षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 207, कुल 408 में से
संदर्भ में पढ़ेंश्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । ५५
इदमेव परं ब्रह्मेति न ज्ञेयमित्याहुः परं ब्रह्म त्विति ।
परं ब्रह्म तु कृष्णो हि सच्चिदानन्दकं बृहत् ।
द्विरूपं तद्धि सर्वं स्यादेकं तस्माद्विलक्षणम् ॥ ३ ॥
यशोदोत्सङ्गलालितो, न त्वन्य इति ज्ञापनाय मूलनामोक्तम् । अत्र भेदकं रूपमाहुः
सच्चिदिति । एते हि भगवद्धर्मात्मकाः, प्रकटतत्रितयात्मकमक्षरं ब्रह्म । अत एव प्रपञ्चस्त-
दात्मक इति सच्चिदानन्दात्मकत्वं तस्मिन्नुच्यते । एतावान्परं विशेषो, जडे सदंशः प्रकटः,
इतरावाच्छन्नौ; जीवे त्वाद्यौ प्रकटौ, आनन्दांशस्तिरोहितः; परमात्मनि त्रयं स्फुटमिति ।
कप्रत्ययेन गणितानन्दत्वमेव, न तु पुरुषोत्तमवत् पूर्णानन्दत्वमिति ज्ञाप्यते । कृष्णशब्देनैव
पुरुषोत्तमस्वरूपं निरूपितमित्यक्षरस्वरूपं निरूपयन्ति द्विरूपमिति । तत् अक्षरं ब्रह्म ।
तदेव रूपद्वयं विशदयन्ति सर्वं स्यादिति । प्रपञ्चरूपेणाविर्भूतमेकमित्यर्थः । एकं रूपं
तस्मात् प्रपञ्चरूपात् एकरूपत्वेन श्रुतिप्रतिपाद्यत्वेन ज्ञान्युपास्यत्वेन तन्मुक्तिस्थानत्वेन
पुरुषोत्तमाधिष्ठानत्वादिभिर्विलक्षणमित्यर्थः । न च विरुद्धधर्मैर्भेदोत्र शङ्कनीयः । उभयो-
धर्मयोरेकत्र प्रमाणसिद्धत्वेन विरोधाभावात् । विरुद्धधर्माश्रयत्वस्य ब्रह्मणि 'तदेजति
श्रीरघुनाथात्मजश्रीब्रजनाथकृतविवृतिटिप्पणी ।
पूर्वोक्तज्ञानविषयीभूतमेव परं ब्रह्मेति कस्यचिच्छङ्का स्यादिति तां वारयितुमाहुः
इदमेवेति । इदं पूर्वोक्तज्ञानविषयमक्षरं ब्रह्म । अत्रेति । अक्षरे ब्रह्मणि । रूपं धर्मः ।
ननु सच्चिदानन्दकत्वस्य पुरुषोत्तमेपि सत्त्वात् कथं तस्य भेदकत्वं तत्राहुः एते हीति ।
सच्चिदानन्दाः । तत्रितयं सच्चिदानन्दत्रयम् । अत एव अक्षरस्य सच्चिदानन्दात्मक-
त्वादेव । तदात्मक अक्षरब्रह्मात्मकः । तस्मिन् प्रपञ्चे । अत एवेत्यस्य उच्यत इत्यने-
नान्वयः । तथा च यतो हेतोरक्षरस्य सर्वकारणरूपस्य तन्नितयात्मकत्वम्, अतस्तत्कार्य-
रूपप्रपञ्चस्यापि तत्रितयात्मकत्वमित्यर्थः । एतावानिति । अक्षरब्रह्मणः सकाशात्प्रपञ्चे
विशेषः । तमेवाहुः जड इति । इतरौ चिदानन्दौ । आद्यौ सच्चितौ । परमात्मनि
अन्तर्यामिणि । ननु भगवद्धर्मीणामपि 'प्रकाशाश्रयवद्वा तेजस्त्वा'दिति न्यायेन भगवत्त्व-
मेवेति न भेदसिद्धिरिति चेत्, तत्राहुः कप्रत्ययेनेति । कप्रत्ययस्य हीनार्थकत्वादित्यर्थः ।
पुरुषोत्तमवदिति । प्रजापतिवद्गणितानन्दत्वम् । कृष्णेति । कृष्णशब्दस्य परब्रह्मवाच-
कत्वात् तत्स्वरूपं तेनैव निरूपितम् । इतीति । पुरुषोत्तमस्वरूपनिरूपणाकांक्षानिवृत्ति-
पूर्विकाक्षरनिरूपणाकांक्षारूपाद्धेतोः । एतावद्रूपकमक्षरं ब्रह्मेत्यक्षरस्वरूपं निरूपयन्ती-
त्यर्थः । द्विरूपमितीति । अत्रैकपदं देहलीदीपकन्यायेनोभयत्रान्वेति । एकरूपत्वेनेति ।
प्रपञ्चरूपस्य तस्यानेकरूपत्वं तद्भिन्नरूपस्यैकरूपत्वम् । श्रुतिप्रतिपाद्यत्वेनेति । प्रपञ्च-
कारणत्वेन । पुरुषोत्तमाधिष्ठानत्वादिभिरिति । लीलाविशिष्टपुरुषोत्तमाधिष्ठानत्वमि-