षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 208, कुल 408 में से
संदर्भ में पढ़ें५६ सिद्धान्तमुक्तावली ।
तन्नैजती'त्यादिश्रुतिभिर्निरूप्यमाणत्वात् । लोक एव विरोधः शङ्कनीयो, नत्वलौकिके
ब्रह्मणि । इदं यथा तथा ब्रह्मसूत्रभाष्ये निरूपितमिति नात्र प्रपञ्च्यते ॥ ३ ॥
विरोधपरिहाराय स्वसिद्धान्तं वक्तुं परमतान्याहुः अपरमिति ।
अपरं तत्र पूर्वस्मिन् वादिनो बहुधा जगुः ।
मायिकं सगुणं कार्यं स्वतन्त्रं चेति नैकधा ॥ ४ ॥
वेदमतादपरं भिन्नं मतम् । पूर्वस्मिन् प्रपञ्चरूपेणाविर्भूते । तत्र अक्षरे ब्रह्मणीत्यर्थः ।
मायिकमिति हि मायावादिनः । सगुणं गुणकार्यमिति साङ्ख्याः । कार्यं द्व्यणुकादि-
क्रमेणेश्वरकार्यमिति नैयायिकाः । स्वतन्त्रं न कदाचिदनीदृशं जगदिति मीमांसकाः ।
चकारेण वेदबाह्यमतानि सङ्गृह्यन्ते ॥ ४ ॥
तानि मतानि श्रुतिबलेनैव निराकृतानि सन्तीति नात्र पार्थक्येन निराकरणीयानि,
स्वमतनिरूपणेनैव निराकरणसम्भवादित्याशयेन स्वसिद्धान्तमाहुः तदेवेति ।
तदेवैतत्प्रकारेण भवतीति श्रुतेर्मतम् ।
द्विरूपं चापि गङ्गावज्ज्ञेयं सा जलरूपिणी ॥ ५ ॥
माहात्म्यसंयुता नॄणां सेवतां भुक्तिमुक्तिदा ।
मर्यादामार्गविधिना तथा ब्रह्मापि बुध्यताम् ॥ ६ ॥
‘स हैतावानास’, ‘सर्वं खल्विदं ब्रह्म, तज्जला’नित्यादिश्रुतिभ्यः तथेत्यर्थः । एक-
स्यैवाक्षरस्योक्तं द्विरूपत्वं दृष्टान्तेनोपपादयन्ति द्विरूपमिति । प्रपञ्चतद्भिन्नरूपाभ्यां
द्विरूपं तद्ब्रह्म गङ्गावज्ज्ञेयम् । अस्ति गङ्गायां त्रिरूपत्वम् । आधिभौतिकं जलरूपमेकम्,
यद्वृष्ट्यातपाभ्यां वृद्धिह्रासौ भजते, सर्वव्यवहारयोग्यत्वं च । अग्रिमा द्वितीयाध्यात्मिकी
तीर्थरूपा, योद्धृतजलाविशेषेऽपि मर्यादामार्गसम्बन्धी यो विधिस्तेन तत्रैव स्नानपूजा-
दिभिः फलदा। एवमेव प्रपञ्चतद्भिन्नरूपमप्येकमेव तदक्षरं ब्रह्मेति तथा बुध्यतामित्यर्थः ॥५।६॥
श्रीरघुनाथात्मजश्रीव्रजनाथकृतविवृतिटिप्पणी ।
त्यर्थः । आदिशब्देन पादत्वादयो धर्मा ग्राह्याः । तत्रायं विवेकः । आधिभौतिकजलस्या-
क्षरत्वेन ज्ञाने तस्याक्षरत्वात् तत्र सेवोपयोगिलीलासृष्टिस्थपुरुषोत्तमात्मकजलाधिष्ठानत्वम्,
एवमक्षरात्मके भगवदाकारादौ पुरुषोत्तमस्वरूपाधिष्ठानत्वमिति । अत्रेति । प्रपञ्चाक्षरयोः ।
विरोधेति । भिन्नधर्मत्वात् ब्रह्म कथं जगद्रूपं भवितुमर्हतीत्याकारको विरोधः
भेदः तत्परिहारायेत्यर्थः ।
स्वतन्त्रमिति । स्वभावत एवोत्पत्त्यादिविशिष्टम्, न कदेति नतु परतः तथाभू-
तम् । द्विरूपत्वमिति । प्रपञ्चतद्भिन्नरूपत्वम् । उद्धृतजले जलत्वाविशेषेपि मर्यादा-
स्वस्थाने एव फलदा । एवमेवेति । यथाधिभौतिकी जलरूपा, आध्यात्मिकी तीर्थरूपाप्येकैव
गङ्गा । एतत्प्रकारेणैव प्रपञ्चतद्भिन्नप्रपञ्चभिन्नज्ञान्युपास्यादिरूपमेकमेवाक्षरं ब्रह्म ।