिन्तयेदित्यर्थः ।
तदभावे बाधकमाहुः लोकार्थी चेदिति । मर्यादास्थावापि ज्ञानिभक्ताविति । अत्र ज्ञानी