सामग्री पर जाएँ
सर्वकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 191, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 191

[Header] श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । ३९

तन्निरासाय स्वसिद्धान्तरूपं शास्त्रार्थनिश्चयं वक्ष्यामीत्यर्थः । तमेवाहुः कृष्णसेवेति ।
फलात्मकनामोक्त्या स्वतःपुरुषार्थत्वेन सेवाकृतिः स्वसिद्धान्तो, न त्वन्यशेषत्वेनेति
ज्ञाप्यते । सेवा हि सेवकधर्मः । तदुक्त्या जीवानाामशेषाणां सहजदासत्वं ज्ञापितम् ।
अत एव न कर्मणीवात्र कालपरिच्छेदोस्तीत्याहुः सदेति । आवश्यकार्थण्यत्प्रत्यया-
न्तकार्यपदोक्त्या तदकरणे प्रत्यवायी भवतीति भावो ज्ञाप्यते । सा च फलरूपा साधनरूपा
चास्ते । तत्र मानसी सा परा फलरूपेत्यर्थः । यथा व्रजसीमन्तिनीनाम् । तदेव तत्प्राण-
नाथेन गीतं 'ता नाविदन्मय्यनुषङ्गबद्धधियः स्वमात्मानमदस्तथेद' मित्यादिना ॥ १ ॥
एतदेव सेवास्वरूपमित्याहुः चेत इति ।
चेतस्तत्प्रवणं सेवा तत्सिद्ध्यै तनुवित्तजा ।
ततः संसारदुःखस्य निवृत्तिर्ब्रह्मबोधनम् ॥ २ ॥
उक्तसेवासाधने इतरे इत्याहुस्तदिति । वित्तं दत्त्वा अन्येन पुरुषेण कृत्वा कारितैका ।

श्रीविट्ठलेशात्मजश्रीवल्लभकृतविवृतिटिप्पणी ।
तन्निरासाय शास्त्रार्थसन्देहनिरासाय । सन्देहस्वरूपं तु स्वयमेवाग्रे वक्ष्यन्ति स्वेति ।
एतन्निरूपकशास्त्रार्थस्य निश्चयो यस्मात्तदित्यर्थः । फलात्मकेति । फलरूपस्य तस्य स्वतः-
पुरुषार्थत्वधर्मावच्छिन्नसेवाकृतिः स्वसिद्धान्तः । फलसेवनं हि स्वतः पुरुषार्थः, यथा
कामिन्याः । स्वतःपुरुषार्थत्वेन । कामप्रयत्नयोरेकविषयत्वेनेत्यर्थः । ननु 'मानसी सा परे'-
त्यनेन मानस्याः सेवायाः फलत्वेन वक्ष्यमाणत्वात् तदर्थत्वमेवैतत्सेवायां सिध्यति, अतो न
स्वतः पुरुषार्थत्वम्, किन्त्वन्यशेषत्वमेवेति चेत्, तत्राहुः नत्वन्येति। यत्र विजातीयफलार्थत्वं
तत्रैवान्यशेषत्वम्, प्रकृते तस्या एव सेवाया अवस्थाभेदेन मानससेवारूपफलत्वेन विजा-
तीयत्वाभावाददोष इति भावः । हेतुपूर्वकं सदेत्यस्यार्थमाहुः सेवा हीति । सहजेत्यत्र
जननं सत्तेति ज्ञेयम् । जीवस्य नित्यत्वेन जननासम्भवात् । तथा च सहसत्ताकमित्यर्थः ।
यथा जीवसत्ता सार्वदिकी, तथा दासत्वसत्तापि । अत एव जीवस्य सहजदासत्वेन अत्र
सेवायां सहजधर्मत्वादेव । कर्मणीवेति । कर्म न सहजधर्मः, तस्यैव जन्मान्तरे शूद्रदेहेऽ-
नधिकारादिति भावः। कालपरिच्छेदोऽस्मिन् काले न कर्तव्येतिरूपः । कालपरिच्छेद्यत्वाभावेऽपि
प्रत्यवायजनकीभूताभावप्रतियोगित्वरूपधर्मोऽस्तीत्याहुः आवश्यकार्थेति । सा चेति । सा
पूर्वोक्ता । तत्र फलसाधनरूपयोर्मध्ये फलरूपा मानसी सेवा । यथेति । यथा यत्प्रकारिका
सेवा व्रजसीमन्तिनीनां सिद्धा, सा मानसी फलरूपा सेवेति शेषः । तदेव मानससेवायाः
फलरूपत्वमेव । 'ता' इति, 'मय्यनुषङ्गबद्धधिय' इत्यनेन साधनसेवामनूद्य 'नाविद'न्नि-
त्यनेनान्या नुसन्धानराहित्यमुक्तम् ॥ १ ॥
एतदेव धीबन्ध एव । मूले चेतस्तत्तस्मिन् भगवति प्रवणं गतिरित्यर्थः ।
उक्तसेवेति । उक्तसेवा मानसी सेवा । इतरे तनुवित्तजे । एकेति । वित्तजेत्यर्थः ।

१ काले इति पाठः ।

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या) · पृष्ठ 191, कुल 408 में से · SarvaKosh