सामग्री पर जाएँ
सर्वकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 103, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 103

श्रीदेवकीनन्दनचरणकृतप्रकाशव्याख्योपेतः । १५
अन्यथा तदकरणे भारद्वैगुण्यं द्विगुणो भारो भवेदित्यर्थः । फलाभावात्साधनकृतः
तदकरणप्रत्यवायकृतश्चेति भारद्वयम् । उक्तमुपसंहरन्तीतीति । इतीति समाप्तौ ।
एवमुक्तप्रकारेण यावद्वक्तव्यं तावत्सर्वं कथितमित्यर्थः । ननु ततः किमत आहु-
नैतज्ज्ञान इति । एतज्ज्ञाने जाते सति पूर्वस्थितो भ्रमो गच्छति । गतः पुनः
परावृत्य न भवतीत्यर्थः ॥ १९१/२ ॥
चतुर्द्धा लौकिको मोक्षः सदोषत्वान्निरकृतः ।
अतस्त्वलौकिको मोक्षः स्वीकार्यो भगवत्परैः ॥ १ ॥
अन्ततोऽर्थोऽयमेवास्य ग्रन्थस्य फलितोऽभवत् ।
एवमाचार्यकृपया बालबोधः प्रकाशितः ॥ २ ॥
विविधमतनिरूढभ्रान्तिगूढस्वमार्ग-
प्रचलितजनतायाः सुस्थिरत्वाय यत्न ।
स्वमतमवददङ्घिर्बालबोधे तदर्थं
कुरुत मतिमवश्यं सप्रकाशे तदीयाः ॥ ३ ॥
१ इतः परम्—
‘ श्रीमल्लक्ष्मणसूनुना विरचितः पुष्ट्यर्थमोक्षप्रदो
भक्तानाशुभयोस्तु तन्मतिमतां सर्वस्वमस्मिन् कलौ ।
श्रीमद्विठ्ठलदीक्षिताङ्गिकमलोन्मत्तस्रकालिना
श्रीमद्देवकि(?)नन्दनेन विवृतः श्रीबालबोधो मया ॥’
इति पद्यमधिकमुपलभामहे ख.
इति श्रीदेवकीनन्दनचरणकृतौ बालबोधप्रकाशः समाप्तः ।
२ इतः परम्—
तारापण्डितानां द्वे पद्ये
“ निजोद्धरणहेतवे कपटमानुषीमाश्रित-
स्तनुं सुरनरार्चितां विदितविठ्ठलेशान्वये ।
असूत्त रघुनाथतो यमिह जानकी नन्दनं
स एष जगदीश्वरो जयति देवकीनन्दनः ॥
तस्याऽऽज्ञया तत्कृतबालबोध-
प्रकाशसंज्ञो महनीयकीर्तेः ।
ताराभिधेनाऽयमलेखि रम्यो
ग्रन्थो भवग्रन्थिविनाशिसेव्यः ॥”
इति पद्यद्वितयमधिकमुपलभामहे ख.