शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 137, कुल 188 में से
संदर्भ में पढ़ें१२० शिवदृष्टिः [ आ०-४
शुक्तिज्ञानयोः । न च अन्योन्यपरिहारात्मको विरोधो ज्ञानाज्ञानात्मकयो
भावाभावयोः १.... ॥ २४ ॥
अज्ञानत्वे परिज्ञाते तदा स्यात्स्वविरोधिता ।
अज्ञानत्वे स्वभावेन विरोधः केन वार्यते ॥ २५ ॥
नेवमत्र स्वभावत्वे विरोधो बाधनात्मकः ।
स विवेकदृशा ज्ञेयो न स्वभावेन कुत्रचित् ॥ २६ ॥
तथा सर्वविकल्पानां सत्यरूपत्वदर्शनात् ।
गरुडादिशरीरेषु विषभूतापहारतः ॥ २७ ॥
प्रतिष्ठादेवकर्मादिध्यानादिफलयोगतः ।
सत्येऽपि न फलं दृष्टं क्वचिदज्ञानिसेवितात् ॥ २८ ॥
तस्मादवस्थितं सर्वं सत्त्वं चिद्व्यक्तियोगिता ।
यत्र यत्र तत्र तत्र सत्यत्वं विश्वरूपता ॥ २९ ॥
व्यतिरेके न युज्यते विज्ञानं हि घटादिषु ।
मूर्तामूर्तधर्मयोगो घटस्तस्य न गोचरः ॥ ३० ॥
अमूर्ता न च वाणूनामन्तरेव प्रवेशिता ।
प्रतिपत्तुः कथं वेत्ति घटोऽयं प्रविभेदतः ॥ ३१ ॥२
मूर्तामूर्तादिभिर्धर्मैर्योगो यस्य घटादेः स, तस्य विज्ञानस्य घटात्मनो
व्यतिरिक्तः सन् न गोचरो भवितुमर्हति । तदुक्तमीश्वरप्रत्यभिज्ञायां—
‘प्रागिवार्थोऽप्रकाशः स्यात्............’(१।५।२)
इत्यादिना । न च वा घटादयः परमाणुरूपत्वे अमूर्ताः । असर्व-
गतद्रव्यपरिमाणं देशयोग्यता वापि हि मूर्तिः । ततस्तेषामणूनां बोध-
मयस्य शिवरूपस्य प्रतिपत्तु रन्तरेव प्रवेशित्वमभेद इत्यर्थः । अन्यथा
स प्रतिपत्ता प्रविभेदात्कारणात् कथं घटोऽयमिति वेत्ति न कथंचित्
जानीयादित्यर्थः ॥ ३१ ॥
१ अत्र भावाभावयोरित्यस्माद्याख्यप्रतीकादारभ्य शेषभागस्य
व्याख्या त्रुटितास्ति । २ अत्रापि उपरिलिखितश्लोकसप्तकस्य व्याख्याया-
स्त्रुटिर्वर्तते ।