षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 182, कुल 408 में से
संदर्भ में पढ़ेंविद्ययान्तरायभूतया न विदन्ति । तेन संसारमापद्यन्ते । इदमेवोपाधिरूपत्वं तस्याः, न
तु तत्कृतं जीवत्वम् । अणुत्वबोधनार्थं दृष्टान्तः । व्योम्नि यथोपाधिभिः क्षुद्रैः छिद्रा इव
श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः ।
कोशात् ताः जीवानां संसारित्वापादकोपाधिभूता इति शेषः । पुरञ्जनोपाख्याने 'बुद्धिं तु
प्रमदां विद्यान्ममाहमिति यत्कृत'मिति वाक्यात् । तदेतट्टीकायां विशदीकुर्वन्ति जीवा
हीत्यादि । हिर्हेतौ । यतो हेतोः जीवाः निबन्धे 'तदिच्छामात्रतस्तस्माद्ब्रह्मभूतांशचेतना'
इत्यत्र ब्रह्मभूताः, न तु योगबलेनाविर्भाविताः, अंशाः साकाराः सूक्ष्मपरिच्छेदाः चेतनाः
चित्प्रधाना इति व्याख्यातत्वात्, श्रुतौ च बुद्धेर्गुणेनाङ्गुष्ठमात्रत्वमुक्त्वान्ते 'आत्मगुणेन चैव'
'आराग्रमात्रो ह्यपरोपि दृष्ट' इत्यादिकथनात् 'ममैवांशो जीवलोके' 'एकस्यैव ममांशस्ये'त्यादि-
स्मृते'रंशो नानाव्यपदेशा'दिति सूत्राच्चांशत्वेन सिद्धाः । 'उत्क्रान्त्यादि'सूत्रैरणुत्वस्य साव-
नाच्चाणवोऽणुपरिमाणाः, अक्षरात्मकाः । एवं जीवस्वरूपमुक्तम् । अतःपरं तेषां मोक्षं वक्तुं
ब्रह्मरूपे छिद्रा व्योम्नीवेति यद्दृष्टत्वमुक्तं तद्व्युत्पादयन्ति तदात्मकत्वमित्यादि । तदात्मकत्वं
ब्रह्मात्मकत्वम् । अविद्यया 'एकस्यैव ममांशस्य जीवस्यैव महामते । बन्धोस्याविद्ययाना-
दि'रिति भगवद्वाक्ये बन्धकत्वेनोक्त्या ब्रह्मशक्त्या, 'न तं विदाथे'तिश्रुतावज्ञानजनकत्या-
न्तरशब्देनोक्तत्वादन्तरायभूतया स्वात्मानं ब्रह्मात्मकं न विदन्ति, तेन संसारं'महं ममे'त्य-
भिमानरूपमापद्यन्ते । इदं संसारापादकत्वमेव तस्या अविद्याया उपाधिरूपत्वम् । प्रयो-
जको ह्युपाधिरित्युच्यते । अतः संसारप्रयोजकत्वमेव तथात्वम् । तु पुनस्तत्कृतं जीवत्वम्
न, तया दोषरूपया, आभासनेन वा, तस्यां प्रतिबिम्बेन वा, तयाऽवच्छेदकेन वा प्रयुक्तं
जीवत्वं न, आभासप्रतिबिम्बपक्षे तत्स्वरूपस्याब्रह्मत्वप्रसङ्गात् । अवच्छेदनस्यापि अंशत्व-
कथनोत्तरं बन्धस्मरणेन व्युच्चरणोत्तरभावित्वनिश्चयात् । 'तज्जीवो नमोपम' इति श्रौतो-
पमाया अपि 'घटो लीयेत नाकाश'मित्यनन्तरमुक्ततया लयाभावमात्र एव पर्यवसितत्वस्य
अग्रिममन्त्रे जलचन्द्रदृष्टान्तेन तस्य चांशप्रवेशप्रयुक्तत्वेनापि निश्चयादित्यर्थः । तर्हि व्योमच्छि-
द्रदृष्टान्तः किमित्युक्त इत्याकाङ्क्षायां तदेतद्बोधयितुं दृष्टान्त इत्याहुः अणुत्वेत्यादि । नन्वणुत्वं
चेद्बोधनीयं स्यात्, 'विस्फुलिङ्गा' इवेत्युक्तं स्यात्, नत्वेवमित्यत उपपादयन्ति व्योम्नीत्यादि ।
उपाधिभिरिति तितउप्रभृतिभिः । छिद्रा इवेति । 'छिद्र भेदन' इति धातोर्भावे घञि,
'छिदिर् द्वैधीकरण' इत्यतो धातोर्वा 'स्फायी'ति रकि कृते छिद्रपदं रन्ध्रवाचकं सिध्यति ।
तदत्र नाभिप्रेतम् । किन्तु 'पुंसि संज्ञायां घः प्रायेणे'त्यत्र प्रायोग्रहणात्, संज्ञाभावेपि
छिद्यतेऽनेनेति योगाच्छिद्रकरणवाचकमभिप्रेतम् । अथवा 'छेदनं छिदि'ति संपदादि-
किपि 'आतोनुपसर्गे क' इति कं च कृत्वा छिदं रान्ति ददतीति छिद्रा इत्येवं द्वैधीकरणदायि-
वाचकमभिप्रेतम् । तथा च व्योम्न्याकाशे तितउप्रभृतिभिराकाशात् क्षुद्रैरुपाधिभिरवकाश-
भेदप्रयोजकैः छिद्रा इव रन्ध्राणीव भेददायकाः क्षुद्रत्वादयोऽवास्तवाः प्रतीयन्ते, तथा
ब्रह्मरूपे सुवर्णशकलवद्ब्रह्मात्मके आत्मनि जीवे अविद्यांशभूतैरन्यथाबुद्धिभिश्चेतनाख्यैः