सामग्री पर जाएँ
सर्वकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 111, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 111

६४ शिवदृष्टिः [ आ०-३
इत्युक्तं भवति । यदिदं "इदं स एको१ रुद्रः" इति च रुद्रैक्यम् । तथा
'परः पुरुष२ एवेदं सर्वं' इति चोक्तं वेदे । पुराणेतिहासादिषु३
चाष्टमूर्तित्वमुक्तं महेश्वरस्य यत्रात्यन्ततामसपार्थिवतत्त्वरूपेण मूढतापि
स्वरूपमेव ॥
"सोऽरोदीत्४" इति च रुद्रशक्तिनिर्वचनेऽपि वेदेनोक्तं तदैक्‍यम् ।
अर्थवादोऽयमसत्यार्थो५ विध्यनुष्ठानतात्पर्यादित्येतदपि न युक्तम् । अर्थ६-
१ 'एको रुद्रोऽवतस्थे न वै द्वितीयो कश्चन ।'
इति । तथा—
'यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो वनस्पतिषु ।
यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु देवाः ॥'
२ 'पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् ।'
इति ।
३ यथा सिद्धस्तुतौ—
त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह-
स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।
परिच्छिन्नामेव त्वयि परिणतां बिभ्रतु गिरं
न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ॥'
इति । अत्रापि भगवतो महेश्वरस्यैकात्म्यमेव सर्वत्र दर्शितम् । तथाहि
पञ्चभूतान्येव सर्वं विकारावस्थापन्नं जगदिति स्थितम् । तत्र यत्सूक्ष्मं
प्रमाणप्रमेयात्मकमवस्थायुगलं तदर्कसोमशब्दाभ्यामुक्तं, यतोऽत्रैवाहन्ते-
दन्तायुगलकमपि सदाशिवादिव्यपदेशेन विश्राम्यति किं पुनरन्यत्र कथनीयं
यत्र संहृतं पार्थिवं घनं तत्त्वमपि शिव एव अत एव तस्यान्तेऽत्र व्यपदेशः ।
अभेदमेवैषामाहात्मेति, एषां सर्वेषां स्पन्दविशेषाणां यदभेदात्मकं प्रत्यग्रूपं
तदेव भवानस्तीति किमन्यद्यत्र भवत्स्वरूपापह्नवः । ४ 'सोऽरोदीद्यदस्य
रुद्रस्य रुद्रत्वम्' इति । अयमर्थः—यत्तस रुद्रोऽरोदीत् सुस्राव शक्तिद्वारेण
विश्वरूपतयास्थात् तदस्य रुद्रस्य रुद्रत्वं रुद्राभेदमयत्वम् । ५ अप्रवृत्त-
प्रवर्तनं विधिः, तथा साक्षादुपदेशकत्वं विधिः । प्रवृत्तस्यान्वाख्यानमर्थवादः,
तथा परम्परोपदेशकत्वमर्थवादः । अत्रार्थवादे साक्षादुपदेशाभावमा-
शङ्क्यार्थवादोऽयमिति । विध्यनुष्ठितस्यैव ह्यर्थस्यार्थवादः समर्थकस्ततश्च
साक्षादनुष्ठानाभावान्नार्थवादस्य सत्यत्वम् । ६ यद्यर्थवादस्य विध्यङ्गतया
सत्या तर्हि कथं स्वयमसत्यार्थपरत्वमित्यर्थः । यथाहि 'वायव्यं श्वेतमज-