सामग्री पर जाएँ
सर्वकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 405, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 405

श्रीशाचार्यमतानुवर्तिकृतटीकासमेतम् । ६५
शिष्टसम्प्रदायसिद्धपद्धतिके सन्मार्गीयनिवेदनप्रकारे दूषणलेशोपि नास्तीति निर्दुष्टः
पन्था अस्मदाचार्याणामार्याणां च ।
गोवर्धनेशपदपङ्कजलब्धिहेतुः श्रीवल्लभैर्निगदितात्मनिवेदनाख्या ॥
श्रीविठ्ठलप्रकटिता हरिभक्तिरेषा चर्तुं वाञ्छितफलानयमलाश्रितानाम् ॥ १ ॥
इति श्रीमद्गोवर्धनधरश्रीवल्लभाचार्यवरश्रीविठ्ठलेश्वरचरणानुचरसेवकेन
लालूभट्टोपनामविदितदीक्षितबालकृष्णेन विरचिता सिद्धान्त-
रहस्यटीका सम्पूर्णा ।
श्रीकृष्णाय नमः ।
सिद्धान्तरहस्यम् ।
श्रीशाचार्यमतानुवर्तिकृतसंवादविवृतिसमेतम् ।
श्रीवल्लभं नमस्कृत्य तन्मुखोक्तीर्विभाव्य च ।
क्रियते भक्तिसिद्धान्तरहस्यविवृतिर्मया ॥ १ ॥
अथ श्रीगोपीजनवल्लभः क्वचिच्छ्रावणस्यामले पक्षे एकादश्यां महानिशि प्रादुर्भूय
भगवान् अनन्तशयनस्वरूपे१ समर्पितं सितोपलखण्डं स्ववदने निक्षिप्य तदर्पितपवित्रमालिकाः
परिधाय प्रोवाच 'श्रीवल्लभ, भवत्प्राकट्यं ममैव स्वास्यात् कृतमस्ति, तेनात्मनिवेदनद्वारा
जीवोद्धारणे विलम्बो न कार्य' इति । तदनु कीदृशं तदिति प्रश्ने, भगवान् सगद्यं 'तवा-
स्मी'तिपूर्वकं स्वसिद्धान्तरहस्यं समुपदिष्टवान् । तथाहि । एकदा श्रीवल्लभाचार्या धृतव्रताः
श्रीगोकुले श्रीयमुनातीरे समुपासीना भगवन्तं श्रीगोपीजनवल्लभं साक्षाद् दृष्टवन्तः । तत्र
यदनुभवन्ति स्म, तदेव स्वयमावेदयन्ति श्रावणस्येत्यादिश्लोकैरष्टभिः सार्धैः । धर्मधर्म्य-२
भिप्रायेण दृष्टान्तेन च । प्रथमं प्रतिज्ञावाक्येनाहुः श्रावणस्येति ।
श्रावणस्यामले पक्ष एकादश्यां महानिशि ।
साक्षाद्भगवता प्रोक्तं तदक्षरश उच्यते ॥ १ ॥
साक्षादाविर्भूतेन भगवता प्रोक्तं तदक्षरश उच्यते ॥ १ ॥
ननु भगवन्, सर्वदोषनिधाने कलौ तथाविधदेहात्मनामेषां जीवानां कथं कस्मात्
समुद्धार इति पृष्टो भगवानाह ब्रह्मसम्बन्धकरणादिति ।
१. शालिग्रामे । २. षड् गुणा धर्मीः, सप्तमो धर्मों, श्रीभगवदभिप्रायेण ।
सि० र० ९