सामग्री पर जाएँ
सर्वकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 141, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 141

१२४ शिवदृष्टिः [ आ०-४
इत्यभ्युपगमोऽस्माकं नैकेनान्यत्र¹ तुल्यता ।
कल्प्या² वैशेषिकाणां हि कर्तृत्वेश्वरे स्थिता ॥ ३८ ॥
तद्वन्न किं पृथिव्यादेर्बौद्धे³ ज्ञानमवस्थितम् ।
स्वान्यप्रकाशकं नान्यत्तद्वदन्यत्र किं भवेत् ॥ ३९ ॥
बाह्यं रूपादि जल्पन्ति प्रमाणं चोदनैव ते ।
नियमाद्धर्मविषये तस्मान्नैकेन तुल्यता ॥ ४० ॥
बहूनां कल्पनीयान्न⁴ च वा व्यतिरेकतः ।
व्यक्तिः स्थिता पदार्थानां घटो व्यक्तोऽभिधीयते ॥ ४१ ॥
तस्मात्स एव व्यक्तात्मा न व्यक्तेर्व्यतिरिक्कता ।
त्वदुक्तमेव न युक्तं यस्मात् तामभिव्यक्तिं वर्जयित्वा अन्यत्सदेव
कार्यमित्यस्माकं तावदभ्युपगमः । न हि सर्वत्र दर्शने सर्वैरेवार्थैस्तुल्यैर्भाव्यम् ।
तथाहि वैशेषिकेषु ईश्वर एव विश्वकर्ता, न तु पृथिव्यादि द्रव्यम् । बौद्ध-
दर्शने ज्ञानमेव स्वपरप्रकाशकं, न रूपादि । ते जैमिनीया जल्पन्ति चोदनैव
नियमेन धर्मविषये प्रमाणं-
‘चोदनालक्षणोऽर्थो धर्मः’ (मी० १।१।२)
इति, न तु प्रत्यक्षादिकम् । तस्मात् बहूनामेकलक्षणानां प्रमाणानां प्रमेयाणां
वा नैकेन भिन्नलक्षणाभिमतेनान्यस्यापि तुल्यतापादनदोष उद्भावनीयः ।
तेन सर्वेषामर्थानां सतामेव कार्यता । तथाप्यभिव्यक्तिरसत्यैव कार्या, यथा
धर्मे न चोदनावदन्यान्यपि प्रमाणानि, यथा न ईश्वरद्रव्यवत् पृथिव्यादि-
द्रव्यमपि विश्वकारणम् । उपपत्तिरपि च अत्रास्ति, नाभ्युपगममात्रम् ।
तथाभिव्यक्तिस्तावन्नार्थाद्व्यतिरेकेण स्थिता तथानुपलम्भात् । अभेदेनैव
च व्यवहारः । तथा हि घटो व्यक्तोऽभिधीयते व्यक्तचभेदेन । तस्मात् पदार्थ
एव व्यक्तात्मा । स च सन् क्रियते, न तु व्यक्तेर्व्यतिरिक्ताया असत्याः
करणम् ॥ ४१ ॥
१ एकत्र यदसाधारणं लक्षणं, तदन्यत्र कल्प्यमानमनवस्थादोषदूषितं
स्यात् । २ तथात्वेऽतिप्रसङ्गमाह । ३ बुद्धमते । ४ उपपत्तिरप्यत्रास्तीत्याह
न चेति ।