षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 23, कुल 408 में से
संदर्भ में पढ़ेंश्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम्। ९
कलिन्दगिरिमस्तके पतदमन्दपूरोज्ज्वला
आविर्भावप्रकारमाहुः कलिन्देति । रविमण्डलादतिदूराद्विरिमस्तके
श्रीहरिरायप्रणीतं टिप्पणम्।
च्छ्रीधारकत्वेन स्पष्टमेव । तदा स्मरपदं कामवाचकमेव । तेनाऽत्र स्मरपदेऽर्थद्वय-
मप्यभिप्रेतमित्यर्थः । तथा च यथा भगवति दृष्टे 'निरीक्ष्य रूपं यद्गोद्विजद्रुममृगा'
इति वाक्याद्भावजननं पूर्वानुभूतलीलाविशिष्टप्रभुस्मरणं तथा तादृग्भगवत्स्वरूपाया-
मेतस्यां दृष्टायामपीति भावः ॥ १ ॥
भगवत इवाऽलौकिकप्रकारेणाऽत्राऽऽविर्भाव इति ज्ञापनायाऽऽहुरावि-
र्भावप्रकारमिति । यथा भगवान् वसुदेवदेवकीसमक्षमाविर्भूतो वरदानाय, यथा
वा तपसा पूर्वानुभूतभगवद्विरहेण च तापात्मकात्तदुभयहृदयाद् यथा वा आवि-
र्भूयाऽन्यत्र केवललीलास्थाने गोकुले प्रयातस्तत्र गत्वा सर्वात्मभाववद्भक्तसंवलितो
श्रीपुरुषोत्तमप्रणीता विवृतिः।
नास्तिकोऽच्छिन्नसंशयः । हेतुनिष्ठश्च पञ्चैते न तीर्थफलभागिन' इति वाक्योक्तानां
दोषं न दूरीकरोतीति सिद्धयति । तृतीयं विवृण्वन्तस्तदेकदेशस्योत्तानार्थत्वमाहु-
रग्रे स्पष्टमिति । सुरासुरपदाभ्यां द्विविधाधिकारिणोः सुपूजितपदेन पूजाङ्गीका-
रस्य च शीघ्रं प्रतीतेस्तथेत्यर्थः । तटस्थनवकानने प्रकटो मोद आनन्दो यैस्तादृश-
पुष्पयुक्तेनाऽम्बुनेत्येवं तृतीयान्तार्थः । स्मरपितृपदेन प्रद्युम्नजनकत्वस्य शीघ्रं प्रतीते-
स्तद्वारणााय तद्विवृण्वन्ति जलेत्यादि । भगवतस्तथात्वं ' यं मां स्मृत्वा
निष्कामः सकामो भवती'ति तापनीयश्रुतेरपि सिद्धम् । पूर्वं निष्कामस्य भगव-
त्स्मरणेन भगवद्विषयकस्यैव तस्य जननात् । तत्साम्येनाऽत्राऽपि तथात्वात् । एव-
ञ्चैताभ्यां विशेषणाभ्यां यद्दोषनिवर्त्तकत्वं भावजनकत्वं चोक्तं तत्पूर्वविशेषणोक्तसि-
द्धिदातृत्वसहकारित्वायेति बोध्यम् । अनुग्रहः सर्वत्र बीजमिति न काऽपि कोऽपि
चोद्यावसरः ॥ १ ॥
ननु नदीत्वे साधारणेऽपि कथमत्रैवैष विशेष इत्याकाङ्क्षायामाधिदैविक्यां
विशेषं वक्तुं द्वितीयं श्लोकं वदन्तीत्याशयेन द्वितीयमवतारयन्त्याविरित्यादि ।
आधिदैविक्याः सृष्टेर्वेदाधारत्वं देवताविग्रहाधिकरणे 'शब्द इति चेदि'ति सूत्रस्य
भाष्ये मतान्तरापाकरणपुरस्सरं व्युत्पादितम् । रवेर्वेदात्मकत्वं च तैत्तिरीयाणां
बृहन्नारायणोपनिषदि ' आदित्यो वा एष एतन्मण्डलं तपती'त्यनुवाके श्रावितम्।
तदन्तःस्थितस्य पुरुषस्य परब्रह्मत्वं च अन्तस्तद्धर्माधिकरणे व्यासचरणैरेव निर्णी-
२