षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 21, कुल 408 में से
संदर्भ में पढ़ेंश्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम्। ७
तटस्थनवकाननप्रकटमोदपुष्पाम्बुना
सुरासुरसुपूजितस्मरपितुः श्रियं बिभ्रतीम् ॥ १ ॥
वलोकनतद्रसानुभवसर्वात्मभावादयः सकलसिद्धयो ज्ञेयाः। अत एव
नमनं मुदेपि। जलदोषात्मकसुरस्याऽरेः पदपङ्कजयोः स्फुरन्तः सेवोपयोगि-
देहादिसम्पादनेनोन्मुखा ये रेणवोऽमन्दा व्रजसुन्दरीवृन्दचरणरेणुसाहि-
त्येनाऽनलपास्त उत्कटा जलापेक्षयाऽधिका यत्र। एतेन दोषभयं भगव-
श्रीहरिरायप्रणीतं टिप्पणम्।
अत एवोक्तं प्रभुभिरेतदष्टपद्याम्-‘धारितश्रीकृष्णयुतभक्तहृदय’ इति। आदिपदाद्वि-
योगेऽप्यन्तःप्राकट्यात्क्रोशप्रतिमान्यायेन भगवदाविष्टदेहसिद्धिः, परावृत्तचक्षुषाऽन्त-
राविर्भूतप्रभुलीलावलोकनसिद्धिः, भावात्मकस्वस्वरूपेण तदात्मकतद्रसानुभवसिद्धिः,
विरहसामयिकसर्वात्मभावसिद्धिः। स च बहिर्भगवत्प्राकट्यापेक्षाराहित्येनाऽन्तरत-
द्भावानारूपो वेद्यः। एवमष्टसिद्धयो ज्ञेयाः। अत एवेति। यत एतादृशोत्कर्षवत्त्वमस्याम-
स्तीति स्फूत्तिरत एव स्वनमनसेवम्भूतश्रीमद्युनाप्राकट्येनाऽलभ्यलाभान्नमने हेतुर्मुदेवेति
मुदपीत्युक्तमित्यर्थः। जलदोषात्मकेति। भक्तानां भगवत्सम्बन्धे भगवतश्च भक्त-
सम्बन्धे जलं प्रतिबन्धकं, पारस्थिततद्ग्रांसः। तस्य च न श्रीमद्युनावन्मार्गदातृत्वम्।
तथा सति प्रतिबन्धकं न स्यात्। अतो दैत्यसम्बन्धादेवेदं जलं प्रतिबन्धकम्। अतो
न जलस्य दोषः। तस्य तूपायेनाऽपि प्रापकत्वात्। तस्माज्जले यो दोषो भगवत्प्रा-
प्तिप्रतिबन्धकरूपः स मुर एवेति तस्मिन्निवृत्ते स्वत एव भगवत्प्राप्तिरिति जलदोषात्म-
केत्युक्तम्। एतेनेति। चरणरेणुषु मुरारिसम्बन्धेन स्फुरत्पदबोधितसेवोपयोगि-
श्रीपुरुषोत्तमप्रणीता विवृतिः।
भगवत्सम्बन्धप्रतिबन्धनिराकरणेन तदनुभवयोग्यताऽनुकूलशुद्धिसम्पादकत्वञ्चभुवन-
पावनीत्वं तृतीयम्। भगवत्समानधर्मवत्त्वादनायासेन भगवत्सम्बन्धसम्पादकत्वं
तुरीयम्। भगवत्प्रियकलिनिवारकत्वं पञ्चमम्। स्वसेवनाद्रोपिकावद्भगव-
त्प्रियत्वसम्पादकत्वं षष्ठम्। तनुनवत्वसम्पादकत्वं सप्तमम्। लीलासामयिक-
प्रसुश्रमजलकणसम्बन्धसम्पादकत्वमष्टममिति। इदं च यथाधिकारं लीलास्थेषु
१ मुदेति क-ग. २ स्वरूपेनेति क-ङ. ३ एतेनेत्यारभ्य तदुभयमपास्तमिति भाव इत्यन्तो ग्रन्थः 'सुरासु-
रेत्या'रभ्य 'तथैव तत्सत्त्वादित्यान्तद्ग्रन्थात्परतो लेखकदोषात्सर्वत्र पतितः क-ख-ग-घ-ङ-अ. चपुस्तके तु
यथानिवेशमुपलब्धः, एष एव च युक्तः, व्याख्येयविवृतिक्रमानुरोधात्।