षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 404, कुल 408 में से
संदर्भ में पढ़ें६४ सिद्धान्तरहस्यम् ।
भगवदीयत्वबुद्धिरुपपद्यते । अतः सर्वैरेव स्वस्वाध्यासनिवृत्तये पृथक् पृथङ्निवेदनं कार्यम्,
सर्वानैव जीवानधिकृत्य निवेदनस्य विहितत्वात् । ‘सख्यमात्मनिवेदनं नृणामयं परो धर्मः
सर्वेषां समुदाहृत’ इति सप्तमस्कन्धे युधिष्ठिरं प्रति नारदवाक्यात् । अतः शास्त्रसिद्ध-
त्वात् पृथक्पृथगनुष्ठेयम् । तथाच विशेषतो भगवदीयत्वं सेत्स्यति, अधिकस्याधिकं
फलमिति न्यायात् । यथार्जुनस्य वैष्णवत्वेन पूतत्त्वेपि पौत्रपरीक्षिद्धत्तया विशेषतः पूत-
त्वम् । ‘त्रिःसप्तभिः पिता पूत’ इति प्रल्हादं प्रति भगवद्वाक्यात् । यस्य वंशे वैष्णव
उत्पन्नः स पवित्रो भवत्येवेति सर्वसत्सम्मतम् । स्वयं वैष्णवो वैष्णववंशकर्ता चेद्विशेषतः
पूतो भवति । अधिकं तत्रानुप्रविष्टम्, न तु तद्धानिरिति न्यायात् । एवं निवेदनेपि ज्ञेयम् ।
ननु अज्ञानात्केवलमन्त्रोच्चारणेन कथं निवेदनसिद्धिरिति चेत्, सत्यम् । ज्ञानाभावेन
केवलं मन्त्रोच्चारणेनापि धर्मसिद्धेर्बालादावुपलभ्यमानत्वात्तन्यायेनात्रापि निवेदनसिद्धि-
रित्याकलितव्यम् । बालो हि दानादिधर्मं कुर्वन् पित्रादिशिक्षया दातुमहं समुत्सृज
इत्यादिपदमुच्चारयन् स्वरूपमजानन्नपि दानफलमाप्नोति । तथात्र स समर्पणगद्यपञ्चाक्ष-
रमन्त्रोच्चारणे समर्पयामीति पदमुच्चारयंस्तत्स्वरूपमजानन्नपि समर्पणफलमवाप्नोति । यथा
वा रोगाद्यातुरकृतधर्मे मूर्खकृतधर्मे शब्दोच्चारणमात्रेण सिद्धिः, एवमुच्चारणमात्रेण निवे-
दनसिद्धिरिति मङ्गलमखिलम् । ननु एकगुरूपदेशग्रहणे दम्पत्योः परस्परं भ्रातृत्वाद्या-
पत्तिः, तद्द्विया गुरुपार्थक्यमेव कर्तव्यम्, न त्वेकगुरुत्वमिति चेत्, न । ‘आचारो धर्ममार्गश्च
गुरुर्मन्त्रश्च देवताः । दम्पत्यपत्यभृत्येषु एकीकृत्य महत्फल’मिति साधनदीपिकास्थ-
पाद्मोत्तरखण्डवाक्यात् । देहजसम्बन्ध एव तथात्वेन पारमार्थिकेस्मिन्निवेदनमन्त्रो-
पदेशसम्बन्धे गुर्वैक्येपि दोषाभावात् । अयमेव गुरुत्वरूपः सम्बन्धो न लौकिकः,
किन्तु भगवत्प्राप्तिसाधनत्वात् अलौकिकः, अलौकिकसम्बन्धस्य लौकिकपदार्थे दोषजन-
कत्वं नास्त्येव । अतो नैकगुरुत्वे दम्पत्योर्भ्रातृभगिनीत्वापातः । ‘अन्नदाता भयत्राता
पत्नीतातस्तथैव च । विद्यादाता जन्मदाता पञ्चैते पितरो नृणा’मिति ब्रह्मवैवर्तीयब्रह्मखण्ड-
दशमाध्याये सूतवाक्ये पितृत्वादिविधौ पितृवत्पूज्यतामात्रमभिप्रेतम् । अन्यथान्नदात्रा-
दीनां पितृत्वेन दम्पत्योरेकपोषकत्वे एककर्तृकभयत्राणे च भ्रातृभगिनीभावापत्तिरिति
विवाहवैय्यर्थ्यमेव स्यात् । एवं गुरावपि पितृवत्पूज्यतामात्रमभिप्रेतम् । न त्वेकगुरुकत्व-
सम्बन्धे भ्रातृत्वमतो दम्पतिभ्यां भक्तिमार्गे गुर्वैक्यकरणं न दोषायेति दिक् । किञ्च ।
भारते आश्वमेधिके उत्तङ्कोपाख्याने गौतमेन उत्तङ्काय स्वशिष्याय स्वसुता परिणायिते-
त्युक्तम् । ‘इत्थं च परितुष्टं मां विजानीहि भृगूद्वहे’त्यारभ्य ‘ततस्तां प्रतिजग्राह युवा
भूत्वा यशस्विनी’मित्यन्तेन । कार्तिकमाहात्म्ये च ‘अपुत्रः स च शिष्याय चन्द्रनाम्ने
ददौ सुता’ मित्युक्तम् । अतो ज्ञायते गुरुपुत्र्या विवाहेपि दोषो नास्ति । गुरुपुत्र्यां
गुरुतल्पातिदेशो व्यभिचारेण तथात्वे विवक्षितो, न तु विवाहे । अन्यथोत्तङ्के चन्द्रनाम्नि
च गुरुतल्पगामित्वं स्यात्, अत उक्तैव व्यवस्था सुधीभिरादर्तव्या । एवं भक्तिमार्गीय-