षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
DevanagariHindipublished408 पृष्ठ
पृष्ठ 101, कुल 408 में से
संदर्भ में पढ़ेंपृष्ठ 101श्रीदेवकीनन्दनचरणकृतप्रकाशाख्याव्याख्योपेतः । १३
श्रीदेवकीनन्दनचरणकृतप्रकाशाख्याव्याख्योपेतः । १३
सर्वात्मभावेन तदीयत्वमेव भक्तिमार्गे मोक्षपदार्थः। तदेवेतरं¹लौकिकवैशिष्ट्यात्पार-
लौकिकमित्युच्यते । अतो नाऽनुपपन्नं किञ्चित् । श्रीभागवते च, "भगवदीयत्वेनैव
परिसमाप्तसर्वार्था' इति । पद्मपुराणेऽपि, 'न कर्मबन्धनं जन्म वैष्णवानां च
विद्यते । विष्णोरनुचरत्वं हि मोक्षमाहुर्मनीषिण' इति । ननु तदीयत्वं भगवदनु-
ग्रहैकसाध्यम् । “यमेवैष वृणुते तेन लभ्य" इति श्रुतेः । अतः कथं स्वकृतिसा-
ध्यश्रवणादिना तत्सिद्ध्यतीत्यत आहुर्मोक्ष इति । यथोक्तरीत्या विष्णोः सकाशा-
न्मोक्षः शिवतश्च भोगः सुलभस्तथा समर्पणेन स्वात्मप्रभृतिसर्वस्वनिवेदनेना-
ऽऽत्मनो जीवस्य तदीयत्वलक्षणो मोक्षो भवेदित्यर्थः । ध्रुवं निश्चितम् । नाऽत्र
काचिदसम्भावनेति भावः । हीति युक्तोऽयमर्थः । अतदीयत्व²कारणाभावात् । ननु
समर्पणस्य तत्साधनत्वे श्रवणादिकथनस्य वैयर्थ्यमायाति, तस्य चाऽनुग्रहैकलभ्यत्वं
न सिद्ध्यतीति चेत् । मैवम् । श्रवणमारभ्य सख्यपर्यन्तमागतस्य समर्पणं भवति ।
नाऽन्यथा । परस्परं हेतुहेतुमद्भावात् । अतस्तत्साधनत्वेन³ श्रवणादिकथनं साधुतमम् ।
किञ्च । आत्मनिवेदनं न स्वकृतिसाध्यम्, श्रवणादिजन्यत्वात् । किन्तु भगवदनु-
ग्रहैकसाध्यम् । यतः श्रवणादि सर्वं तदनुग्रहरूपमेव । भक्तिहेतुनिर्णये तथा
निरूपितत्वात् । अतः सर्वमनवद्यम् । ननु तदीयत्वं मोक्षत्वेन कथं स्तूयते, जन्मा-
न्तरे गत्यन्तरसम्भवेन तल्लक्षणाभावादिति चेत् । एवम् । यथा मोक्षे न पुनरावृत्ति-
र्भवति तथाऽत्र तदीयत्वे सिद्धे पुनरावृत्तिर्मेर्त्यपुनर्भवत्वं लक्षणमस्तीति न तथाऽव-
ध्येयम् । तदुक्तं प्रभुणैव--" ये दारागारपुत्राप्तप्राणान्वित्तमिमं परम् । हित्वा मां
शरणं याताः कथं तांस्त्यक्तुमुत्सहे " इति । हित्वेति समर्पणानन्तरं दारादिषु
स्वीयत्वपरित्याग उक्तः, न तु ज्ञानमार्गीयः । तत्र तु वैराग्योत्पत्तौ तेष्वसद्बुद्ध्या
तत्परित्यागः स्वार्थमेव, न तु भगवदर्थम् । तथा सति स्वस्य भाराभावात्⁴'कथं त्यक्तु-
मुत्सह' इति तन्निर्बन्धं किमिति भगवान्वदेत् । अतो निवेदितात्मनः कदापि न
त्यजति प्रभुरिति सिद्धम् । एवं भक्तिमार्गीयो मोक्षः ससाधनः प्रतिपादितः । यद्यपि
मोक्षलक्षणे सिद्धेऽपि नाऽस्माकमुत्कर्षः समायातः कोऽपि । तथापि “ अधिकं तत्रा-
ऽनुप्रविष्टं न तु तद्धानिरि"ति न्यायेन “ तुष्यतु दुर्जन " इति न्यायेन वा तथो-
क्तम् । वस्तुतस्तु मोक्षेऽक्षरामृतपानमव्यक्तम्, अत्र तु तदधिकः परमानन्दानुभवो
व्यक्तः, इति महत्तheader/तारतम्यम् ।
१ लोकेति ख ग, २ अतदीयकारणेत्यादि क, ३ तत्साधनत्वेनेति क, ४ नेत्यर्थ इति क,