षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 170, कुल 408 में से
संदर्भ में पढ़ें१८ सिद्धान्तमुक्तावली ।
तन्निरासाय स्वसिद्धान्तरूपं शास्त्रार्थनिश्चयं वक्ष्यामीत्यर्थः । तमेवाहुः कृष्णसेवेति ।
फलात्मकनामोक्त्या स्वतः पुरुषार्थत्वेन सेवाकृतिः स्वसिद्धान्तो, न त्वन्यशेषत्वेनेति
ज्ञाप्यते । सेवा हि सेवकधर्मः । तदुक्त्या जीवानामशेषाणां सहजदासत्वं ज्ञापितम् ।
श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः ।
इति । शास्त्रं काण्डद्वयात्मको वेदः, तदर्थनिश्चायका वेदान्ता वा । अर्थः प्रयोजनं तात्पर्यं
च, तद्विषयके सन्देहे । तथा च तद्वेदप्रयोजनविषयके तत्तात्पर्यविषयके च संशये जाते
तन्निरासाय तथेति भावः । स्वसिद्धान्तस्य वेदार्थनिश्चयरूपत्वं च । ‘भगवान् ब्रह्मका-
त्स्न्र्येन त्रिरन्वीक्ष्य मनीषया । तदध्यवस्यत्कूटस्थो रतिरात्मन् यतो भवे’दिति द्वितीय-
स्कन्धवाक्यात् । ‘वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिनः । तेषां विकल्पप्राधान्यमुताहो
एकमुख्यता ।’ ‘भवतोदाहृतः स्वामिन् भक्तियोगोऽनपेक्षितः । निरस्य सर्वतः सङ्गं
येन त्वय्याविशेन्मन’ इत्युद्धवप्रश्ने, ‘धर्ममेके यशश्चान्ये कामं सत्यं शमं दमम् । अन्ये
वदन्ति वै स्वार्थमैश्वर्यत्यागभोजनम् । केचिद्यज्ञतपोदानं व्रतानि नियमान् यमान् ।
आद्यन्तवन्त एवैषां लोकाः कर्मविनिर्मिताः । दुःखोदर्कास्तमोनिष्ठाः क्षुद्रानन्दाः शुचा-
र्पिताः । मय्यर्पितात्मनः सभ्यङ्गिरपेक्षस्य सर्वतः । मय्यात्मना सुखं यत्तत्कुतस्तद्विषयात्म-
ना’मित्येकादशस्कन्धीयभगवद्वाक्यात् । ‘सर्वं खल्विदं ब्रह्म’ति श्रुते’र्ब्रह्मविद्याश्रुतेश्चे’-
वगन्तव्यम् । एवं प्रतिज्ञावाक्यव्याख्यानेनाचार्याणां सिद्धान्तस्य वेदार्थनिष्कर्षरूपत्वं
बोधयित्वा पूर्वं साधननिष्कर्षं वदन्तीत्याशयेनाग्रिमवाक्यमवतार्य व्याकुर्वन्ति फलात्म-
केत्यादि । ‘कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभि-
धीयते ।’ ‘पापकर्षणो’ इति श्रुतेः कृष्णपदं परब्रह्मनामत्वेनावगतम् । परं ब्रह्मैव च
‘ब्रह्मविदाप्नोति पर’मिति श्रुत्या भूमविद्योक्तनित्यसुखनिरवधिसुखरूपतया च परमफल-
त्वेनानन्दमयाधिकरणादौ निर्णीतम् । अतः कृष्ण इति फलात्मकस्य भगवतो नाम,
तदुक्त्या तत्समभिव्याहारेण तथा सेवाकृतिः स्वसिद्धान्तः । ‘सालोक्यसार्ष्टिसामीप्यसा-
रूप्यैकत्वमप्युत । दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः । स एव भक्तियोगाख्य
आत्यन्तिक उदाहृत’ इति वाक्योक्तभक्तिलक्षणा सेति सिद्धान्त इति ज्ञाप्यत इत्यर्थः ।
भक्तिपदमनुक्त्वा यत्सेवापदमुक्तं तत्तात्पर्यमाहुः सेवा हीत्यादि । जीवानाम्, ‘एवं
पञ्चविधं लिङ्गं त्रिवृत्षोडशविस्तृतम् । एष चेतनया युक्तो जीव इत्यभिधीयत’ इति
प्राचीनबर्हिषं प्रति नारदवाक्याद्देहविशिष्टानां चेतनानाम् । ‘सर्वयोनिषु कौन्तेय मूर्तयः
प्रभवन्ति याः । तासां ब्रह्म महद्योनिरहं बीजप्रदः पिते’ति गीतावाक्याद्भगवज्जन्यत्वेन
तत्पोष्यत्वम्, तेन सर्वेषां तेषां सहजदासत्वं गर्भदासत्वं ज्ञापितम् । तेनासुराणां
याऽधोगतिः, सापि ‘आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनी’त्यत्र मूढा इति विशेषणेन
दासधर्माकरणादेवेति सिध्यति । अत एव ‘देवोऽसुरो मनुष्यो वे’ति प्रह्लादवाक्ये भजना-
१. ‘’ चिह्नान्तर्गतं पुस्तकद्वये नास्ति । २ भूमविद्येतिपाठः ।