सामग्री पर जाएँ
सर्वकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 178, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 178

आ०-७ ] उत्पलदेवकृतवृत्त्योपेता १६१
ततः स्थूलैर्मन्त्रमयैरङ्गैः सर्वक्रियापरा ।
भवतीश्वररूपेण स्वकार्याखिलरूपिणी ॥ २७ ॥
तस्यापि शक्तिमृत्पिण्डघटवद्विश्वतां गतां ।
यावद्यावत्तरेद्विद्यामायादिघनपार्थिवम् ॥ २८ ॥
तत्त्वं देवस्तथा तावद्भावशक्त्या घटादिके ।
निजशक्तिसमाविष्टेरायान्ति शिवसम्पदः ॥ २९ ॥
क्रियाशक्तिपरात्मत्वे क्वचित्पिण्डशिवात्मता ।
क्वचिदन्तःकृतौ ज्ञानाद्भावेत्पदशिवात्मता ॥ ३० ॥
इच्छामात्रे रूपशिवस्तरंगे तदतीतता ।
कर्तृमात्रे सर्वभावव्यतीतशिवभावता ॥ ३१ ॥
दृढांगुलिनिवेशन दृढस्थूलनिरीक्षणात् ।
भ्रमतो भावचलनात् प्लवाच्च प्रेक्षणाक्षतेः ॥ ३२ ॥
पुरोऽणुपुञ्जभ्रान्त्याप्त्या चित्त्वलाभो जडेष्वपि ।
सर्वचित्क्षेपतः साम्यात्सर्वत्रेच्छात्र ईदृशी ॥ ३३ ॥
प्रतीत्युद्गमकाले तु सार्वभाव्यादसौ विभुः ।
सृष्टानुभवदो रूढेरमूर्तज्ञानचिल्लयात् ॥ ३४ ॥
ज्ञानयोगसमुद्युक्तिलीनत्वेन क्रियागमः ।
इच्छात्तः कान्तितोजोभिस्तत्कर्तृत्वमहेशता ॥ ३५ ॥
संविद्देहतद्गतत्वे संवित्स्वातन्र्यमापतेत् ।
तोषे निर्वृतियोगो वा दाढर्यात् स्वातन्त्र्यमेतयोः ॥ ३६ ॥
दुःखासक्त्याऽन्यथासक्त्या सुखे निर्वृतिभूमिता ।
जडकायांगनिचये मद्दाढर्चोचितचिन्तया ॥ ३७ ॥
जडाशेषपदार्थात्मरूढेस्तद्बोधपूर्णता ।
निजाभिमानसंसृष्टे स्वशरीरे महोदयात् ॥ ३८ ॥
अन्यदेहे तथावृत्तेस्तथा बुद्धिविशिष्टता ।
भावनातीतनिर्मूलसत्कार्यादिविसर्गवत् ॥ ३६ ॥
तत्तद्भावभरासक्तेस्तत्तन्निर्माणमानता ।
लसदग्रस्फुरत्तेजःकणसत्तोद्भवो महान् ॥ ४० ॥
११