षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 403, कुल 408 में से
संदर्भ में पढ़ेंश्रीदीक्षितलालूभट्टकृतटीकासमेतम् । ६३
अतो ‘गङ्गात्वं सर्वदोषाणा’मित्यत्र सर्वदोषपदे बहुव्रीहिर्ज्ञेयः । तथाच सर्वदोषाणां दोष-
युक्तानां जलानां दोषनिवृत्त्या गङ्गात्वमित्यर्थो भवति । एवमिहापि निवेदनेन गतदो-
षाणां ब्रह्मत्वमाकलनीयम् । गुणदोषादिवर्णना गङ्गात्वे न निरूप्या स्यादिति ।
गङ्गात्वे इति सप्तमी । गङ्गात्वे सति निर्दोषादिवर्णना न निरूप्या स्यात् । अस्मिन्
प्रवाहे ब्राह्मणजलं पतितम्, तच्छुद्धमस्ति, रथ्याजलं निषिद्धमस्तीत्यादिरूपा गुणदोष-
वर्णना गुणदोषकथा न निरूप्या, किन्तु सर्वमेव जलं गङ्गामिलितं गङ्गैवेति निर्धारः ।
तद्वदत्रापीति । अत्रापि निवेदनेपीत्यर्थः । निवेदने हि सर्वस्य ब्रह्मत्वं तुल्यम्, न वर्णाश्र-
मादिगुणदोषविचारः । अपि तु सर्वस्य भगवदङ्गीकृतत्वमिति भावः ।
निखिलोवनिषद्ध्येयो बालकृष्णो व्रजाधिपः ।
तदङ्घ्रौ बालकृष्णेन मया सर्वं समर्पितम् ॥ १ ॥
निवेदनविचारः ।
अथेदं विचार्यते किं नाम निवेदनम्, किं प्रयोजनकम्, कतिप्रकारकं चेति ।
तत्र ‘दारान् सुतान् गृहान् प्राणान् यत्परस्मै निवेदन’मित्यत्र दारादयो निवेद्यत्वेन
निर्दिष्टाः । ‘एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिना’मित्यात्मपदेन देहजीवौ निवेद्यत्वे-
नोक्तौ, आत्मशब्दस्योभयवाचकत्वात् । तथा च आत्मनो जीवस्य देहेन दारादिभिः
सह भगवत्सेवोपयोगिकरणमात्मनिवेदनम् । तच्च त्रिविधम् । ‘अज्ञानादथवा ज्ञानात्कृत-
मात्मनिवेदनम् । यैः कृष्णसात्कृतात्प्राणैस्तेषां का परिवेदने’ति नवरत्नग्रन्थात् ।
तत्र कृष्णसात्कृतात्प्राणैर्यदात्मनिवेदनं तदुत्तमम् । भगवत्स्वरूपस्वस्वरूपनिवेदनस्वरूप-
ज्ञानपूर्वकं आत्मनिवेदनं तन्मध्यमम् । प्रेमज्ञानोभयराहित्येन केवलं पुष्टिमार्गीयगुरुमु-
खोद्गतसगद्यपञ्चाक्षरमन्त्रोच्चारणजन्यमात्मनिवेदनं तृतीयम् । एवं त्रिप्रकारके निवेदने
यदुत्तमं तत्प्रेमोत्पत्तिपश्चाद्भावि । द्वितीयं पुष्टिमार्गीयग्रन्थाध्ययनगुरूपदेशजन्यज्ञानान-
न्तरोत्पत्तिकम् । तृतीयं तु केवलं पुष्टिमार्गीयगुरुमुखोत्थसगद्यपञ्चाक्षरमन्त्रोपदेशोत्तर-
भावि । नवरत्ने अज्ञानाद्यन्निवेदनमुक्तम्, तत्पञ्चाक्षरमन्त्रोपदेशमात्रजन्यमिति बोद्धव्यम् ।
एवं त्रिप्रकारकनिवेदनस्य प्रयोजनं भगवत्सेवा । तया कृतार्थत्वम् । ‘उद्धवात्मनिवेदिनां
मयि संजायते भक्तिः कोन्योर्थोस्यावशिष्यते’ इति वाक्यात् । इह वाक्ये आत्मनिवेदना-
नन्तरं भक्तिशब्देन प्रेमसेवामुक्त्वा ‘कोन्योर्थोसावशिष्यत’ इत्यनेन कृतार्थत्वमुक्तम् ।
ननु पित्रा कृते निवेदने पुत्रस्य भगवदीयत्वे सिद्धे पुनः पुत्रेण किमर्थं निवेदनं विधेय-
मिति चेत्, सत्यम् । भगवदीयत्वेपि स्वदेहादौ स्वकीयत्वाध्यासनिवृत्तिमन्तरेण न