षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 102, कुल 408 में से
संदर्भ में पढ़ें१४ बालबोधः ।
ननु निवेदनमकृत्वाऽपि केचित्तदाश्रितास्तेषां का गतिरिति चेत्तत्राऽऽहु-
रतदीयतेति ।
अतदीयतया चाऽपि केवलश्चेत्समाश्रितः ॥ १८ ॥
तदीयत्वव्यतिरेकेणाऽपि केवलः समाश्रितश्चेत्तदा केवलाश्रयेनाऽपि गति-
र्भवत्येव । “मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः। स्त्रियो वैश्यास्तथा
शूद्रास्तेऽपि यान्ति परां गतिमि”ति वचनात् । न तावता तदीयत्वलक्षणो मोक्षः
सिद्धयति, समर्पणाभात् । न वा गतिप्राप्तौ तदाश्रयस्तिष्ठति, तस्योभयनिष्ठधर्मत्वात् ।
साधनत्वेन स्वीकाराच्च । अतो नाऽयं फलरूपभक्तिमार्गः, किन्तु साधनरूप एव ।
“न योगसिद्धीरपुनर्भवं वा वाञ्छन्ति यत्पादरजःप्रपन्नाः” । स्वर्गापवर्गनरके-
ष्वि”त्यादिवचनविरोधात् ॥ १८ ॥
ननु जीवानां स्वतो ज्ञानाभावात्तदाश्रयतदीयत्वे कथं सिद्ध्येतामित्याशङ्कया-
ऽऽहुस्तदाश्रयेति ।
तदाश्रयतदीयत्वबुद्धयै किञ्चित्सदाऽऽचरेत् ।
स्वधर्ममनुतिष्ठन् वै भारङ्गैगुण्यमन्यथा ।
इत्येवं कथितं सर्वं नैतज्ज्ञाने भ्रमः पुनः ॥ १९ ॥
इति श्रीमद्वैश्वानरावतार श्रीवल्लभाचार्यचरणविरचितो बालबोधः सम्पूर्णः ।
तदाश्रयतदीयत्वयोर्बुद्धयै ज्ञानाय किञ्चिदाचार्योपसत्तिरूपं साधनं सदा
निरन्तरमाचरेदित्यर्थः । तत एव तत्सिद्धेर्नाऽन्यथेति तस्याऽवश्यककर्त्तव्यत्व-
माहुः स्वधर्ममिति । “स्वधर्ममनुतिष्ठन्वै लोकः क्षेमाय कल्पत” इति वचना-
त्स्वधर्माचरणे कृते फलं तत्तन्मार्गीयं भवति, न तु तदकरण इति सिद्धम् ।
भक्तिमार्गे च मुख्यः स्वधर्मस्तदुपसत्तिरेवेति सैव कर्त्तव्येति भावः । “आचार्यवान्
पुरुषो वेदे”ति श्रुतेः । श्रीभागवतेऽपि “आचार्य मां विजानीयान्नाऽवमन्येत
कर्हिचित् । न मर्त्यबुद्धयाऽसूयेतं सर्वदेवमयो गुरुः” । अन्यच्च, “यस्य साक्षाद्भग-
वति ज्ञानदीपप्रदे गुरौ । भक्तिर्न स्याच्छ्रुतं तस्य मन्ये कुञ्जरशौचवत्” । पुराणा-
न्तरेऽपि, “हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन । तस्मात्सर्वप्रयत्नेन गुरुमेव प्रसा-
दयेत्” । अतस्तामन्तरेण कृतस्यापि साधनान्तरस्य वैफल्यमाहुर्भारङ्गैगुण्यमिति ।
१ आश्रम कृच्छ्रेणेति तस्योभयनिष्ठधर्मत्वादिति शोधितो ग पुस्तके पाठः । २ सेवेतेति ख, ग.