सामग्री पर जाएँ
सर्वकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished408 पृष्ठ

पृष्ठ 22, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 22
पृष्ठ 22 स्कैन

८ श्रीमद्यमुनाष्टकम् ।
त्प्राप्तिविलम्बश्चाऽपास्तः । अग्रे स्पष्टम् । जलदर्शनस्य भगवत्स्मारकत्वं
भावजनकत्वं च ज्ञापयितुं स्मरपितृपदम् ॥ १ ॥
श्रीहरिरायप्रणीतं टिप्पणम् ।
देहादिसम्पादनोन्मुखत्वकथनेन चेत्यर्थः । तथाच स्वप्रयत्नदोषनिवारकसम्बन्धेन
चरणरेणूनां कार्योन्मुखत्वनिरूपणेन च तदुभयमपास्तमिति भावः।सुरासुरसुपूजितेति
मूले । वस्तुतस्तु¹ सर्व्वात्मभावकामभावयुतस्वामिनीभिः पुष्पाभरणैरलङ्कृतः सन् भाव-
जनक इत्यर्थः । दार्ष्टान्तिके तु तत्पूजितत्वं दैन्यभावमानभावयुतोभयविधस्वामिनी-
पूजितत्वेन ज्ञेयम् । दैन्यभाववतीनां प्रभुप्राकट्यार्थं मानभाववतीनामनुनयकरणार्थं
तत्पूजनात् । पूजनं चाऽत्र तत्परतयाऽनुसरणमेव । दृष्टान्ते तथैव तत्सत्त्वादिति
भावः । भगवत्स्मारकत्वमिति । स्मरपितृपदे स्मरपदेन स्मरणमुच्यते । तज्जन-
कत्वं च । स्मरणं स्मर इति व्युत्पत्तेः । अत एव छान्दोग्योपनिषदि 'स्मरो वा
आकाशाद्भूय' इत्यत्र स्मरणमेव स्मरपदेनाऽभिमतम् । कामस्य त्वत्रा²ऽप्रसक्तेः³ ।
दोषनिरूपणप्रस्तावे हि तन्निरूपणं घटते । न तु सर्व्वविज्ञानायोत्तरोत्तरं भूयो निरू-
पणप्रस्तावे । तथाच श्रीमद्यमुनायामपि तादृग्भगवच्छ्रीधारकत्वोक्त्या प्रभुधर्मस्मरण-
र्जनकत्वसत्त्वेन भगवत्स्मारकत्वमिति भावः । भावजनकत्वं⁵ तु कामजनकभगव-
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
प्रकटयति । स्वदासेष्वाधुनिकेषु त्वेतदष्टकोक्तं फलं भगवदिच्छानुसारण ददती किञ्चि-
देकं द्वयं प्रकटयतीति स्तोत्रान्त्यश्लोकादवसीयते । प्रकृतमनुसरामः । अत एवेति ।
दीनबन्धुत्वसिद्धिदातृत्वाभ्यामेवेत्यर्थः। ननु दोषबाहुल्ये दैन्यस्य न दयोत्पादकत्वं लोके
दृष्टमतस्तेषु विद्यमानेषु किं स्तोत्रेणेत्याकाङ्क्षायां द्वितीयं विशेषणं विवृण्वन्ति जलेत्या-
दि । एतेनेति । मुरारिपदामन्दपदघटितेनानेनेत्यर्थः । अत्राऽसुरादिपदं विहाय
मूले जलदोषात्मकसुरपदं यदुक्तं तद्विवृतौ च यज्जलपदं तच्छ्रीभागवते 'दैत्यः
पञ्चशिरा जलादि'ति कथनादुक्तं बोध्यम् । जलपदस्य डलयोरभेदेन जडपर्यन्तत्वं
तेन तत्र भगवतस्तत्सम्बन्धिमहादोषनिवर्तकत्वमभिप्रेयत इत्याशयं गमयितुम् । तेन
दाम्भिकादीनां न निवर्तयतीति ध्वनयन्ति । तावता—'अश्रद्दधानः पापात्मा
१ वस्तुतस्त्वित्यादिग्रन्थो नास्ति क-ग-घ. २ अपीति म-घ.अ. ३ तत्राऽप्रसिद्धेरिति ग-घ. ४ प्रभुधर्म-
स्मरणजनकसत्त्वेनेति क. प्रभुस्मरजनकसत्त्वे इति ग. प्रभुस्मरणजनकसत्त्वे इति घ. प्रभुधर्मस्मरणजनकत्वेनेति ख-
ङ-च. प्रतिभाति त्वेवम् । ५ भावजनकत्वमित्यारभ्य स्पष्टमेवेत्यन्तोऽशो नास्ति किन्तु "भगवत्स्मारकत्वमिति
भाव" इतीयं पूर्वपङ्क्तिरेव "भगवत्स्मारकत्वं स्पष्टमेवे' ति रूपेण वर्त्तते ग-घ.