सामग्री पर जाएँ
सर्वकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 181, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 181

स्नेहातिशयेन स्वात्मत्वेनैव प्रभुः स्फुरतीति सर्वांशेन तत्प्रार्थने शङ्का न भवतीत्यर्थः॥११॥
अथ जीवस्वरूपं तन्मुक्तिप्रकारं चाहुः आत्मनीति ।
आत्मनि ब्रह्मरूपे तु छिद्रा व्योम्नीव चेतनाः ॥ १२ ॥
उपाधिनाशे विज्ञाने ब्रह्मात्मत्वावबोधने ।
गङ्गातीरस्थितो यद्वद्देवतां तत्र पश्यति ॥ १३ ॥
तथा कृष्णं परं ब्रह्म स्वस्मिन् ज्ञानी प्रपश्यति ।
संसारी यस्तु भजते स दूरस्थो यथा तथा ॥ १४ ॥
अपेक्षितजलादीनामभावात्तत्र दुःखभाक् ।
तस्माच्छ्रीकृष्णमार्गस्थो विमुक्तः सर्वलोकतः ॥ १५ ॥
आत्मानन्दसमुद्रस्थं कृष्णमेव विचिन्तयेत् ।
लोकार्थी चेद्भजेत्कृष्णं क्लिष्टो भवति सर्वथा ॥ १६ ॥
क्लिष्टोऽपि चेद्भजेत्कृष्णं लोको नश्यति सर्वथा ।
आत्मविषय उच्यत इति शेषः । जीवा ह्यणवोऽक्षरात्मकाः, तदात्मकत्वम-
श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः ।
कामचारोन्वेति। तत्प्रार्थन इति, कामचारप्रार्थने । तथा चैवं व्याख्यानद्वयेपि 'सङ्कल्पादेव
च तच्छ्रुतेः' 'अत एव चानन्याधिपति'रित्युक्तरीत्या भगवत एव फलं भवतीति तदर्थं युक्त-
स्तत्सेवोपदेश इत्यर्थः । तदेतत्सर्वमभिसन्धायोहुर्मूले अतस्त्वित्यादि। अतस्तु उक्तप्रकारेण
शङ्काया निरासात् , ब्रह्मवादेन 'सर्वं ब्रह्मैवे'ति श्रीभागवतगीतान्ब्रह्मसूत्रसिद्धेन श्रौतसिद्धान्त-
स्थापनेन, कृष्णे परब्रह्मण्येव, बुद्धिरन्तःकरणं, विधीयतां विशेषेण धार्यतामित्यर्थः ॥११३॥
एवमत्र पूर्वोक्तसाधनशेषत्वेन प्रमेय फलं च निरूप्य येषां नैतादृशसाधनाधिकारः,
तेषां कथं, का च फलसिद्धिरित्याकाङ्क्षायां वदन्तीत्याशयेनाग्रिमभवतारयन्ति अथेत्यादि ।
अथेति, मुख्यसाधनप्रकरणोक्त्यनन्तरम् । तेनास्मिन्प्रकारे जीवस्वरूपज्ञानमावश्यकम्, न
तु पूर्वोक्तप्रकारे । तत्र शरीरविशिष्टजीव एव भगवद्दासत्वज्ञानस्यैवापेक्षितत्वादिति बोधि-
तम् । जीवस्वरूपमिति । बद्धजीवस्वरूपम् । व्याकुर्वन्ति आत्मविषय इत्यादि । तेना-
त्मनीति भिन्नं वाक्यमिति बोधितम् । अत्र मूले पाठद्वयम् । 'ब्रह्मरूपे तु छिद्रा व्योम्नीव
चेतना' इत्येकः । 'ब्रह्मरूपे ही'त्यपरः । तत्र प्रथमे तोः प्रकरणभेदकत्वमनुसन्धाय टीकायां
प्रकरणभेदप्रतिज्ञा व्याख्यातेति ज्ञायते । द्वितीये तु विषयभेदादेव प्रकरणान्तरावगतिः। हिर्हेतौ,
ब्रह्मरूपे ब्रह्मांशत्वेन ब्रह्मात्मके प्रकृतत्वादात्मनि चेतनाः बुद्धयः, 'प्रतिपतृज्ञसिचेतना' इति
१. 'ब्रह्मरूपे साकारब्रह्मस्वरूपे चेतना बुद्धिवोंके ब्रह्मस्वरूपे अविद्यांशभूताभिः बुद्धिभिरिव भेदप्र-
तीतिः । पुरञ्जनोपाख्याने 'बुद्धिं तु प्रमदां विद्यात् ममाहमिति यत्कृत'मिति वाक्येन अविद्यावृत्तिरूपाणां
तासामेव ब्रह्मप्रदेशावच्छेदकत्वात्, जीवपक्षे तूत्पत्त्या विचारे 'बहु स्या'मिति इच्छेव करणादंशांशिभावमभि-
प्रेत्य जीवस्वरूपं (व्या) कुर्वन्ति' इति 'ब्रह्मरूपे-जीवा ही'त्यत्र पाठान्तरम् ।