षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 192, कुल 408 में से
संदर्भ में पढ़ें४० सिद्धान्तमुक्तावली ।
एतादृशेन पुंसा कृता चापरा । एतादृश्यौ ते तत्साधिके नेत्यभिप्रायज्ञापकं समस्तं
पदम् । एतेन भगवदर्थं निरुपधिखसर्वस्वनिवेदनपूर्वकं तत्रैव स्वदेहविनियोगे प्रेम्णि जाते
सा भवतीति भावः । एतादृशस्यावान्तरफलं भवतीत्याहुः तत इति । अहन्ताममतात्मकः
संसारो, न तु प्रपञ्चात्मकः, तस्य ब्रह्मात्मकत्वात्, तन्निवृत्त्याऽनिष्टनिवृत्तिरुक्ता । इष्टप्राप्ति-
माहुरग्रे । स्वात्मनि प्रपञ्चे चाक्षरब्रह्मात्मकत्वेन ज्ञानम् । भगवत्सेवायामभिनिविष्टस्य
यद्यप्यनभिलषिते ते, तथापि वस्तुस्वभावाद्भवत इति भावः ॥ २ ॥
इदमेव परं ब्रह्मेति न ज्ञेयमित्याहुः परं ब्रह्म त्विति ।
परं ब्रह्म तु कृष्णो हि सच्चिदानन्दकं बृहत् ।
द्विरूपं तद्धि सर्वं स्यादेकं तस्माद्विलक्षणम् ॥ ३ ॥
यशोदोत्सङ्गलालितो, न त्वन्य इति ज्ञापनाय मूलनामोक्तम् । अत्र भेदकं रूपमाहुः
श्रीविठ्ठलेश्यात्मजश्रीवल्लभकृतविवृतिटिप्पणी ।
एतादृशेन । वित्तग्रहीत्रा पुरुषेण । अपरा तनुजा । तत्साधिके इति । फलरूपसेवासा-
धिके । तथा चैककर्तृक एव ते तत्साधिके इति फलितार्थः । नन्वेवमेककर्तृका भगवदपे-
क्षितयावद्द्रव्यसमर्पणरूपसेवा शरीरजभगवद्यावत्सेवा च भगवदपेक्षितयावद्द्रव्याभावात्ता-
दृशतनुसामर्थ्याभावाच्चासम्भावितेति चेत्, तत्राहुः एतेनेति । एवं सेवाकथनेन ।
फलाकांक्षारहितयावत्स्वीयद्रव्यादिनिवेदनपूर्वकं कार्यान्तरविनियोगरहितभगवदर्थस्वदेहवि-
नियोगे क्रमप्राप्तप्रेम्णि जाते सा मानसीसेवा भवतीत्यर्थः । क्रमस्त्वग्रे विवेच्यः । एता-
दृशस्येति । निवेदितस्वीयसर्वस्वस्य भगवत्सेवाविनियुक्तदेहस्य पुरुषस्य । तत इतीति ।
उक्तसाधनरूपसेवाद्द्यतः । तन्निवृत्त्येति । संसारनिवृत्त्या । अनिष्टेति । फलप्रतिबन्ध-
कत्वात् संसारस्यानिष्टत्वम् । मूले संसारो दुःखो दुःखजनक इत्यर्थो ज्ञेयः । इष्टेति । फल-
साधकत्वात् ब्रह्मज्ञानस्येष्टत्वम् । स्वात्मनीति । आत्मनि देहेन्द्रियप्राणान्तःकरणजीवेषु ।
अक्षरब्रह्मात्मकत्वेन ज्ञानमहन्तानिवृत्तौ, प्रपञ्चे चाक्षरब्रह्मात्मकत्वेन ज्ञानं ममतानिवृ-
त्ताविति विभागः । भक्तस्याक्षरज्ञानं पुरुषोत्तमाधिष्ठानत्वेन भवतीति तृतीयाध्याये तृतीय-
चरणे व्युत्पादितम् । तथा चाक्षरब्रह्मात्मकत्वेन ज्ञानं पुरुषोत्तमाधिष्ठानत्वेन ज्ञानमित्यर्थः ।
स्वात्मनि प्रपञ्चे च भगवदीयत्वेन ज्ञानमिति यावत् । पुरुषोत्तमाधिष्ठानत्वमनुपदमेव
विवेक्ष्यते । ननु तादृशज्ञानहेतुत्वात् सेवायाः स्वतःपुरुषार्थत्वव्याहतिरित्याहुः भग-
वत्सेवायामिति । ते इति । उक्तब्रह्मात्मकत्वज्ञाने । वस्तुन आत्मसमर्पणस्य स्वभावात् ।
स्नेहो हि भक्तिः । स च दर्शनं विना भवतीति निबन्धे निरूपितम् । अतः श्रवणं दर्शनं
स्नेह इति त्रयं मिलितं एका श्रवणभक्तिर्भवति । एवं नवस्वपि । तथा च ब्रह्मबोधनस्य
वक्ष्यमाणरीत्यात्मनि वेदनाङ्गदर्शनयोग्यतासम्पादकत्वात् तत्स्वभावादेव ते ज्ञाने भवत
इत्यर्थः । अनभिलषिते सेवाभिनिवेशेनैव सेवा क्रियते, न त्वेतत्फलाभिनिवेशेनेत्यर्थः ।
इदमेवेति । इदं पूर्वोक्तज्ञानविषयमक्षरं ब्रह्म । अत्रेति । अक्षरे ब्रह्मणि । रूपं