सामग्री पर जाएँ
सर्वकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 183, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 183

श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । ३१
प्रतीयन्ते, तथात्मनि क्षुद्रत्वादयो धर्माः प्रतीयन्ते, न तु ब्रह्मधर्मा इति बोधनार्थं च ।
तेषां मध्ये यं जीवं येन प्रकारेण प्रभुरुद्दिधीर्षुर्भवति, तत्प्रकारकगुरूपदेशादिभिरवि-
द्यालक्षणोपाधेर्ब्रह्मात्मकत्वावबोधनप्रतिबन्धकस्याविद्यात्मकस्य नाशे ब्रह्मात्मकत्वावबोधन-
-लक्षणे विज्ञानेऽनुभवे सम्पन्ने पुरुषोत्तमाविर्भावयोग्यता तस्मिन् जाते स्वात्मनि तं प्रक-
र्षेण पश्यतीत्यर्थः तस्य सर्वस्वरूपो हरेरेवेति न तदतिरिक्तमपेक्षते । भजनोपयोग्यर्थापे-
क्षायामपि प्रभुर्नैव सर्वं सम्पद्यत इति न कदाचिद्दुःखी भवति । एतज्ज्ञापनाय दृष्टान्तः ।
यस्तु प्रपञ्चासक्तो गुरूपदेशमात्रेण भजने संसारनिवृत्तिहेतुत्वं ज्ञात्वा भजते, न तु ब्रह्म-
भावसम्पत्त्या पुरुषोत्तमाविर्भाववान्, स तु गङ्गातो दूरस्थो यया तां भजते, तत्रापेक्षितत-
जलाप्राप्त्या दुःखी भवति, तथा स्वयं भक्तिमार्गस्थ इति साक्षात्स्वरूपसम्बन्ध्यर्थापेक्षायां
तदप्राप्त्या क्लेशभाग्भवतीत्यर्थः । तथापि न स भजनं त्यजति, अङ्गीकारात्प्रभोः । अनङ्गी-
कारे तु मध्ये भजनप्रतिबन्धेपि कृतभजनवैयर्थ्यासम्भवाज्जन्मान्तरे तत्फलिष्यतीति ज्ञेयम् ।
श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः ।
क्षुद्रत्वदुःखित्वात्यन्तभिन्नत्वादयोप्यवास्तवाः प्रतीयन्ते । न तु ब्रह्मधर्माः असङ्गत्वादय
इति बोधनार्थं चायं दृष्टान्तः। तथा च यदि स दृष्टान्त उक्तः स्यात्, तदोपाधिकृतो बन्धो
न बोधयितुं शक्येत, अतस्तथेत्यर्थः। एतेन तद्बोधितमणुत्वमपि क्षुद्रत्वादिवद्देहपरिच्छिन्नत्व-
रूपमेव, न तु वास्तवमिति ज्ञापितम् । वास्तवस्य तस्य व्यापकत्वाविरोधिकत्वात् । एवं
बन्धं व्याख्याय मोक्षं वदन्तीत्याशयेनाग्रिमं उपाधिनाश इत्यादिकं सार्धश्लोकं व्याकुर्व-
न्ति तेषां मध्य इत्यादि । पश्यतीत्यर्थ इत्यन्तम् । अविद्यालक्षणोपाधेरिति । इदं
जीवविशेषणम् । अविद्यालक्षणः स्वस्वरूपविस्मारक उपाधिर्यस्येति । शेषं स्फुटम् ।
दृष्टान्तोक्तिप्रयोजनमाहुः तस्येत्यादि । अग्रिमश्लोके जघन्याधिकारिणो दुःखभाक्त्व-
कथनात्तत उत्तमस्य मर्यादाभक्तस्य ज्ञानपूर्वकं भजतो दुःखाभाव आर्थिकोऽत्र व्याख्यातो
ज्ञेयः । जघन्याधिकारिव्यवस्थां वदन्तीत्याशयेन संसारीति श्लोकं व्याकुर्वन्ति यस्त्वि-
त्यादि, भवतीत्यर्थ इत्यन्तम् । तर्हि तादृशस्य किं फलं स्यादित्याकाङ्क्षायां 'उभयोस्तु
क्रमेणैव पूर्वोक्तेव फलिष्यती'त्यग्रिमग्रन्थानुसन्धानेन फलमाहुः तथापीत्यादि, ज्ञेयमि-
त्यन्तम् । अङ्गीकारादिति । सेवाया अङ्गीकारात् । अनङ्गीकारे त्विति । प्रभुणा
तत्कृतसेवाया अनङ्गीकारे । अग्रिमं व्याकुर्वन्तस्तत्र तस्मात्पदोक्तस्य हेतोः ( येस्मान्न-
ष्टोपाधिर्ज्ञानी स्वस्मिन्भगवन्तं प्रकर्षेण पश्यति, यस्माच्च संसारी तादृशान्तःकरणस्याभावा-
न्दुःखी भवतीति ) पूर्वश्लोकद्वयार्थसङ्ग्राहक तया प्रकटार्थत्वादत्रास्फुटोर्थस्तदेव पदं व्याकु-
र्वन्ति श्रीकृष्णोत्त्यादि, भगवत्परमित्यन्तम् । मन्मतिरिति । 'रामेण सार्धं मथुरां
प्रणीत' इत्यादिभगवद्वाक्येन स्वानुभवेन च तथा निश्चयान्मन्मतिः । भगवत्परमिति ।
( १ ) चिह्नन्तर्गतं नास्ति प्रायः ।