शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 114, कुल 188 में से
संदर्भ में पढ़ेंआ०-३ ] उत्पलदेवकृतवृत्त्योपेता ६७
नासत्ये१ सत्यबुद्धित्वखण्डनान्नास्ति काचन ।
कथनं सर्वसाम्याय विवादिहननाय च ॥ ७१ ॥
न चाप्यत्र भेदेष्वसत्येषु सत्यबुद्ध्या भ्रान्तिरूपा खण्डनास्ति
वेदोक्तवत्२, यतो भावानां सर्वेषामेव शिवरूपत्वे स्थिते बहुत्वमेकत्वं३
वा । यत्पुनः४ शिवतत्त्वेनैक्यस्य कथनं तत्सर्वेषां शिवतत्त्वेन साम्यायो-
त्कर्षापकर्शनिवारणाय, यदि वा ये शिवत्वं भावानां न प्रतिजानते तद्विवादि-
पराजयाय ॥ ७१ ॥
तथा५ तथा शिवावस्था स्वेच्छात्तः स तदात्मकः ।
तदात्मत्वे नास्ति बन्धस्तदभावान्न६ मोक्षणम् ॥ ७२ ॥
भेदेऽपि तथा भेदरूपेण शिवस्यावस्थानं स्वेच्छावशात्, स च भेदः
शिवात्मकः । एवं७ च भेदस्य शिवात्मकत्वे नास्ति बन्धस्तदभावात्
तदपेक्षो न मोक्षोऽपि ॥ ७२ ॥
न च बन्धमोक्षव्यवस्थानच्छिन्नाद्वयतात्पर्यं खण्ड्यते प्रतीतिमात्ररूपत्वाद-
बन्धमोक्षयोर्न वस्त्वन्यत्वसंभवः । १ अस्तु प्रतीतिमात्ररूपत्वमेव बन्ध-
मोक्षयोरस्तु च वस्तुतः शिवाद्धयमयत्वमेव तथापि यदि प्रतीतिमात्रसत्त्वं
तदेव र्तहि प्रमाणीकर्तव्यं, यदि च शिवाद्धयमयत्वमेव तर्हि तदेव कोऽयं
नयः वस्तुद्वयत्वकथने इत्याशङ्कां निवर्तयितुमाह नासत्य इति । २ वेद-
प्रक्रियायां हि संकोचतारतम्यकथनात् 'नेह नानास्ति किंचन' इत्यादि-
वाक्यैरसत्येषु भेदेषु सत्यबुद्धिर्भ्रान्तिरेवोक्ता । अयं भावः--अस्मन्मते
सर्वथा शिवैकरूपत्वं प्रतिपादनीयं तच्च भावानामेकत्वमस्तु अनैकत्वं
वास्तु न केनापि खण्ड्यत इति । ३ यद्यपि वस्तुतः शिवरूपत्वे सर्वेषां
बहुत्वमेकत्वं वा न विरोधावहमिति तथात्वकथने न कोऽपि दोषः । तथाप्य-
द्वयवादोक्तिः, शिवतत्त्वे न कस्यचिदुत्कर्षः नापि कस्यचिदपकर्ष इति
कथनार्थम् । तथा बहुत्वैकत्वकथने पदार्थस्वरूपमेव तथा तथा स्यादिति
पदार्थवाद एवाभ्युपगतो भवेदित्यर्थः । ४ ननु यदि बहुत्वैकत्वकथनं
तुल्यमेव र्तहि कृतमद्वयवादेनेत्याह । ५ तदेवं वाद्युन्मथनपूर्वं बन्धमोक्ष-
व्यवस्था दृढीकृता, शिवाभेदतात्पर्यं च तेनैव सिद्धान्तितम् । अथेदानों
परमार्थतो व्यवहारेऽपि शिवाभेदं समर्थयति तथा तथेत्यादिना । ६ बन्ध-
पूर्वत्वान्मोक्षस्य । ७ अत्रापि च स्फुटं बन्धमोक्षनिषेधेऽपि बन्धमोक्ष-
व्यवस्था व्यवस्थितैवेति बोध्यं तथा तथेति कथनात्, स्फुटीभविष्यति
चेतत् ।