सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ८७
वर्णयिष्याम एवात्र न चः सावयवः क्वचित् ॥ ४१ ॥
कश्चिदस्तीह वक्ष्याम एतदप्यग्रतः स्फुटम् ।
अत एव योगिन इव परमेश्वरस्येच्छावशादेव तथावस्थाने पृथि-
व्यादितत्त्वगणे जडता नास्ति इच्छाविशेषरूपत्वात्, न तु प्रधानादिजडो-
पादनतास्य । अथ तत्रेदन्तानिर्देश्यतारूपा जडता प्रतीयते । तन्न, यथा न
क्वचिदिदन्तानिर्देश्यत्वेऽपि तत्त्वतो जडता तथोत्तरत्र सुष्ठु विचारणाभि-
र्वक्ष्यामः । सर्वात्मत्वे शिवतत्त्वस्य सावयवत्वप्रसङ्गदूषणमपि अग्रे निरा-
करिष्यामो यथा न कश्चित् कस्यामप्यवस्थायां सावयवः स्यात् । स्वयं
शिवात्मतावस्थाने स्वयं विश्वात्मतयावस्थाने च किमपेक्षया भोग्यता
यया सावयवत्वं स्यात् ॥
स्वेच्छातो भावरूपत्वे पराधीना कुतः स्थितिः ॥ ४२ ॥
क्षीरवद्यदि वोच्येत पराधीनं जडं भवेत् ।
एतयैव दिशा शोध्यं शुद्धन्यूनादिदूषणम् ॥ ४३ ॥
अभग्नेस्वस्य रूपत्वे शुद्धन्यूनादिकं कुतः ।
एतद्ग्रहादिके हेम्नि हेमत्वं मुकुटादिके ॥ ४४ ॥
स्थितमेव न हेम्नोऽस्य काचिदस्ति विभेदिता ।
चण्डालसङ्गो वह्निर्न वह्निर्यदि कथ्यते ॥ ४५ ॥
तदेवं स्यादथोच्येत वह्नेः संस्कारचोदना ।
शास्त्रेषु वर्णिता कस्मात्कार्यार्थं कार्यमेव तत् ॥ ४६ ॥
न स्वरूपविभागोऽत्र स्वरूपे तत्स्वरूपता ।
परापरादिभेदोऽत्र तथा तस्य व्यवस्थितेः ।
संज्ञाकरणमात्रं तद्व्यवहाराय कल्पितम् ॥ ४७ ॥
स्वेच्छावशाद्विश्वभावरूपस्य पराधीना न स्थितिरपि तु स्वेच्छा-
यत्तैव । विश्वरूपता क्षीरायत्ता दधिरूपतेव कारणपरिणामसापेक्षा यदि
कथ्येत पराधीनो विश्वात्मा तदा जडः स्यात् चिद्रूपस्यापेक्षानुपपत्तेः,
यावता विश्वरूपत्वे चिद्रूपतैव । अनयैव चिद्रूपताहानिदिशा शुद्धाशुद्धत्वो-
पचयापचयवत्त्वादिदोषः परिहार्यः । स्वं रूपं यस्य स स्वरूपस्तस्य भावे

८८ शिवदृष्टिः [ आ०-३'
चिद्रूपत्वे तदवस्थे शुद्धन्यूनादिदोषाभावात् । मुकुटपतद्ग्रहयोः सुवर्णसाम्येन
सुवर्णत्वम् । तथाहि चण्डालगृहस्थोऽग्निर्यदि नाग्निः स्यात् तदेतदपि
स्यात् । अथ वह्नेर्यदि अशुद्धता न स्यात् तत्तस्य कुतो मन्त्रैः संस्कार-
योगः कार्यसंपादनार्थं शास्त्रे चोच्यते तस्मात् तस्याशुद्धता संभवेत् ।
नैवं, कार्यमेवानुष्ठेयमेव तद्व्यवहाराय न तु स्वरूपे वह्ने`विभागः, स्वरूपे
निजरूपे स्थिते तु वह्नावुपगम्यमाने तत्स्वरूपता वह्निरूपतैव सर्वत्र, तद्वत्
शिवरूपता जगतस्तस्य, तथा ईश्वरस्य तन्मात्रपृथिव्यादिरूपतया व्यवस्था-
नात् परस्थूलसूक्ष्मतादिभेदः । तथा च सर्वत्रैक्ये संसारव्यवहाराय संज्ञामात्रं
तत्कल्पितं भवति ॥ ४७ ॥
व्य१वहारोऽप्यविद्या२ नो तथात्वेनेश्वरस्थितेः ।
तेनैव वा तथा क्लुप्तस्तथा तदनुवर्तनम् ॥ ४८ ॥
न तत्स्वरूपभेदाय शास्त्रं यद्व्यवहारगम् ।
संसारव्यवहारोऽप्यविद्या नाम न पदार्थान्तरं भवति, ईश्वरस्यैव
तथात्वेन लोकयात्रामतया तथावस्थानात् । शास्त्रमपि३ वा व्यवहार-
गामिसंस्कारोपदेशकं न शिवतत्त्वभेदाय, तेनैवेश्वरेण४ तथाग्निसंस्कारादिः
१ ननु चास्तु सर्वत्र तस्यैव व्यवस्थितत्वादैक्यम्, अस्तु च व्यव-
हाराय संज्ञाकरणमात्रं, तथापि यदुपरोधात्संज्ञाकरणमात्रमायाति सोऽपि
कश्चिद्यद्यपि आभासमानत्वात्तन्मयमेव तथापि नाममात्रभेदोऽस्त्येवेत्यत
आह व्यवहार इत्यादि । २ यत्राविद्या नो इति पर्युदासाश्रयेण न निषेधे
तात्पर्यं किंतु स्वयं व्यवहारात्मकाविद्यालक्षणं न भवतीत्यर्थः, तदाह
तथात्वेति । ३ ननु चास्तु संसारव्यवहारस्तदात्मकत्वादपृथग्भूतं व्यव-
हारार्थं पृथग्भूतं कल्पितं विपर्यस्तैरिति च यद्यप्यस्ति तथापि तदर्थं शास्त्र-
नियमेनालं, कृतश्च संसारव्यवहारं सत्यमिति गमयति इत्याशंक्याह शास्त्र-
मिति । अयं भावः—यावद्धि व्यवहारः सत्यभूतस्तावत्तदर्थं शास्त्रमपि
सत्यमेव तन्निरासे तस्यापि न नियम इत्यर्थः । ४ ननु च किमिदमुच्यते
,तथात्वेनेश्वरस्थितिः' इति । यदि च तथात्वमेव तर्हि न व्यवहार-
व्यपदेशोऽपि, व्यवहारव्यपदेशे च न तथात्वव्यपदेश इति पक्षान्तरं समर्थयति
तेनैवेश्वरेणेति । इदं हि स्वातन्त्र्यवादमाश्रित्य समर्थितं, स्वातन्त्र्याद्यथा
संस्कारादि कल्पितं न परमार्थसत्, तथा तदनुवर्तनमपीति पूर्वस्मात्पक्षा-
दाधिक्यमत्र सूक्ष्मधियामेवागन्तव्यम् ॥

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ८६
कल्पितः, तथा च तस्यानुवर्तनं कल्पितम्। ततस्तदिच्छात्मकमेतद्रूपमेव१
नाशुद्धिं भेदं वा शिवतत्त्वस्योपस्थापयति ॥
हेमपिण्डे२ हेमतैव स्याच्चेन्न मुकुटादिके ॥ ४९ ॥
युज्यते वक्तुमेतत्तदनित्यत्वं३ च यत्स्मृतम्।
सत्कृतौ तद्विनिर्णयं या चोल्लङ्घनचोदना ॥ ५० ॥
नियमानुप्रवेशाय शिवे चोल्लङ्घनेन किम्।
भेदश्च जगद्रूपत्वे युज्येत वक्तुं, यदि हेमपिण्ड४ एव हेमता स्यात्
न तु मुकुटादौ५। एवकारो हेमपिण्डस्यानन्तरं द्रष्टव्यः। यच्च भावानां
नाशित्वात्तदात्मनः शिवतत्त्वस्य नाशित्वं चोद्यत्वेन स्मृतं तत्सत्कार्य६-
वादसमर्थनात् निर्णेष्यते। यच्च पादलङ्घननिष्ठीवनादि सर्वत्रात्मनि
शिवे परिहार्यत्वेन चोदितं तत्तदात्मकनियतिशक्तिकृतनियमरूपधर्माधर्मानु-
प्रवेशफलसंसारव्यवहारसंपादनाय। वस्तुतश्च शिवतत्त्वे७ तेनोल्लङ्घनेन
किं दुष्यति न किंचिदित्यर्थः ॥
१ तदिच्छात्मकमेतद्रूपमेवेति पक्षद्वयप्रधानमभेदमेकमेव वस्त्विति
मन्तव्यम्। २ ननु चास्तु यत्राहंपरामर्शो 'गोः स्तनापातातः क्षीर'
इत्यादिनीत्याऽनवच्छिन्न एव तत्राभेदे शिवाद्वयत्वं, यत्र तु स्फुट-
मिदन्तानिर्देशे सावयवत्वादिविकारवत्त्वं तत्र कथमित्याशङ्काशान्त्यर्थ-
माह हेमपिण्ड इत्यादि। ३ ननु च यदि सर्वं भावमण्डलं तदात्मक-
मेव यच्छिवतत्त्वस्यानित्यकार्यपेक्षया नित्यत्वं तत्कथं तथा तन्ममत्वे
तस्याप्यनित्यतेत्यत आह तदनित्यत्वमिति। ४ अवयवविकारमप्राप्ते।
५ अवयवविकारमापन्ने। ६ अयं भावः--यदि कार्यमुत्पत्त्यनन्तरमेव
सत्स्यात् पूर्वं चासत्स्यात् तर्हि चासत्कार्यत्वात्तस्यासत्त्वे शिवतत्त्वस्य
विनाशित्वं प्रसज्येत, पूर्वं च तत्सदेवेति कस्य विनाशित्वं, तदेतदीश्वर-
प्रत्यभिज्ञायामुक्तम्--
'चिदात्मैव हि देवोऽन्तःस्थितमिच्छावशाद्बहिः।
योगीव निरुपादानमर्थजातं प्रकाशयेत् ॥'
इति। ७ शिवतत्त्वे हि धर्माधर्मयोरभाव एव, तच्च लङ्घनादिकमधर्माय
ततो न कर्तव्यं, धर्मोत्पत्तिर्हि तथा स्यात्। धर्माधर्मसंसारव्यवहाराभावे
यथाऽलङ्घनेन न धर्मेण तस्योपयोगस्तथा लङ्घनेनाधर्मेणापि।

६० शिवदृष्टिः [ आ०-३
एवं¹ प्रवर्त्तने तस्य न निमित्तसमुद्गमः ॥ ५१ ॥
यदि स्वरूपविभ्रंशाच्छाक्तरूपादिकल्पना ।
तद्वक्तव्यं निमित्तत्वं किमर्थं रूपमुज्झति ॥ ५२ ॥
यावता सर्वरूपाणां तत्स्वरूपस्वरूपिता ।
जननपरिणामादिरूपतां विनैवैवमवस्थानमात्रलक्षणजगत्स्थिति-
प्रवर्त्तने तस्य न निमित्तं² चोद्यम्पूर्वकार्याभावात् । यदि हि शान्तरूपस्य
शाक्तादिरूपान्तरग्रहणं शिवतत्त्वत्यागे स्यात् तत्कस्यचिदर्थस्यात्र निमित्तं
वक्तव्यं प्रष्टव्यं किमर्थमयं रूपमुज्झतीति । यावता शान्तिरूपतायां शिवे
जगद्रूपतयापि च शिवस्वरूपेणैव स्वरूपवत्त्वम् ॥
शक्तित्रयस्वरूप³ त्वं सर्वं यस्यास्त्यवस्थितम् ॥ ५३ ॥
निमित्तं⁴ कल्प्यते तत्र निमित्तं तत्र कल्प्यताम् ।
अतथात्वे तथाभावो यत्र स्यादथ चोद्यते ॥ ५४ ॥
पुरा शान्तस्वरूपत्वं पश्चात्तादृगवस्थितिः ।
शान्ते⁵ शिवत्वं स्थूलेऽपि शिवत्वं यत्र वर्णितम् ॥ ५५ ॥
तत्र का शान्तता ब्रूहि शान्ते किं वस्तुता न ते ।
वस्तुता चेत्तथाभूतशक्तित्रितयसंगमः ॥ ५६ ॥
इच्छादिशक्तित्रयमयचिदात्मकत्वं सर्वस्यामवस्थितौ⁶ यस्याव-
स्थितमस्ति तत्र निमित्तं कल्प्येत, काक्वा योज्यते किं कल्प्येत नैव
कल्पनीयमित्यर्थः । तत्र हि कल्प्यतां निमित्तं यत्रातद्रूपत्वे तद्रूपतोद्भवः ।
१ ‘तथैवं संप्रवृत्तौ तु निमित्तकलनापतेत् ।’
इति, तत्समर्थयति एवमिति । अयं भावः—प्रवृत्तिकारी हि तदा प्रवृत्तिं
करोति यदि स्वस्मात्किंचिदाधिक्यादिकमनुभवति, यदि च स्वयमेव स
तथाभूतः केन निमित्तेन प्रवृत्तिं करोतीति । २ स्थितिप्रवर्त्तनेऽपि यतस्त-
स्यैवमवस्थानमेव न जननपरिणामादिविकारस्ततो न निमित्तकलना कापि,
यदि ह्याधिक्यं स्यात्तर्हि निमित्तकलनापि स्यात् । ३ इच्छादिसामरस्या-
त्मकं । ४ भ्रूक्षेपपूर्वाभाषणेन योज्यम् । ५ अजगद्रूपे, शिवत्वं पञ्चशक्ति-
सामरस्यात्मकमभेदतत्त्वम् । स्थूले—जगद्रूपे । ६ जगद्रूपस्पन्दक्षोभेऽपि ।

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ६१
अथैवं चोद्यते-पूर्वं १ शान्तरूपत्वमजगद्रूपत्वं पश्चाज्जगद्रूपतेत्य-
पूर्वताया निमित्तं वाच्यमिति । तन्न, यत्राभ्युपगमे, शान्तेऽपि शिवत्वं
स्थूलेऽपि जगद्रूपत्वे शिवत्वमेव वर्णितं तत्र शान्तता शिवरूपता का स्यात्,
ब्रूष्ट्येतत् । शान्तमपि हि तव वस्तु, वस्तु च सत्तामयं, सत्ता भवत्ता
भवनकर्तृता, स्वातन्त्र्यात्मकं च कर्तृत्वं चिद्रूपस्येच्छादिशक्तिमत इति सर्वं
वस्तु शिवः ॥ ५६ ॥
अङ्गाररूपे १ किं वह्नौ वह्निता न क्रियात्मके ।
ज्वालादिकेऽथ सावस्था २ निष्क्रियाज्ञानरूपिणी ॥ ५७ ॥
निरिच्छा न च शक्येत वक्तुमेवं कदाचन ।
अस्ति स्थितोऽसावेतस्यामवस्थायां शिवो यदि ॥ ५८ ॥
नैषा क्रिया भवति किं निरिच्छे किं क्रिया भवेत् ।
निर्ज्ञाने वा ततो ज्ञेयं नाशक्तः काचन स्थितिः ॥ ५९ ॥
अङ्गाररूप एव वह्नौ किं वह्निता न तु ज्वलनसंतपनादिक्रिया-
विष्टे । अथ तत्र ३ वह्निरेवं शिवोऽपि तद्भावभेदाविष्टोऽपि शिव एव ।
क्रियावस्थामुखेनैतत्कथितम् । अथ सक्रिये शक्तिसंभवात् शिवतास्तु
शान्तता ४ तु निष्क्रिया ज्ञेयज्ञानरहिता कार्याकरणात् चिकीर्षालक्षणेच्छा-
शून्या च तेन न शिवः, नैवं शक्यते वक्तुं कदाचन सर्वदा भवनक्रिया-
विरहात् । स्थूलक्रियाविरहे शान्तावस्थायामपि यदि शिवः स्थितोऽभ्युप-
गम्यते तदस्ति स्थित इत्येषा भावस्थानादिरूपा क्रिया किं न भवति, भव-
त्येव । क्रिया च कर्तृस्वरूपभूता, कर्ता च स्वतन्त्रः चेतन एव, स्वेच्छात्तः
प्रवृत्तिः स्वातन्त्र्यं यतः, यतोऽस्ति स्थित इत्यत्र बुभूषातिष्ठासालक्षणेच्छा-
१ यथा ज्वलनसंतापादिवत्त्वमेव वह्नित्वं तदभावे न वह्नित्वमिति स्थितं
तथा भावशक्तिमत्त्वमेव शिवत्वं न तदभाववत्त्वमित्यर्थः । २ अन्ये शक्ति-
मत्त्वे सक्रियत्वे शिवत्वं यतोऽस्ति ततश्च ततोऽन्या सूक्ष्माऽविकल्पा दशा-
वश्यं गवेषणीया, अन्यथा हि ज्ञानज्ञेयसहितत्वाद्विकल्प्यमेव परतत्त्वमपि
स्यात् इत्यतस्तत्र शिवत्वमपि नानुमन्तव्यम् । मतं चेद्विकल्पमध्य एव
पतेदित्याह सावस्थेति । ३ तत्र ज्वलनक्रियाविशिष्टे । ४ यदुक्तं 'शान्तेऽपि
शिवत्वं स्थूलेऽपि शिवत्वं तेन नात्र निमित्तकलना' इति । शान्तत्वे शिवत्व-
मुत्पुंसयितुमाह निमित्ततापादनात्थं शान्तता त्विति ।

६२ शिवदृष्टिः [ आ०-३
स्त्येव। यावच्च तथा कर्तुं भवितुं स्थातुं वा न जानाति तावत् किं क्रिया
भवति। भवतीत्यादि तिङन्तनिर्देशः। तस्मात् ज्ञातव्यं यदुत नेच्छादिशक्ति-
रहिता काचन स्थितिः कस्यचित्। इच्छादिशक्तिमत्ता च शिवता, घटोऽस्ति
हिमालयोऽस्ति, जगदस्तीति च यथा नाधिक्यं शिवतायाः करोस्ति
तथेश्वरप्रत्यभिज्ञायां विचारितम् ॥ ५६ ॥
अथ चित्रत्वमत्रास्ति भावपुञ्जे न तच्छिवे ।
शिवस्य तत्स्वरूपत्वं वैचित्र्यं यत्परस्परम् ॥ ६० ॥
अपेक्ष्य भाववैचित्र्यं तस्य तेभ्यो विचित्रता ।
सर्वं शिवात्मकं यद्वत्कथनीयमिहाग्रतः ॥ ६१ ॥
अथात्र भावानां परस्परतो वैचित्र्यं दृश्यते तच्छिवे चिदेकरूपे
कथं संभवेत् । तत्रापि शिवस्यैव तद्विचित्रस्वरूपत्वं भावानां यदन्योन्य-
वैचित्र्यं, तेषां च घटपटादीनां वैचित्र्यमपेक्ष्य तस्य तेभ्यस्तद्वशात् विचित्रता
भाति चिदेकरूपस्यापि सतः । सर्वं च चित्स्वरूपत्वेन शिवात्मकं यथा
न्यायानुसारेण तथाग्रतो वक्ष्यते ॥ ६१ ॥
जलाहरणशक्तश्च घटो यदि न भण्यते ।
घटः केवल एवात्र तदेवंविधमुच्यताम् ॥ ६२ ॥
यदि चात्र जगत्युदकाहरणशक्तो घटो नोच्यते अपि तु केवलस्त-
त्क्रियावेशशून्य एव घटः, तदेतत्सद्दशमेवं केवल एव शिवो न जगद्रूप
इत्येतदप्युच्यतां, यावता नैवं¹ तत्सर्वदापि शिव एव ॥ ६२ ॥
नानावादैर्नो विरोधः कथनीयमिहाग्रतः ।
उक्तं² वा कालपादादावागोपालाङ्गनादिना ॥ ६३ ॥
१ उदकाहरणशक्त एव । २ आदौ स्वशास्त्रत आह उक्तं वेति ।
ननु कथं नानावादैरविरोधः सर्वत्र भिन्नभिन्नार्थकल्पनात् ततश्चाह
उक्तं वेति । अयं भावः--आप्तप्रणीतत्वं ह्यागमत्वं, तच्चादौ तन्त्रागमानां
साक्षाद्भगवच्छिवभट्टारकोक्तत्वात्, श्रुतीनामप्यनादित्वकथनादस्त्येव,
इतिहासपुराणादिषु तदर्थविधारणादस्त्येव प्रमाणत्वं, तस्मादेकस्यैवा-
शेषजगत्प्रसूतिहेतोर्महाविभूतेरीश्वरस्य सृष्टिस्थितिप्रलयकार्यविभागयोगा-
द्ब्रह्मेति विष्णुरिति रुद्र इति व्यपदेशः, अन्येषां पुनरनाप्तप्रणीतत्वान्न
प्रामाण्यम् । तदेतत्त्रिधैवागमप्रामाण्यं संवादयति उक्तं वेत्यादिना ।

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ६३
तदैक्यं¹ खेटपालोऽपि प्राह या काचन स्थिता ।
शक्तिः पदार्थजातस्य देवदेवस्य साखिला ॥ ६४ ॥
शक्तिशक्तिमतोरुक्ता सर्वत्रैव ह्यभेदिता ।
एको³ रुद्र इतीत्यादि श्रुतावुक्तं तथा परः ॥ ६५ ॥
पुरुषः सर्वमेवेदमितिहासादिषूदितम्⁴ ।
महेशस्याष्टमूर्तित्वं यावत्पार्थिवमूढता ॥ ६६ ॥
साऽरोदीदिति⁵ वेदेऽस्ति नार्थवादो निरर्थकः ।
विध्यङ्गत्वेन चेत्सत्या नासत्यस्याङ्गता स्थिता ॥ ६७ ॥
अर्थवादादपि फलं रात्रिक्रतुषु दर्शितम् ।
नानादर्शनैश्चास्मिन् शैवाद्वैते नो विरोध इत्यग्रे कथनीयम् । स्व-
सिद्धान्त एव वा श्रीकालोत्तरादावुक्तमेतत्--
'आगोपालाङ्गनाबाला⁶ नित्यमेव ब्रुवन्ति तम् ।'
इत्यादिना मन्त्रात्मशिवरूपत्वं जन्तूनाम् । गुरवोऽपि शिवैक्यमुपदिशन्ति ।
तथा च खेटपालगुरुः प्राह 'या काचन' इत्यादि । यतश्च देवदेवशक्तिरेव
पदार्थशक्तिरुक्ता, शक्तिशक्तिमतोश्च न भेदस्ततो देवदेव एव पदार्थ
१ गुरुत आह तदैक्यमित्यादिना । २ सर्वेषामत्राविरोधमाह ।
३ श्रुतिप्रमाणमाह । ४ अविगीतशिष्टप्रामाण्यमाह । ५ विधिरूपस्य
वाक्यस्य साक्षादनुष्ठेयेपरत्वादस्तु प्रामाण्यमर्थवादरूपस्य पुनः साक्षात्तत्रा-
संबन्धान्न तत्र प्रामाण्यमिति केषांचिद्विधिपरत्वात्केषांचिदर्थवादपरत्वान्न
परस्परं तयोः संबन्ध इति कथं सर्वत्रैक्यवाद इत्याशङ्क्याह सोरोदीदिति ।
६ 'उतेनं गोपा अदृशन्नुतेनम उदहार्यः ।'
इति श्रुतिश्च । महार्थमञ्जर्यां च--
'यं जानन्ति जडा अपि जलहार्योऽपि यं विजानन्ति ।
यस्यैव नमस्कारः स कस्य स्फुटो न भवति कुलनाथः ॥'
इति ।

३. पञ्चम-षष्ठ आह्निक: वैशेषिक, सांख्य, बौद्ध एवं वेदान्त मत समीक्षा

६४ शिवदृष्टिः [ आ०-३
इत्युक्तं भवति । यदिदं "इदं स एको१ रुद्रः" इति च रुद्रैक्यम् । तथा
'परः पुरुष२ एवेदं सर्वं' इति चोक्तं वेदे । पुराणेतिहासादिषु३
चाष्टमूर्तित्वमुक्तं महेश्वरस्य यत्रात्यन्ततामसपार्थिवतत्त्वरूपेण मूढतापि
स्वरूपमेव ॥
"सोऽरोदीत्४" इति च रुद्रशक्तिनिर्वचनेऽपि वेदेनोक्तं तदैक्‍यम् ।
अर्थवादोऽयमसत्यार्थो५ विध्यनुष्ठानतात्पर्यादित्येतदपि न युक्तम् । अर्थ६-
१ 'एको रुद्रोऽवतस्थे न वै द्वितीयो कश्चन ।'
इति । तथा—
'यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो वनस्पतिषु ।
यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु देवाः ॥'
२ 'पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् ।'
इति ।
३ यथा सिद्धस्तुतौ—
त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह-
स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।
परिच्छिन्नामेव त्वयि परिणतां बिभ्रतु गिरं
न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ॥'
इति । अत्रापि भगवतो महेश्वरस्यैकात्म्यमेव सर्वत्र दर्शितम् । तथाहि
पञ्चभूतान्येव सर्वं विकारावस्थापन्नं जगदिति स्थितम् । तत्र यत्सूक्ष्मं
प्रमाणप्रमेयात्मकमवस्थायुगलं तदर्कसोमशब्दाभ्यामुक्तं, यतोऽत्रैवाहन्ते-
दन्तायुगलकमपि सदाशिवादिव्यपदेशेन विश्राम्यति किं पुनरन्यत्र कथनीयं
यत्र संहृतं पार्थिवं घनं तत्त्वमपि शिव एव अत एव तस्यान्तेऽत्र व्यपदेशः ।
अभेदमेवैषामाहात्मेति, एषां सर्वेषां स्पन्दविशेषाणां यदभेदात्मकं प्रत्यग्रूपं
तदेव भवानस्तीति किमन्यद्यत्र भवत्स्वरूपापह्नवः । ४ 'सोऽरोदीद्यदस्य
रुद्रस्य रुद्रत्वम्' इति । अयमर्थः—यत्तस रुद्रोऽरोदीत् सुस्राव शक्तिद्वारेण
विश्वरूपतयास्थात् तदस्य रुद्रस्य रुद्रत्वं रुद्राभेदमयत्वम् । ५ अप्रवृत्त-
प्रवर्तनं विधिः, तथा साक्षादुपदेशकत्वं विधिः । प्रवृत्तस्यान्वाख्यानमर्थवादः,
तथा परम्परोपदेशकत्वमर्थवादः । अत्रार्थवादे साक्षादुपदेशाभावमा-
शङ्क्यार्थवादोऽयमिति । विध्यनुष्ठितस्यैव ह्यर्थस्यार्थवादः समर्थकस्ततश्च
साक्षादनुष्ठानाभावान्नार्थवादस्य सत्यत्वम् । ६ यद्यर्थवादस्य विध्यङ्गतया
सत्या तर्हि कथं स्वयमसत्यार्थपरत्वमित्यर्थः । यथाहि 'वायव्यं श्वेतमज-

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ६५
वादस्य या विध्यङ्गता सत्या सा कथमसत्यार्थस्य स्यात् । स्वार्थमभिदधान
एव हि अर्थवादो भवति, न च वेदेऽपि मिथ्यार्थता, रात्रिक्रतुषु¹ चार्थवाद-
प्रामाण्येनैवानुष्ठेयत्वात् फलं प्रदर्शितं जैमिनीयैः ॥ ६७ ॥
बन्धमोक्षौ न विद्येते सर्वत्रैव शिवत्वतः ॥ ६८ ॥
विज्ञानमीदृक्सर्वस्य² कस्मान्न स्याद्विमोहिता ।
सैवैषा सा च संसारो बन्धमोक्षावतः स्थितौ ॥ ६९ ॥
मालभेत भूतिकामः’ इति विधिः । ‘वायुर्वे क्षेपिष्ठा देवता, वायुमेव स्वेन
भागधेयेनोपधावति स एवैनं भूतिं गमयतीत्यर्थवादः । तत्र विधिवाक्यगता
वायव्यादिशब्दा अर्थवादशब्दनैरपेक्ष्येणैव विशिष्टमर्थं विदधति, अर्थवाद-
शब्दाश्चेतरनैरपेक्ष्येणैव भूतार्थमन्वाचक्षते, क्षिप्रगामी वायुः स्वोचितेन
भागेन तोषितो भागं प्रदायैश्वर्यं प्रयच्छतीत्युक्ते रामायणभारतादाविव
कश्चित्प्रतीयते न त्वनुष्ठेयं किंचित्, अत एकवाक्यत्वाभावान्नास्त्यर्थ-
वादस्य प्रामाण्यमिति विधिप्रामाण्यवादिन आहुः ।
अत्राहुर्जैमिनीयाः, माभूद्विध्यर्थवादयोः पदैकवाक्यता, वाक्यैक-
वाक्यता तु भवत्येव । विधिवाक्यं तावत्पुरुषं प्रेरयितुं विधेयार्थस्य प्राश-
स्त्यमपेक्षते, अर्थवाक्यं च फलवदर्थावबोधपर्यवसिताध्ययनविधिपरि-
गृहीतत्वेन पुरुषार्थमपेक्षते, ततः पुरुषार्थपर्यवसितविध्यपेक्षितप्राशस्त्यं
लक्षणावृत्त्या समर्पयदर्थवादवाक्यं विधिवाक्येन सहैकवाक्यतामापद्यते,
यतः क्षिप्रगामिस्वभावतया शीघ्रफलप्रदो वायुरस्य पशोर्देवता, ततः
प्रशस्तमिमं वायव्यं पशुमालभेतेति वाक्ययोरन्वयः, तस्मादर्थवादः
प्रमाणमिति । १ रात्रिक्रतुष्विति, तत्र ह्यर्थवादेनैवार्थः पूर्यते इति न
प्रतीत्यङ्गत्वमेवार्थवादस्य कार्याङ्गत्वमपि । यथा ‘प्रतिष्ठन्ति ह वा
एता रात्रीरासत’ इत्यश्रूयमाणाधिकारस्य रात्रिमात्रविधेरधिकारांशोऽ-
र्थवादादेव लभ्यते । तत्र हि ‘प्रतिष्ठाकामाः सत्रमासीरन्’, इत्यर्थवाद-
वशाद्वाक्यार्थः । क्वचिद्विधिवाक्यस्यार्थसन्देहेऽर्थवादात्मकाद्वाक्यशेषात्त-
न्निश्चयो भवति । यथाक्ताः शर्करा उपदधातीत्यञ्जनद्रव्ये घृततैलवसादि-
भेदेन संदिह्यमाने ‘तेजो वै घृतम्’ इत्यर्थवादाद्घृतेनाक्ताः शर्करा उपाधेया
इति गम्यते । २ यदुक्तं--
‘सर्वभावशिवत्वेन नास्तिता बन्धमोक्षयोः ।’
इति दूषणं तदपि दूषयति विज्ञानमित्यादि । अयंभावः--सर्वभावशिवत्वे

६६ शिवदृष्टिः [ आ०-३
सर्वस्य शिवत्वे बन्धमोक्षाभावात् शिवोऽहमिति सर्वस्यैव किमिति
ज्ञानं न भवतीति। अत्राप्युच्यते-यथा सैवैषा विमोहिता, एवं--
'अज्ञानलक्षणा सा च संसारो बन्ध उच्यते'
इति स्थितावज्ञानरूपौ बन्धमोक्षौ ॥ ६६ ॥
विभिन्नशिवपक्षे १ तु सत्ये दार्ढ्यं २ परत्र नो।
प्रतीतिमात्रमेवात्र तावता बन्धमोक्षता ॥ ७० ॥
यदा तु सर्व एव भावाः कर्तृत्वादेच्छादिशक्तियोगात् प्रत्येकं
शिवरूपा इति पक्षः, तदा तत्र विभिन्नशिवपक्षे सत्ये यथा स्थितस्यार्थभेदस्य
दार्ढ्यम्। यदा त्वेकशिवत्वमेव तत्त्वं तदा तस्मिन् पक्षे न दार्ढ्यं भेदस्य,
अपि तु शिवाभेदप्रतीतिमात्रं मोक्षस्तदप्रतीतिस्तु ३ बन्ध इति तावता
प्रतीतिमात्रेण, न तु वस्त्वन्यथात्वे बन्धमोक्षयोर्बन्धमोक्षता ॥ ७० ॥
बन्धमोक्षयोरभेद इति पक्षे समर्थयति ईदृग्विज्ञानं सर्वस्य कस्मात् न भव-
तीति, शिवोऽहमिति सर्वस्यैव प्रतीतावस्त्वेव बन्धमोक्षाभाव इति पृष्टे
सिद्धान्तवादी एनमेव पक्षं तदुक्तिदोषोद्भावनपूर्वमर्धोक्तयैवोत्तरपक्षेण
समर्थयति--यथा 'विज्ञानमेतत्सर्वस्य कस्मान्न स्याद्विमोहिता।' अय-
म्भावः--यत्सर्वस्य शिवोहमिति भेदज्ञानं सैव विमोहिताज्ञानलक्षणो भ्रमः,
तथा च बन्धनिरासार्थं मोक्ष एव ॥
१ ननु किमिदं भवद्भिरपूर्वदोषारोपणं क्रियते--
'विज्ञानमीदृक्सर्वस्य कस्मान्न स्याद्विमोहिता।'
इति। सर्वस्याहमित्यखण्डपरिपूर्णाहन्तापरामर्शे विमोहिता क्वान्यत्रा-
विमोहित्वं स्यादित्यस्यैव तात्पर्यं तावद्विवेचयति विभिन्नेति। इदमत्र तात्पर्य-
यदि सर्वस्येत्यत्र भिन्नापेक्षया सर्वनामनिर्देशस्तर्हि भेदेनानेकत्वेऽर्थभेदोऽ-
स्त्येव तदपेक्षया मोक्षः इति बन्धमोक्षव्यवस्था स्थितैव। अथ सर्वशब्दो
न भिन्नप्रमात्रपेक्षया किंतु सर्वस्यैकमेव विज्ञानात्मकमभेदसारमहमिति
विमर्शनं तच्छिवाभेदप्रत्यवमर्शस्य मोक्षप्रतीत्या बन्धस्याप्यनुषङ्गोऽस्त्ये-
वेति सिद्धं समीहितमस्माकं, परमार्थतो वस्तुवृत्त्या न किंचनापि बन्धमोक्ष-
व्यपदेशः प्रतीतिमात्रेणास्तीति ॥ २ परमार्थभेदेऽर्थभेदस्यैव दार्ढ्यं भेद-
दार्ढ्यं। परत्र एकत्वपक्षे। ३ तदयमर्थः--प्रतीतप्रतीतिभ्यां मोक्षबन्ध-
व्यवस्थाया व्यवस्थितत्वाद्यदुक्तं नास्तिता 'बन्धमोक्षयोः' इति, तदसिद्धं।

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ६७
नासत्ये१ सत्यबुद्धित्वखण्डनान्नास्ति काचन ।
कथनं सर्वसाम्याय विवादिहननाय च ॥ ७१ ॥
न चाप्यत्र भेदेष्वसत्येषु सत्यबुद्ध्या भ्रान्तिरूपा खण्डनास्ति
वेदोक्तवत्२, यतो भावानां सर्वेषामेव शिवरूपत्वे स्थिते बहुत्वमेकत्वं३
वा । यत्पुनः४ शिवतत्त्वेनैक्यस्य कथनं तत्सर्वेषां शिवतत्त्वेन साम्यायो-
त्कर्षापकर्शनिवारणाय, यदि वा ये शिवत्वं भावानां न प्रतिजानते तद्विवादि-
पराजयाय ॥ ७१ ॥
तथा५ तथा शिवावस्था स्वेच्छात्तः स तदात्मकः ।
तदात्मत्वे नास्ति बन्धस्तदभावान्न६ मोक्षणम् ॥ ७२ ॥
भेदेऽपि तथा भेदरूपेण शिवस्यावस्थानं स्वेच्छावशात्, स च भेदः
शिवात्मकः । एवं७ च भेदस्य शिवात्मकत्वे नास्ति बन्धस्तदभावात्
तदपेक्षो न मोक्षोऽपि ॥ ७२ ॥
न च बन्धमोक्षव्यवस्थानच्छिन्नाद्वयतात्पर्यं खण्ड्यते प्रतीतिमात्ररूपत्वाद-
बन्धमोक्षयोर्न वस्त्वन्यत्वसंभवः । १ अस्तु प्रतीतिमात्ररूपत्वमेव बन्ध-
मोक्षयोरस्तु च वस्तुतः शिवाद्धयमयत्वमेव तथापि यदि प्रतीतिमात्रसत्त्वं
तदेव र्तहि प्रमाणीकर्तव्यं, यदि च शिवाद्धयमयत्वमेव तर्हि तदेव कोऽयं
नयः वस्तुद्वयत्वकथने इत्याशङ्कां निवर्तयितुमाह नासत्य इति । २ वेद-
प्रक्रियायां हि संकोचतारतम्यकथनात् 'नेह नानास्ति किंचन' इत्यादि-
वाक्यैरसत्येषु भेदेषु सत्यबुद्धिर्भ्रान्तिरेवोक्ता । अयं भावः--अस्मन्मते
सर्वथा शिवैकरूपत्वं प्रतिपादनीयं तच्च भावानामेकत्वमस्तु अनैकत्वं
वास्तु न केनापि खण्ड्यत इति । ३ यद्यपि वस्तुतः शिवरूपत्वे सर्वेषां
बहुत्वमेकत्वं वा न विरोधावहमिति तथात्वकथने न कोऽपि दोषः । तथाप्य-
द्वयवादोक्तिः, शिवतत्त्वे न कस्यचिदुत्कर्षः नापि कस्यचिदपकर्ष इति
कथनार्थम् । तथा बहुत्वैकत्वकथने पदार्थस्वरूपमेव तथा तथा स्यादिति
पदार्थवाद एवाभ्युपगतो भवेदित्यर्थः । ४ ननु यदि बहुत्वैकत्वकथनं
तुल्यमेव र्तहि कृतमद्वयवादेनेत्याह । ५ तदेवं वाद्युन्मथनपूर्वं बन्धमोक्ष-
व्यवस्था दृढीकृता, शिवाभेदतात्पर्यं च तेनैव सिद्धान्तितम् । अथेदानों
परमार्थतो व्यवहारेऽपि शिवाभेदं समर्थयति तथा तथेत्यादिना । ६ बन्ध-
पूर्वत्वान्मोक्षस्य । ७ अत्रापि च स्फुटं बन्धमोक्षनिषेधेऽपि बन्धमोक्ष-
व्यवस्था व्यवस्थितैवेति बोध्यं तथा तथेति कथनात्, स्फुटीभविष्यति
चेतत् ।

६८ .शिवदृष्टिः [ आ०-३
किमर्थं गुरुशास्त्रादि चेत्थं१ तदवस्थितेः२ ।
देवस्य३ शास्त्राद्बोधेत किं प्रयोजनमेव च ॥ ७३ ॥
किमर्थं४ भवतारब्धं शास्त्रं बोधाय कस्य वा ।
तथा भेदरूपतया शिवस्यैवावस्थितेर्हेतोर्मोक्षाभावात् किमर्थं
गुरुशास्त्रानुष्ठानादिकम्५ । नहि देवस्य नित्यप्रबुद्धस्य शास्त्रेणोद्बोधनं
सप्रयोजनम् । आस्तामन्यानि शास्त्राणि, त्वमेव शिवैक्यवादी वा किमर्थं
शास्त्रमारब्धवान् कस्य बोधाय ॥ ७३ ॥
स एवेत्थं स्वेच्छयास्ते तत्कर्तृत्वेन बोध्यतः ॥ ७४ ॥
स एव बुद्धरूपत्वे तथा भवति तत्क्षणम् ।
स एव संप्रजायेत तदनुष्ठानतत्परः ॥ ७५ ॥
फलं वा तदनुष्ठाने स एव हि तदा भवेत् ।
देव एवानेन प्रकारेण स्वेच्छया निष्प्रयोजनमास्ते । तदेव दर्शयति—
तदस्मदादिशास्त्रकर्तृत्वेन तथा बोध्यतो बोध्यं शिष्यरूपमासाद्यास्ते ।
तथा तस्मिन्नेव काले प्रबुद्धरूपत्वे वा स्थितो भवति । तथा शास्त्रा-
नुष्ठानपरः संपद्यते । तथार्थकामादिफलरूपत्वेनापि स एव स्वकाले
भवति ॥ ७५ ॥
वादित्वप्रतिवादित्वे कस्माच्चेतस्य तत्स्थितेः ॥ ७६ ॥
व्यवहाराय वा सर्वं व्यवहारो न वस्तुगः ।
स्वरूपं वस्तुगं विद्धि व्यवहारो न जातुचित् ॥ ७७ ॥
तदीश्वरो व्यवस्थानाद्वस्त्वभासरूपतः ।
३ तथेति भेदरूपतयापि तस्य शिवभट्टारकस्य । ४ दीव्यति क्रीड-
तीति देवः, हर्षानुसारी स्पन्दः क्रीडा । तथा सदा द्योतमानोऽपि देवः ।
५ अपूर्वबोधनार्थं हि शास्त्रप्रवृत्तिः, तथा च सप्रयोजनता । ६ अन्येषां हि
द्वैतकथनाज्ज्ञानार्थमस्तु तत्र प्रवृत्तिः, भवतां तु तदभावान्न युक्तेत्याह
किमर्थमिति । ७ न च भवतां तत्प्रकटीकरणार्थमपि तत्र प्रवृत्तिः, तथा च
स्वतन्त्रस्य देवस्य स्वातन्त्र्य हानिः स्यात् ।

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ६६
तवैक्ये दर्शनभेदाभावात् वादित्वं प्रतिवादित्वं च कुतः, यदुक्तं
‘विवादिहननाय’ इति, तदेतदपि तस्यैव तथा स्थितेः । लोकव्यवहाराय
वा सर्वं शास्त्रवादिप्रतिवाद्यादि । लोकव्यवहारश्च तद्भेदाख्यातिमयो
न वस्तुगतः । यत्पुनः स्वरूपेण प्रकाशते तच्छिवरूपवस्तुवात्मकमेव,
व्यवहारस्तु न कदाचित् वास्तवोऽपि तु भ्रम एव, अवस्त्वपि ईश्वरात्मैवा-
वस्त्वभासरूपेण तस्यावस्थानात् । अत एव ईश्वरप्रत्यभिज्ञोक्तनीत्या
तदवस्त्वपि प्रकाशमानं चिद्रूपमेव, केवलं बाह्ये१ प्रकाशनाभावादवस्तु
उच्यते ॥ ७७ ॥
तदाह—
सर्वमेकेन रूपेण यद्विचायं तथाग्रतः ॥ ७८ ॥
सर्वं वस्तु अवस्तु च शिवरूपं यतस्तथाग्रे विचारणीयमेव ॥ ७८ ॥
धर्माधर्मैश्च२ संबन्धस्तथा तच्छिवसंस्थितेः ।
तत्फलाफलयोगेन युक्तता तस्य तत्स्थितेः३ ॥ ७९ ॥
तयोः फलेन न्यूनतया४ वा विपरीतेन फलेनाफलेन योगः ।
अथवा फलेनायोगोऽथवापि अधर्मस्याफलेनानिष्टेन फलेन योगः, तेन
हेतुना युक्तता न्याय्या शिवस्य तथा स्थितेर्हेतोः, सर्वथा यद्यत्प्रतिभासते
तच्चिद्रूपशिवात्मकमेव ॥ ७६ ॥
निमित्तसमवायादिवैचित्र्यात्तद्विचित्रता ।
कारणस्यैकरूपत्वे न दोषस्त्रितयात्मता ॥ ८० ॥
न राजाज्ञा समादिष्टा स्वयं वा स निमित्तकम् ।
समवायि तदिच्छैव तद्योगः सहकारणम् ॥ ८१ ॥
तस्यैव वा त्रिरूपत्वं व्यपदेशात्तथाविधम् ।
१ बाह्य इत्यनेन बाह्य एव तस्य भ्रमतवमवस्तुत्वं वास्तु स्वरूपे न
भ्रमतवं नाप्यवस्तुत्वमित्यर्थः । २ यच्चोक्तं—
‘धर्माधर्मौ न संबद्वौ शिवस्य न तयोः कृतिः ।
ततश्च शिवमद्वैतं बाध्येताकृतार्थता ॥’
इति, तच्च परिहरति धर्मैत्यादिना । अत्रापि पूर्वोक्तं सर्वं व्यवहारादिक-
मनुसर्तव्यम् । ४ ‘अभावे स्वल्पभावे’ इति नञर्थमाश्रित्य विवृणोति
न्यूनतया वा विपरीतेति ।

शिवस्यैवैकस्य कारणत्वे निमित्तसमवाय्यसमवायित्ववैचित्र्येण
तस्य विचित्रता त्रितयात्मताख्या न दोष उक्तन्यायेन, यतो राजाज्ञा न
समा तुल्योपदिष्टा, अपि तु राजाज्ञारूपसाम्येऽप्यन्यथा भेदः। तद्वत्
तन्तुरूपेण संयोगरूपेण च स निमित्तमप्यास्ते। अथ वा स्वयं स ताव-
न्निमित्तकारणं, तदिच्छा समवायिकारणं, घटादिवस्तुनः सत्तेच्छान्वयात्
स एव चावयवसंयोगः सहकार्यसमवायिकारणमित्यर्थः। अथवा तस्यै-
कत्वेऽपि त्रित्वं यथोक्तप्रकारं व्यपदेशात् व्यवहारात् सर्वभेदव्यवहारस्या-
भेदाख्यातिरूपत्वम् ।। ८१ ।।
न¹ पृथिव्यादिके तस्मिन्² कल्पना संप्रवर्तते ।। ८२ ।
तथात्वेनैव³ क्लृप्तत्वात्तदेतत्कल्पना⁴ भवेत् ।
तदेव⁵ तत्कल्पितं किं सत्ये नामास्तु⁶ कल्पना ।। ८३ ।।
न च पृथिव्यादिरूपतया प्रतीयमाने भावजाते शिवरूपिता
कल्पिता भवति⁷, वस्तुस्थित्यैव⁸ पृथिव्यादिरूपेण९ वा शिवतत्त्वस्यैव
क्लृप्तत्वात्१०। अतद्रूपं¹¹ तद्रूपं यदावसीयते यथा मनोराज्यादि, तदा
१ यदुक्तं 'पृथिव्यादिकल्पनया कल्पनावान्' इति । यदि
मायापरमाण्वादिकारणभावेन तत्तत्कर्तृत्वमस्याभ्युपेयते, तदा
भिन्नवस्तुसद्भावात्केन विकल्पतास्य भण्यते। यदि तु तदभावेन
कल्पना तर्हि भिन्नवस्तुशून्यत्वेन विकल्प एव, तच्च शून्यप्रायं तदात्मकत्वे
शिवतत्त्वमपि शून्यप्रायमेव संबोभवीतीति पूर्वाशयः, तदेतत्समर्थयति
नेत्यादिना। २ तस्मिन् शिवतत्त्वे । ३ तस्यैव तत्तद्वैचित्र्येणापि व्यवहारे
स्थितत्वात् । ४ अप्रतीयमाने प्रतीयमानत्वम् । ५ शिवतत्त्वनेव पृथिव्यादि
कल्पितम् । ६ नामेति परतोषार्थमनुमतिः । ७ यतः--
'स्वामिनश्चात्मसंस्थस्य भावजातस्य भासनम् ।
अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते ॥'
इति प्रत्यभिज्ञोक्तनीत्या यतस्तत्तद्विभिन्नाभासभावराश्यभावेऽपि सर्वमस्त्येव
ततश्च कस्यातद्रूपस्य तद्रूपाभासनं नाम नवमाभासनं कल्पना कल्पितं
भवेदिति भावः। ८ परमार्थनयेन । ९ व्यवहारदृशा । १० स्वयं संपन्नत्वात् ।
११ पूर्वमनतद्रूपमधुना तद्रूपम् । ननु क्वान्यत्र कल्पितत्वं नामेत्यत आहात-
द्रूपमिति, मनोराज्यादावपि संविद एव तत्तदाभासाभासनसामर्थ्यमिति,

अ. ०–३ ] उत्पलदेवकृतवृत्त्योपेता १०१
तत्कल्पना कल्प्यमानं भवेत् । यावता १ साक्षाच्छिव एव सर्वमिति वस्तु-
स्थित्या पृथिव्यादि शिव एव, शिवत्वेन किं२ कल्पितं भवति न भवत्ये-
वेत्यर्थः । अथ सत्यतस्तस्मिन्नेव३ कल्पनेति कथ्यते तद्वस्तु, अतस्तत्र
कल्पनेति नामकृतिः४ ॥ ८३ ॥
तदेवोदाहरति—
कटकेऽस्ति५ सुवर्णत्वं कुण्डले कल्पनास्ति किम् ।
चित्रवह्नावशोकादौ कल्पना राजते क्वचित् ॥ ८४ ॥
क्लृप्तकल्पनयोर्भेदं ये न जानन्ति नौमि तान् ।
कटके किं सुवर्णत्वं सत्यं कुण्डले तु कल्पितं, नैवेत्यर्थः । चित्रगते
वह्नौ, अशोकपुष्पादौ रक्ते वह्निकल्पना शोभते क्वचिदवसरे७ पृथिव्यादि-
रूपेण६ शिवः क्लृप्तः संपन्नः स्वयं स्थित इत्यर्थः । कल्पितं पुनः स्वयं स
तथा केवलमिष्यते तेन रूपेणेति क्लृप्तस्य स्वयंकॢप्तेस्तथा संपत्तेः,
कल्पनायाश्च स्वयमतथाभूतस्य तथा संभावनामात्ररूपाया ये शब्दार्थत्वे न
भेदरूढास्ते वन्द्या इत्युपहासः ॥ ८४ ॥
शिवतत्त्वे८ सानुभवे पश्यन्त्या९ न समानता ॥ ८५ ॥
तत्रापि यदि कल्पितत्वं नास्ति तथाप्येतादृङ्नये तत्र कल्पितत्वं वादि-
वादसमर्थनार्थमुपगतम् । १ एकान्तनिश्चयेन । २ यदि हि पृथिव्यादि पूर्वं
न समभविष्यत्तदतद्रूपत्वात्तद्रूपावभासे मनोराज्यादिवद्वस्तुशून्यतया कल्पित-
मेवाभविष्यत्, न तु पूर्वं नास्तीति संभावनाप्यस्तीति पूर्वमपि तद्रूपत्वाद-
धुनापि तद्रूपत्वं कल्पितं न भवेदित्यर्थः । ३ तस्मिन्नेव शिवतत्त्वे ।
४ परमार्थतो नात्र भेद इत्यर्थः । ५ कटक इव सुवर्णत्वं तदन्तः स्थितं
विश्वं, कुण्डल इव पृथ्व्यादिरूपतया स्थितम् । ६ अयं भावः,—असत्ये
सत्यसंभावना क्वचिदवसरे शोभते, किं पुनर्वक्तव्यं तद्रूप एव सत्ये
संभावनेति । ७ ननु किं यथाऽशोकादावसत्ये सत्यवह्निसंभावना, तथात्रापि
यदि, सिद्धमस्मदिष्टमित्यत आह पृथिव्यादीति । ८ ननु चास्तु
पृथिव्यादिकल्पनायामपि तस्याविकल्पता तद्रूपतावभासनाभावात्, पूर्वमपि
तस्य तद्रूपत्वेनैव स्थितत्वात् । अथेदानों तदेव पूर्वभावि शिवतत्त्वं समर्थ-
नीयं येनाधरमपि तस्य सिद्ध्यति तत्र चाहंपरामर्शो नाम वाग्रूपत्वाद्वि-
कल्प एवेति कथं तत्राविकल्पत्वमित्याशङ्क्याह शिवतत्त्व इति । तथा
यत्पुनः पूर्वपक्षे प्रत्यवस्थितं 'शिवतत्त्वे सानुभवे पश्यन्ती तुल्यता तदा ।'
इति, तदपि समर्थयति शिवतत्त्व इत्यादिना । ९ अत्र पश्यन्त्येति कारणे
कार्योपचार इति दृष्टा पश्यन्तीदूषणेरित्यर्थः ।

१०२ शिवदृष्टिः [ आ०-३
यतो गान्धिकसौगन्ध्यवत्पश्यन्नविकल्पकः ।
शिवतत्त्वे¹ चिदात्मनि विश्वनिर्भरे विश्वानुभवरूपे पश्यन्त्या
पूर्वोक्तदूषणया² न समानता । यतो यथा गा³न्धिकोऽनन्तगन्धद्रव्यसौगन्ध्य-
मियत्तया अनवधारयन्नक्रमेण सर्वमवधारयन्नास्ते, तथा विश्वान् भावान्
देशकालक्रमशून्यान्⁴ वाच्यवाचकात्मनः पश्यन्नविकल्पः शिवो भवति,
अहमित्येव⁵ पूर्णाहंभावेनैषां प्रकाशनात् । अहंपरामर्शवानप्यविकल्पको
१ 'यान्युक्तानि पुराप्यभूनि विविधैर्भेदैर्भवैश्चान्वितं
रूपं भाति परप्रकाशिनिविडं देवः स एकः शिवः ।'
इति नीत्या यदनुस्यूतं महासामान्यनीत्या तच्छिवतत्त्वम् । उक्तं च
भाषासूत्रेषु, 'यद्विश्वं तत्तस्याभ्यन्तरता' इति । २ पूर्वोक्तदूषणयेति ।
किमसावनुभवति ? किमात्मानमुत परात्मानं ? किमनुभूतमुताननुभूतं ?
किं क्रमिकमुताक्रमिकमित्यादि ? । ३ अत्र गान्धिक इति दृष्टान्तकथनं
तत्तदनन्तवस्तुगन्धस्याक्रमावबोधनार्थं तेन च विकल्पताहानिः फलं तस्य
वस्तुद्वयसापेक्षत्वात् । ४ देशकालक्रमशून्यानिति, भेदस्याभाससदसत्त्वरूपत्वात्
क्रमस्य च भेदाश्रयत्वात् तच्चाभाससदसत्त्वं प्रभोः प्राभवी शक्तिः, तदना-
भासे कथमत्र देशकालयॊग इत्यर्थः । क्रमस्वरूपपर्यालोचनया तदवभासकारी
महेश्वर एव कालशक्तिमुपकल्पत इत्यर्थः । उक्तं चेश्वरप्रत्यभिज्ञायां—
'मूर्तिवैचित्र्यतो देशक्रममाभासयत्यसौ ।
क्रियावैचित्र्यनिर्भासात्कालक्रममपीश्वरः ॥'
तथा—
'सक्रमत्वं च लौकिक्याः क्रियायाः कालशक्तितः ।
घटते न तु शाश्वत्याः प्राभव्याः स्यात्प्रभोरिव ॥'
इति ।
५ प्रकाशस्य ह्यात्मन्यहमिति परामर्शः परावाग्रूपत्वात्स्वभाव-
भूतोऽतश्च न विकल्पः । स हि प्रतियोगिनिषेधपूर्वो, न चात्र प्रतियोगी
नाम कश्चिदस्ति । तथाहि प्रकाशाद्धि प्रतियोग्यन्योऽप्रकाशसंज्ञः स स्वयम-
सिद्धः कस्य प्रतियोगित्वम् । अनाभासने प्रकाशेतरत्वाभावात् । अवभासे
तु तथापि कः प्रतियोगी नाम, तथा च तस्यानवभासने व्यपोहनीया-
भावात्कथं विकल्पत्वम् । तदुक्तमीश्वरप्रत्यभिज्ञायाम्--

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता १०३
यथा, तथा ईश्वरप्रत्यभिज्ञातोऽवधार्यम्। गान्धिकस्यान्यस्य¹ च तुल्ये
गन्धानामित्यत्यानुभवे गान्धिकस्य गन्धामोदवत्तया अन्यस्यैव तु तच्छून्य-
स्यैव। अनेन विश्वनिर्भरता समर्थिता, तावन्मात्रेऽयं² दृष्टान्तः ॥ ८५ ॥
सत्यानि³ स्वात्मरूपाणि पश्यतो न समानता ॥ ८६ ॥
पश्यन्त्याथो⁴ शिभावस्था क्रियाफलसमाप्तिः ।
क्रियाया वाथ प्रारम्भे कल्पनीया प्रशान्तता ॥ ८७ ॥
अस्तु सापि न भेदाय यथा तत्प्रविनिश्चितम् ।
सादाख्येश्वरदशयोरपि न पश्यन्त्या समानता, सर्वमहमित्येव-
मात्माविभेदेनात्मविश्रान्तानि सत्यान्येव वस्तूनि तथा पश्यति प्रमाता।
पश्यन्त्यां तु सुषुप्तावस्थायामिव भिन्नान्येव संसारदशोचितानि बीज-
भावेनास्ते, सुषुप्तोत्तीर्णेऽपि पश्यन्त्या अविद्यामयान्येव तद्दर्शने इति
'अहंप्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः ।
नासौ विकल्पः स ह्युक्तो द्वयाक्षेपी विनिश्चयः ॥
भिन्नयोरवभासो हि स्याद्घटाघटयोर्द्वयोः ।
प्रकाशस्येव नान्यस्य भेदिनस्तवभासनम् ॥'
इति ।
१ ननु सर्वेषामेवानन्तगन्धावभासोऽक्रममेवास्ति किमर्थं गान्धिक-
स्येति व्यपदेश इत्यत आह गान्धिकस्येति, अन्येषां हि अनन्तावभासेऽपि
क्रमेण ग्रहणमस्य सममेवेति भावः । गन्धामोदरहितस्य । २ तावन्मात्र इति,
‘स यदास्ते' इत्यादिना लक्षितलक्षणायामित्यर्थः । ननु चास्त्वेवमत्र हि न
किंचन अस्माकं दूषणमदूषणं वा महासामान्यतयास्य भवद्भिरुपगतत्वात् ।
या पुनः सदाशिवेश्वरदशा, तत्र कथमन्वभवतीत्यत आह सत्यानीत्यादि ।
३ परावस्थायां हि स्वभावभूतत्वात्सर्वस्य न तत्रानुभवाद्यसंभावना-
संभावनादिशङ्कापीदन्ताभासाभावात् सदाशिवादाविदन्ताभासस्य भास-
यिष्यमाणत्वात्कथं तत्रानुभव इति तत्र पश्यन्तीसाम्यमायातीत्याशङ्क्याह
सत्यानीत्यादि । ४ ननु चास्तु पश्यन्त्यामहमित्यात्माभेदेन सत्यान्येव
वस्तूनि, अहमित्यत्र 'ज्ञानक्रिये सादाख्यम्' इति नीत्या ज्ञानरूपत्वात्सदा-
शिवस्य, क्रियारूपत्वाच्चेश्वरस्य तयोरेव विशेषत्वेऽनुभवतीति युज्यते,
विशेषस्य तु सामान्यपूर्वभावित्वात्पूर्वावस्था निरनुभवा सिद्धयतीत्यत
आहाथो इति ।

१०४ शिवदृष्टिः [ आ०-३
शेषः । अथ ज्ञानक्रियाप्रारम्भपर्यवसानयोः प्रशान्तता नाम शिवावस्था
कल्पनीया, सा चेच्छादिशक्तिशून्यरूपा निरनुभवा जडरूपेत्युच्यते ।
तन्न, यतोऽस्तु सा दशा, न तु तदापि सर्वशक्तिविरहो येन शिवतत्त्वात्
भेदाय सा स्यात्, किंतु सर्वावस्थासु सुसूक्ष्मतया इच्छादिशक्तियोग इति
प्रथमाह्निक एव निश्चितम् ॥ ८७ ॥
न च वास्त्यन्तरालेऽत्र सा दशा याहि केवला ॥ ८८ ॥
प्राक्क्रियाफलनिष्पत्तेः समनन्तरमेव यत् ।
प्रसर्पत्यपरेच्छैव पुनरन्या तथाविधा ॥ ८९ ॥
न कदाचन तस्यास्ति कैवल्यं शक्तिशून्यकम् ।
नास्त्यपिवान्तराले द्वितीयक्रियाप्रारम्भात् प्राक् अत्र सा दशा,
या शान्तता शक्तिशून्यता लक्षणा स्यात् । यत् यस्मात् क्रियाफलसंपत्तेः
समनन्तरमेव प्रसरति अपरेच्छैव सुस्फुटपरसंवित्क्रियार्था, न तु तदा
शून्यता । पुनरपि तत्क्रियाफलसमवाप्तौ तदनन्तरमेवान्या तथाविधेच्छैव
प्रवर्तते । किं बहुना, उभयथा न कदाचन चिद्रूपस्यान्तराललक्षणं कैवल्यं
शक्तिशून्यकं नाम रूपमस्ति ॥
तथाहि—
यत्रात्मानुभवनिष्ठा तत्रेच्छा च न किं भवेत् ॥ ९० ॥
अथानुभवनं नास्ति जडा सा न प्रसज्यते ।
यत्रात्मानुभवस्य अनिष्ठा विरत्यभावः, तत्रानुभवनक्रियार्थं किमि-
च्छाक्रिया नास्ति, नहि अनुबुभूषां विनानुभवः स्यात् । अथात्मनोऽनुभवनं
नास्ति न प्रकाशत इत्यर्थः, सावस्था जडा न प्रसज्यते, प्रसज्येतैव । काक्वा
योजनीयम् । आत्मनो ह्यहमिति परामर्शोऽनुभवः, सैव चाजडता जड-
वैलक्षण्यदायिनी ईश्वरप्रत्यभिज्ञोक्तनीत्या ॥
१ इत्थमत्र ज्ञानक्रियाप्रारम्भपर्यवसानयोः शान्ततायामपि सूक्ष्मतया
तादृगनुभवशालिनामेवेच्छादिशक्तिसंभवः सन्नप्याभाति । अथेदानों सर्वेषा-
मेव स्फुटं तथेच्छादिशक्तियोगस्तथा न्यायमप्याश्रित्य ब्रूते न चेति । तत्र
नदीपूरभेदेन भूताया वृष्टेर्यथानुमानं, तथेहापि कार्येण कारणानुमानमित्याह
प्रसर्पतीति ।

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता १०५
उपलादेर्जडत्वेऽपि¹ शिवत्वं ते कथं स्थितम् ॥ ९१ ॥
यथा न तत्र जडता तथाग्रे प्रविचार्यते ।
अथ जडत्वेऽप्युपलादेः शिवत्वोपगमात् जडतासञ्जनम्² । कोऽयं
दोषः, नत्वयं दोष एव³ । यथा नोपलादेर्जडता, तथाग्रे समीप एक प्रकर्षेण
विचार्यते⁴-इत्ययमेकः पूर्वोक्तप्रकारो⁵ वितत्य कथितः ॥
सफलायां समाप्तायां क्रियायां समनन्तरम् ॥ ९२ ॥
क्रियान्तरेच्छासंभूतिस्तन्निमित्तमनन्तता ।
यतोऽस्ति शिवशक्तीनां ताश्च नित्यमवस्थिताः ॥ ९३ ॥
सरन्त्येव स्वभावेन तत्सरत्प्रकृतिः शिवः ।
अथवा स्थूलायां क्रियायां सफलायां समाप्तायां, तदनन्तरमेव सफले
क्रियान्तरे इच्छासंभवो यावदपर्यवसानं, तत्र निमित्तभूता अनन्तता यतोऽस्ति,
शिवशक्तीनाम्। शिवशक्तयश्च नित्यमवस्थिताः सरन्त्येव स्वभावतः। ताश्च
शक्तयः प्रसरन्त्यो यतः, तत् सरन्ती प्रकृतिर्यस्य स तथाभूतः शिवः तथा-
भूतलक्षणत्वात्तस्य । यथोक्तम्-
'अन्यथा तु स्वतन्त्रा स्यात्सृष्टिस्तद्धर्मकत्वतः ।' ( स्प० ४।५ )
इति । इति द्वितीयः⁶ प्रकारो वितत्योक्तः ॥
अथवाह-
ईश्वरस्य⁷ स्वतन्त्रस्य केनेच्छा वा विकल्प्यते ॥ ९४ ॥
१ ननु चाहमित्यविकल्पकं पश्यन्निति किमुच्यते, यतः सर्वमेवो-
पलादिकं जडमेव, तत्र जडत्वादेवाप्रकाशता, अप्रकाशे तु कथमह-
मित्यविकल्पमेव परामर्शः संभवति । न केवलमियदेव । तस्यापि शिवत्वे
शिवोऽपि तथा जड एव प्रसज्येत । भेदे तूपलादिकं जडमस्तु चेतनं वास्तु,
न काचन भवदभ्युपगतशिवत्वहानिरित्यत आहोपलादेरिति । अत्र शिवत्वं
ते कथं स्थितमित्येव साध्यं, न तु जडे शिवत्वं कथमिति । तस्य तूपला-
देर्भवतामपि जडत्वमेवोपगतमिति । २ शिवतत्त्वस्य । ३ एवकारेणा-
श्रोषलादेरा जडतासंभावना निरस्ता, तेन शिवत्वे जडता दूरापास्तैव सिद्धा।
४ अर्थलभ्यत्वादत्र शिवत्वं पुनर्न समर्थितमिति बोध्यम् । ५ तावन्मात्र-
स्थितावित्यर्थः । ६ परापराख्यशक्तिप्रसर इत्यर्थः । ७ यदुक्तं दूषणोद्युक्त-
बुद्धिभिः परमार्थान्वेषणकुण्ठैः पूर्वपक्षिभिः विशिष्टेच्छावशादभीष्टेयज्जग-

१०६ शिवदृष्टिः [ आ०-३
विभवामोदबाहुल्यस्याथवोक्ता निमित्तता ।
केन वास्येच्छा१ विकल्प्यते स्यात् न स्याद्वेति । स्वातन्त्र्यं तावद-
वश्यंभावि ईश्वरत्वादेव, तन्मयं विश्वं तथाविधमेव२, -इत्येतावत् ताव-
त्स्थितम् । अथवा स्वातन्त्र्येऽपि विश्वात्मताप्रसरणरूपस्वविभवास्वादोऽपरि-
समाप्तो यस्यास्ति स्वभावविशेषस्तस्य प्रागुक्तैव सर्वदा विश्वरूपताप्रसरणे
निमित्ततेत्येवमभिनवेच्छोदये निमित्तं नास्तीति दूषणम्३ ।।
विश्वतुच्छत्ववाक्यानां४ वैराग्याद्यर्थवादिनाम् ।। ९५ ।।
तात्पर्य्येण न दोषोऽस्ति नानाचित्त्वं न कल्पते ।
विश्वमसत्यं बुद्बुदोपममिति शिवोक्तैरपि वाक्यैर्न विरोधः, यत
एषां५ वैराग्यनिरात्मतादिप्रयोजनाभिधानवतामेकशिवात्मता समर्थनपरत्वेन
न दोषोऽस्ति । न च सर्वशिवत्वे नानाचित्त्वप्रसङ्गः ।।
ल्लक्षणकार्यसंपत्त्या हेतुभूतया इच्छाकारणविरतौ पुनः स्थितिप्रलयादौ
पटादिविज्ञाने वा इच्छान्तरोद्गमे को हेतुः, यत्प्रेरितस्य शिवस्य पूर्व-
स्वभावानिवृत्तावपूर्वस्वभावान्तरे चेच्छा नवनवा प्रवर्तेत इति, तदपि
तेषामनादरपूर्वं समर्थयति ईश्वरस्येति । अयं भावः—यदि हि स्वतन्त्र-
ईश्वरः परिमितेनैवेच्छादिना व्यवतिष्ठेत, तर्हि त्वस्य स्वातन्त्र्यमेव नश्येत् ।
स्वतन्त्रो हि सदापरिमितस्वरूपो नवनवोदयः । यदि च केवलमिच्छास्य
पूर्वभाविन्येवास्थास्यत्, तर्ह्यस्य परिमितत्वेन शून्यतैवागतेत्यर्थः । १ अस्य-
स्वतन्त्रस्य । २ कुत्र पुनः पूर्वस्वभावतादिनिवृत्तावपूर्वस्वभावान्तरोदयादि
इत्यर्थः । ३ काक्वा न दूषणमित्यर्थः । ४ यत्पुनरुक्तं—
'विश्वस्यासत्यरूपत्वं यैर्वाक्यैर्वर्णितं क्वचित् ।
शिवोक्तैस्तैर्विरोधः स्यात्सर्वसत्यत्ववादिनः ॥'
इति, तदपि समर्थयति विश्वेति । ५ शिवोक्तवाक्यानाम् । यतोऽसत्यत्वं
सत्यमेवोक्तं, तच्चानवबोधाद्विधुरीकृतमलपुबुद्धिभिः, तच्चासत्यत्वं कश्चि-
द्भागव्याप्त्या भागे रज्येतेति भागशो व्याप्तिरसत्येति वैराग्योत्पादनार्थं
तत्रासत्यत्वम् । तथा येऽत्र स्वभाव एव वस्तुनो वस्तुतेति, तद्वादिनिरा-
सार्थमेषां नैरात्म्यं दर्शितमित्यर्थः ।