सामग्री पर जाएँ
सर्वकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 189, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 189

श्रीमद्विठ्ठलेश्वरविरचितविवृतिसमेता। ३७
श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः ।
जाते त्वन्तःकरणप्रबोधोक्तरीत्या भावनीयम् । विवेकधैर्याश्रयोक्तरीत्या विवेकादिरपि
संपादनीयः । ततो विश्वासे दृढे सति भक्तिवर्धिन्युक्तरीत्या भक्तिबीजस्य दार्ढ्यं संपाद-
नीयम् । अदृढबीजभावे तु निबन्धोक्तरीतिकपूजा परिचर्यादिभिः, नामावलीपाठेन च प्रेमा-
सक्तिव्यसनानि संपादनीयानि । ततो व्यसनदार्ढ्ये सिद्धे प्रेम्णि दृढे जाते च संन्यास-
निर्णयोक्तरीत्या त्यागो विधेयः । तत्रानधिकारे तत्र प्रतिबन्धे वा भक्तिवर्धिन्युक्ता अनु-
कल्पा विधेयाः । ततो भगवत्प्रसादे निरोधलक्षणोक्तरीत्या निरोधोत्कर्षसिद्धिः । ततः फल-
सिद्धिरिति तच्चरणदासैर्विभावनीयम् । अन्येपि ग्रन्था अत्रैव शेषत्वेन यथासंभवं योज-
नीया इति दिक् ।)
इति श्रीप्रभुपादाम्जैः प्रसादप्रेरणादिह ।
स्वीयसिद्धान्तवाङ्माला कृपया संप्रकाशिता ॥ १ ॥
इति श्रीमद्वल्लभाचार्यचरणैकतानस्य श्रीविठ्ठलेशप्रसादप्राप्तदृशः पीताम्बरात्म-
जस्य पुरुषोत्तमस्य कृतौ श्रीमदाचार्यसिद्धान्तवाङ्मालाप्रकाशः संपूर्णः ॥