षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 190, कुल 408 में से
संदर्भ में पढ़ेंश्रीकृष्णाय नमः ।
सिद्धान्तमुक्तावली ।
श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता ।
प्रणम्य पितृपादाब्जपरागमनुरागतः । कृपया विशदीकुर्मस्तद्वाङ्मुक्ताफलावलीम् ॥१॥
नत्वा हरिं प्रवक्ष्यामि स्वसिद्धान्तविनिश्चयम् ।
कृष्णसेवा सदा कार्या मानसी सा परा मता ॥ १ ॥
स्वसिद्धान्तेति । अग्रे वक्ष्यमाणैर्बहुभिर्मिथो विरुद्धैः सिद्धान्तैः शास्त्रार्थसन्देहे
श्रीविट्ठलेशात्मजश्रीवल्लभकृतविवृतिटिप्पणी ।
नुमो नतहरीन् स्वीयसिद्धान्तस्य विवक्षया ।
ततो नुमो विशदितद्वाङ्मुक्ताफलावलीन् ॥ १ ॥
श्रीकृष्णाय नमः । प्रणम्येति । अत्र नमने प्रकर्षो भक्तिमार्गीयत्वम्, तच्च सुसे-
व्यत्वज्ञानपूर्वकत्वे सति भक्तिकरणकत्वम्, तदेव भक्तिमार्गीयतावच्छेदकद्वयं प्रकटयन्ति
पितृपादाब्जेति । पितृपदं भक्त्यनपेक्षपुत्रवात्सल्यबोधकम् । हृदयाविष्टस्य घनीभूता-
नन्दरूपपादपद्मस्य परागस्तस्मात् स्रुत आनन्दः। भगवच्चरणारविन्दे हृदये समागते य आन-
न्दोऽनुभूयते तत्स्वरूप इत्यर्थः । तथा च पितृपादाब्जपरागमित्यनेन सुसेव्यत्वज्ञानरू-
पमवच्छेदकमुक्तम् । अनुरागत इत्यनेन भक्तिरूपं द्वितीयमवच्छेदकमुक्तम् । एतादृशन-
मनाभिव्यञ्जितपदार्थमाहुः कृपयेति । भगवद्धर्माणां नित्यत्वादभिव्यक्तेरेवाङ्गीकारात्
कृपायास्तात्त्वमिति मन्तव्यम् । अत एवासाधारणकारणतया तदुक्तिः । तादृशनमनोपकार-
सिद्धां क्रियामाहुः विशदीकुर्म इति । वैशद्यं स्फुटीभावः । कृपया ग्रन्थवैशद्यकरणत्व-
कथनेन स्वपितृचरणानां वागधिपतित्वमप्युक्तम्, तत्कृपाया एव तथा करणसामर्थ्यात् ।
किमित्याकांक्षायामाहुः तदिति । तद्वाङ्गिष्ठमुक्ताफलरूपार्थराशिमित्यर्थः । मुक्ताफल-
पदस्य कल्पनावृत्त्यार्थबोधकत्वम् । सादृश्यं च नैर्मल्यसामान्यधर्मेण । नैर्मल्यं चात्र
प्रोज्झितकैतवत्वम् । वाच एव मुक्ताफलानीत्ययं पक्षस्तु अत्रार्थस्यैव स्फुटभावं प्राप्तत्वा-
दसंभवग्रस्तः । वाग्वैशद्यं तु व्याकृतावुच्चारणे चैव प्रसिद्धम् । मूले स्वसिद्धान्तेति ।
स्वसिद्धान्तस्य अयमेव शास्त्रार्थ इति विशेषेण निश्चयो यस्मात् तं ग्रन्थमित्यर्थः । इदं
च प्रतिज्ञावाक्यम् । महावाक्यमाहुः कृष्णसेवेत्यादि । टीकायां अग्र इति । अस्मिन्नेव
ग्रन्थे'मायिकं सगुणं कार्य'मित्यादिभिर्वक्ष्यमाणैः । शास्त्रार्थस्य गीताभागवतार्थस्य ।
१. विनिश्चितमिति पाठः ।