शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 136, कुल 188 में से
संदर्भ में पढ़ेंआ०-४] उत्पलदेवकृतवृत्त्योपेता ११६
अथ१ चेद्देशबाधो वा तद्देशे रजतं नहि ॥ २१ ॥
यत्र काले सरजतो देशोऽभूतस गतस्तदा ।
कालान्तरेण देशोऽसौ का बाधा भिन्नकालयोः ॥ २२ ॥
अथान्यदेशं रजतमन्यदेशमुपलब्धमिति यदि वा देशबाधः। तन्न ।
यस्मिन्२ काले स रजताश्रयो देशोऽभूत्, स कालो बाध्यरजतज्ञानकाले
नास्तीति बाधकज्ञानेन बाधः क्रियते। न चैवं रजतदेशयोर्द्वयोर्भिन्नकालत्वात् ।
तथाहि शुक्तिकारजतकालेऽन्यदेशरजतकालो गतः। ततश्च कालभेदेन
देशभेदस्याविरोधात् का बाधा ॥ २२ ॥
ज्ञानान्तरेण ज्ञानं तद्विरोधादथ बाध्यते ।
न बाधो भिन्नकालत्वात्प्राक्तनस्याप्यभावतः ॥ २३ ॥
अथ तस्मिन्नेव वस्तुनि रजतज्ञानं शुक्तिकाज्ञानं चेति विरोधात्
शुक्तिकाज्ञानेन रजतज्ञानस्य बाधो निवृत्तिः क्रियते। तन्न। एकवस्तुनि
युगपदन्यथात्वमयुक्तम्३। क्रमेण तु क्षीरदध्नोर्न विरोधः प्राक्तनस्य दृष्टस्य
स्वरसतो दर्शननिवृत्त्या निवृत्तेः, नाभावतः ॥ २३ ॥
सहानवस्थितिर्नास्ति विरोधः प्राग्विनाशतः ।
अन्योन्यपरिहारो वा ज्ञानाज्ञानात्मकः स्थितः ॥ २४ ॥
सहानवस्थितिरपि विरोधो नास्ति। न हि ज्ञानं क्षणिकत्वेन
प्राग्विनष्टमन्येन निवर्तनीयमुष्णेन शीतमिव विरुद्धं भवति रजत-
१ अथेदानों यतः कार्येण कारणेन च न कथंचन बाधः सिद्ध्यति,
ततोऽबाध एव। अयं भावः—तदन्यदेशकालं यद्यप्यस्ति तथापीहासन्निहि-
तस्य सतापि तेन किं विशिष्यते। २ इदमत्र तात्पर्यं—तौ तत्र देशकालौ
किं सन्तौ प्रतिभासेते किमुतासन्तौ? यदि च सन्तावित्यभिमन्यसे तदा
तद्देशकालमेवेदं रजतमवभातमिति न भ्रान्तिरेषा स्यात्, असन्तौ तुभावपि
रजतवन्नालम्बनं भवितुमर्हत इति।
३ युगपदन्यथात्वमयुक्तं, नहि शुक्तिज्ञानेन रजतज्ञानं बाध्यते
स्वस्मिन्विषये आत्मनि च स्वरूपे द्वयोर्ज्ञानयोर्निष्ठितयोर्विश्रान्तयोरन्योन्यं
विरोधस्याभावात्। अथ परस्परपरिहार एव विरुद्धयोर्युगपद्द्वयोः, तर्हि
सर्वेषां ज्ञानानां विरोधाद्वाध्यबाधकभावस्य निष्ठाैव न लभ्येति सुतरां
सत्येतरविभागस्य विलोप आयातः।