षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 406, कुल 408 में से
संदर्भ में पढ़ें६६ सिद्धान्तरहस्य ।
ब्रह्मसम्बन्धकरणात्सर्वेषां देहजीवयोः ।
सर्वदोषनिवृत्तिर्हि दोषाः पञ्चविधाः स्मृताः ॥ २ ॥
निर्दोषं हि समं ब्रह्माहम्, तस्मिन् सम्बन्धस्य करणात् साधकतमात् सद्यपञ्चा-
क्षरकथनात् । अंशत्वेपि 'पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्यया'विति भक्ति-
मार्गीयात्मसमर्पणपरपर्यायनिवेदनद्वारा सेवकत्वकरणादित्यर्थः । ननु केषां तत्करणमिति
चेत्, अत्राह सर्वेषामिति । दैवमध्ये उच्चनीचानामपि स्त्रीपुंनपुंसकानाम् । ननु तत्र देहे-
न्द्रियान्तःकरणप्राणजीवसत्त्वात् कुत्र तत्करणमित्यत्राह देहजीवयोरिति । प्राणेन्द्रियान्तः-
करणोपचिते देहे जीवेपि । तदा किं भविष्यतीत्याशङ्कायामाहुः सर्वदोषनिवृत्तिर्हीति ।
ब्रह्म हि निर्दोषं सममिति तत्र सम्बन्धकरणे सा न्याय्येति हिशब्देन सूच्यते । ननु के ते
दोषा इत्याकाङ्क्षायामाहुः दोषाः पञ्चविधाः स्मृता इति ॥ २ ॥
ननु किमाख्या तेषाम्, तत्राह सहजा इत्यादिन्त्रिभिः पादैः ।
सहजा देशकालोत्था लोकवेदनिरूपिताः ।
संयोगजाः स्पर्शजाश्च न मन्तव्याः कथञ्चन ॥ ३ ॥
एते श्रीगोकुलेशोत्सवादिभिर्विवृता एवेति न प्रतन्यन्ते । नन्वेते कथं चिन्त्या इति
तत्राह न मन्तव्याः कथञ्चनेति । सत्त्वेन न मन्तव्याः, किन्तु समूलं निवृत्ता इत्यग्रे तु
सावधानतया स्थेयमिति भावः ॥ ३ ॥
ननु शास्त्रेषु दोषनिवृत्त्यर्थं भूतशुद्ध्यादिरूपं प्रकारान्तरमपि श्रूयत ( क्रियते )
इति चेत्, तत्राह अन्यथेति ।
अन्यथा सर्वदोषाणां न निवृत्तिः कथञ्चन ।
असमर्पितवस्तूनां तस्माद्वर्जनमाचरेत् ॥ ४ ॥
प्रकारान्तरेणैतदुक्तसर्वदोषाणां कथञ्चन न निवृत्तिः, किन्तु यथाकथञ्चित् केषा-
ञ्चिदेवेत्यर्थः । ननु स्वस्याहन्तास्पदानां सधर्माणां देहेन्द्रियप्राणान्तःकरणात्मनां ब्रह्मणि
सम्बन्धे समर्पणाख्ये कृतेप्यवशिष्टानां ममतास्पदानां वस्तूनामत्तथात्वे दोषतादवस्थ्यमेवे-
त्याशङ्कायामाह असमर्पितेति । तेषामपि समर्पणं यथायोग्यं विधेयमित्यर्थः ॥ ४ ॥
ननु स्वयमेव कृतं कथं तत् सेत्स्यतीत्यत्राह निवेदिभिरिति ।
निवेदिभिः समर्प्यैव सर्वं कुर्यादिति स्थितिः ।
न मतं देवदेवस्य सामिभुक्तसमर्पणम् ॥ ५ ॥
आत्मनिवेदिभिर्महापुरुषैर्द्वारा ( गुरुभिरिति बहुत्वं पूज्यत्वेन ज्ञेयम् ) सर्वं दारा-
गारपुत्राप्तवित्तेहपरादिकं समर्प्य कुर्यात्, स्वान्नादिकं समर्प्य गृह्णीयादिति भक्तिमार्गमर्यादा ।
३. वैष्णवत्वकरणात् । ४. सधर्मक.