षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 209, कुल 408 में से
संदर्भ में पढ़ेंश्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । ५७
आधिदैविकं रूपमाहुः तत्रैवेति ।
तत्रैव देवतामूर्तिर्भक्त्या या दृश्यते कचित् ।
गङ्गायां च विशेषेण प्रवाहाभेदबुद्धये ॥ ७ ॥
प्रत्यक्षा सा न सर्वेषां प्राकाम्यं स्यात्तया जले ।
विहिताच्च फलात्तद्धि प्रतीत्यापि विशिष्यते ॥ ८ ॥
यथा जलं तथा सर्वं यथा शक्ता तथा बृहत् ।
यथा देवी तथा कृष्णस्तत्राप्येतदिहोच्यते ॥ ९ ॥
जगत्तु त्रिविधं प्रोक्तं ब्रह्मविष्णुशिवास्ततः ।
देवतारूपवत्प्रोक्ता ब्रह्मणीत्थं हरिमंतः ॥ १० ॥
कामचारस्तु लोकेऽस्मिन् ब्रह्मादिभ्यो न चान्यथा ।
परमानन्दरूपे तु कृष्णे स्वात्मनि निश्चयः ॥ ११ ॥
अतस्तु ब्रह्मवादेन कृष्णे बुद्धिर्विधीयताम् ।
उक्तद्विरूपायां गङ्गायामेव देवतारूपा सा तद्भिन्नास्तीत्यर्थः । तत्र मानमाहुः
मूर्तिरिति । भक्त्यैव, न तु मर्यादामार्गविधिनोपासनयेत्यर्थः । तदपि कचिदेव, भक्त्युद्रे-
कदशायामेव । अथवा । यत्र कचिद्गृहादिष्वपीत्यर्थः । भक्तविशेषे विशेषमाहुः गङ्गाया-
मिति । देवतारूपायां गङ्गायां भक्त्युद्रेकेण दृश्यमानप्रवाहादभिन्नत्वेन यस्य बुद्धिस्तस्मै
गङ्गायां प्रवाहमध्य एव ( देवतारूपा गङ्गा ) प्रत्यक्षा भवतीत्यर्थः । एतेन प्रपञ्चमध्य एव
भगवदाकारभगवद्भक्तयोर्दर्शने भगवति स्नेहातिशयेन तत्र भगवदभेदबुद्धये तत्र भगव-
त्प्राकट्यं भवतीति भावः सूच्यते । अग्रिमव्यवस्थामाहुः प्राकाम्यमिति । स्वाभीष्टस्वसर्व-
श्रीरघुनाथात्मजश्रीव्रजनाथकृतविवृतिटिप्पणी ।
उक्तद्विरूपायामिति । आधिभौतिकाध्यात्मिकरूपायाम् । सा गङ्गा । तदिति ।
उक्तद्विरूपातः । तत्र भेदे । उक्तद्विरूपयोर्मूर्तिमत्त्वाभावादाधिदैविकस्यैव मूर्तिमत्त्वादि-
त्याशयेनाहुः मूर्तिरीतीति । तदपीति । दर्शनम् । कचिदिति । एतत्पदस्य कालवा-
चकत्वाशयेनाहुः भक्त्युद्रेकेति । देशवाचकत्वाशयेनाहुः गृहादिष्वपीति । प्रत्यक्षा
भवतीति । यथासम्भवं षड्विधप्रत्यक्षा भवतीत्यर्थः । तथा च दृश्यत इति पूर्वेण न पौन-
रुक्त्यम् । न सर्वेषामिति । प्रवाहात् भिन्नबुद्धीनामित्यर्थः । ( यथा गङ्गायामाधिदैवि-
वगङ्गाविर्भावः, न त्वाधिदैविकसरस्त्व्यादेः, तथा सर्वत्र तत्तद्वस्तुनि तत्तदाधिदैविका-
विर्भाव इति गङ्गादृष्टान्तेन सूचितमित्याशयेनाहुः ) एतेनेति । ( गङ्गादृष्टान्तकृतेन तत्तद्व-
स्तुनि तत्तदाविर्भावसूचनेनेत्यर्थः ) । भक्तविशेषे तथाविधप्रत्यक्षकथनेन । प्रपञ्चमध्य
एवेति । प्रपञ्चान्तःपातिनोर्भगवदाकारभगवद्भक्तयोर्दर्शने ब्रह्मात्मकत्वेन ज्ञाने । तत्र भग-
वदाकारभगवद्भक्तयोर्भगवता सहाभेदबुद्धिर्यस्य तस्मै । तत्र तदाकृतितद्भक्तयोः । अग्रि-
८ सि० मु०