शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
६४ शिल्परत्ने [उत्तरभागः
अङ्गुष्ठप्रथमं पर्व द्व्यङ्गुलं द्वियवाधिकम् ।
अग्रपर्व तथा प्रोक्तं द्व्यङ्गुलं द्वियवोनितम् ॥ १४३ ॥
अङ्गुष्ठस्य बहिः पर्व तृतीयं व्यङ्गुलं भवेत् ।
पृष्ठोर्ध्वपर्वणश्चार्धे भवेन्नखसमुद्भवः ॥ १४४ ॥
तर्जन्याः प्रथमं पर्व सार्धाङ्गुलमितं भवेत् ।
अङ्गुलं मध्यमं पर्व कीर्तितं द्वियवाधिकम् ॥ १४५ ॥
अग्रिमं च तथैवोक्तं तदर्धे नखसम्भवः ।
मध्यमाप्रथमं पर्व सार्धमङ्गुलमिष्यते ॥ १४६ ॥
द्वितीयं च तथैव स्यात् तृतीयं द्व्यङ्गुलं पुनः ।
अनामेरेवमेव स्यादग्रिमं दिग्यवं स्मृतम् ॥ १४७ ॥
कनिष्ठा प्रथमं पर्व यवा दश तथाग्रिमम् ।
अङ्गुलं मध्यपर्व स्यात् कार्यः स्यात् पूर्ववन्नखः ॥ १४८ ॥
निर्लोम प्रोज्ज्वलं कार्यं पाण्यङ्गुलितलं बुधैः ।
अङ्गुल्यग्रे यवादर्वाक् सजीवः क्रियते नखः ॥ १४९ ॥
तत्राग्रे जीवहीनं तु नखाग्रं परिकल्प्यते ।
सजीवो लोहितः किञ्चिन्निर्जीवो मधुकच्छविः ॥ १५० ॥
यवत्रितयमानेन नखाग्रं परिकल्पयेत् ।
अत्रानुक्तं तु यत् सर्वमुत्तमं दशतालवत् ॥ १५१ ॥
इति शिल्परत्ने उत्तरभागे उत्तमनवताललक्षणं
नामाष्टमोऽध्यायः ॥
4: पा
5: र्श्व
6: यु
7: जि
8: प
9: ञ्च
10: म
11: पङ्
12: क्ति
13: सं
14: स्थे
Total = 14 syllables!
Line 17:
1: को
2: ष्ठ
3: द्व
4: या
5: त
6: मि
7: ति
8: म
9: ती
10: प
11: द
12: वि
13: स्तृ
14: ते
15: च
Wait! 15 syllables?
Wait, look at line 17:
"कोष्ठद्वयातमितिमती पदविस्तृते च ।"
Wait, could it be "कोष्ठद्वयाततिमती"?
Let's look at the scan of line 17 very carefully:
क (with o) = को
ष्ठ = ष्ठ
द्व = द्व
या = या
त = त
मि = wait, is that 'मि' or 'म'? There is an 'ि' matra.
Wait, look at the glyphs:
"कोष्ठद्वया" (4)
Then "त" (ta)
Then "ति" (ti)
Then "म" (ma)
Then "ती" (tī)?
Wait, look at the character:
Is it: "कोष्ठद्वयाततिमती"?
Wait, between या and ति
६६ शिल्परत्ने [उत्तरभागः
द्व्येकाङ्गुलातततदर्धतताधरोत्त-
रोष्ठान्ततोऽङ्गुलविनिस्सृतसृक्वयुग्मम् ।
कम्बीरकादिरुचिरं प्रकरोतु गोर्जिं
घोणाग्रसामिपिहिताष्टयवावतीर्णाम् ॥ ६ ॥
शब्दग्रहादिचिबुकावधि मानमिष्ट-
मष्टाङ्गुलैश्चिबुकमानमथाङ्गुलाभ्याम् ।
ग्रीवा गजाङ्गुलततार्ककलोपपन्नं
कक्षान्तरं स्तनयुगान्तरमेकतालम् ॥ ७ ॥
नाभिस्थली प्रवितता नृपतिप्रमाणैः
स्यादङ्गुलैः कटितटी धृतिसम्मितैश्च ।
कक्षस्तनान्तरमृतुप्रमिताङ्गुलाढ्यं
कक्षांसमध्यमपि मांसलमंसयुग्मम् ॥ ८ ॥
कक्षादिसन्ध्यवधिकायतिरङ्गसङ्ख्यैः
स्याद् गोलकैः शिवमितैर्मणिबन्धनिष्ठा ।
दिक्सङ्ख्यकैरुपभुजेऽथ ततिश्चतुर्भि-
र्मूले प्रकोर्परयुगे भुजयोस्त्रिभिश्च ॥ ९ ॥
अष्टाङ्गुलैः करतलाततिरश्विहीनै-
स्तद्विस्तृतिर्भवति मध्यमिकायतिश्च ।
मध्याद् दशांशरहिते निजपार्श्वजे तत्-
पञ्चांशमात्ररहिते प्रथमान्त्यशाखे ॥ १० ॥
अङ्गुष्ठके विततिरर्कयवैः परासु
त्र्यंशोनितैः प्रतिपरुं लघिमा यवेन ।
मध्यमं नवतालम् ] नवमोऽध्यायः । ६७
मध्योद्भवाप्रथमपर्वयुगं समान-
दैर्घ्यं तदर्धपरिमाणमथाग्र्यपर्व ॥ ११ ॥
देशिन्युपावरजयोरमुतो द्विपांश-
हीनानि पादरहितानि कनिष्ठिकायाः ।
पर्वाणि पर्वयुगलं क्रमशोग्ध तर्जा-
मध्याद्यपर्वसुसमं प्रथमोद्भवायाः ॥ १२ ॥
स्वस्वाग्र्यपर्वदलतो रचिता नखाः स्यु-
र्नाहोऽङ्गुलैः श्रुतिमितैः प्रथमप्रसूतेः ।
मध्याद्विपार्श्वजनितावरजास्वतोऽतो
नाहोऽष्टमांशरहितो विहितः क्रमेण ॥ १३ ॥
अङ्गुष्ठतर्जनिकयोर्नयनाङ्गुलाढ्य-
मभ्यन्तरं प्रथमजामणिबन्धमध्यम् ।
अब्ध्यङ्गुलैः परिमितं मणिबन्धकेऽपि
तैर्विस्तृतिः करभदैर्घ्यमथार्धतालम् ॥ १४ ॥
लिङ्गं युगाङ्गुलमितं वृषणद्वयं स्याद्
द्वियङ्गुलं द्विरदकुम्भनिभे स्फिजौ द्वे ।
वृत्ते षडङ्गुलतते द्वयमध्यसंस्था
कौपीनराज्यपि कलावितता कृशाग्रा ॥ १५ ॥
मूलान्तराग्रविततिः क्रमशोग्ङ्गुलैः स्या-
दूरुद्वये सुषिरभानुशरप्रमाणैः ।
जङ्घाद्वयेऽङ्गगिरिसत्रियवत्रिसंख्यैः
कार्या ककुप्परिमितैरधिजानुयुग्मम् ॥ १६ ॥
६८ शिल्परत्ने [उत्तरभागः
मूलादिवेददशरैस्सोऽङ्घ्रिसाङ्घ्रिसंख्यै-
र्व्यर्धैऽङ्गुलैः पदतलेऽर्कमितैश्च दैर्घ्यम् ।
अङ्गुष्ठसीम्नि कलयोन्नतिरर्धतोऽन्य-
पार्श्वेऽङ्गुलैः प्रपददैर्घ्यमृतुप्रमाणैः ॥ १७ ॥
अङ्गुष्ठत्साह्रुभुवोजेगदङ्गुलाह्व्यं
दैर्घ्यं नखाङ्खलमितिह्रसितास्ततोऽन्याः ।
पर्वत्रयाहितरुचोऽङ्गुलयो द्विपर्वा-
ऽङ्गुष्ठोऽर्धपर्वशशिखण्डनिभा नखाः स्युः ॥ १८ ॥
अङ्गुष्ठके रसमितैः परिधिः परस्यां
स्यादङ्गुलैस्त्रिभिरथाष्टमभागहीनौः ।
कार्यः क्रमात् तदित(रेष्व ? रास्व)खिलेषु तत्त-
व्यासेन लोकगुणितेन करोतु नाहम् ॥ १९ ॥
तालैस्त्रिभिः शिरसि साष्टियवेषुसंख्यैः
कक्षान्तरे रहितविश्वयवैश्चतुर्भिः ।
कुक्षौ त्रिभिर्भवति नाभितलेऽर्धयुक्तै-
र्नाहस्तथा कटितटेऽर्धयुताब्धिसंख्यैः ॥ २० ॥
जङ्घोरुबाहुयुगमध्यकराङ्गुलीषु
कार्या करीन्द्रकरवत् परिवृत्तता च ।
कूर्माभता प्रपदयोर्जलजाभता च
कण्ठे कपोलतलयोर्मुकुराभता च ॥ २१ ॥
यद्यत्र तु न कथ्यते मया तत्तदङ्गमखिलं तु युक्तितः ।
उत्तमाख्यनवताललक्षणप्रोक्तमार्गमनुसृत्य कारयेत् ॥२२॥
इति शिल्परत्ने उत्तरभागे मध्यमनवताललक्षणं नाम
नवमोऽध्यायः ॥
अधमं नवतालम् ] ६३
अथ दशमोऽध्यायः ।
अथाधमं नवतालम् ।
उष्णीषोच्चं शिवांशं स्यात् केशं सार्धद्विभागया ।
केशान्तान्नेत्रसूत्रान्तं पादोनचतुरंशकम् ॥ १ ॥
तथैव तस्मान्नासान्तं तथा तद्धनुसीमकम् ।
सार्धलोकाङ्गुलं ग्रीवातुङ्गमानं ततः पुनः ॥ २ ॥
हृदयान्तं ततो नाभिसीमान्तं च ततः पुनः ।
मेढ्रान्तं च पृथक् पादयुक्तरुद्रांशमानकम् ॥ ३ ॥
ऊरुदीर्घं तथार्धोनत्रयोविंशांशकं स्मृतम् ।
गलतुङ्गसमं जानु जङ्घामूरुवदाचरेत् ॥ ४ ॥
गुल्फमानं तु सार्धाग्निभागमेव विधीयते ।
बाह्वोश्चोरुसमं दीर्घं प्रकोष्ठं षोडशाङ्गुलम् ॥ ५ ॥
तलदीर्घं तु भूतांशं तत्समं मध्यमाङ्गुलम् ।
शेषं युक्त्या सुकर्तव्यमुत्तमायुक्तवर्त्मना ॥ ६ ॥
इति शिल्परत्ने उत्तरभागे अधमनवतालविधिर्नाम
दशमोऽध्यायः ॥
अथैकादशोऽध्यायः ।
अथाष्टतालोत्तमम् ।
उष्णीषोच्चं शिवांशं स्यात् केशं सार्धद्विभागतः ।
पादोनरुद्रभागं स्यात् केशान्ताद्धनुसीमकम् ॥ १ ॥
केशान्तादक्षिसूत्रान्तं तत्रिभागैकमानतः ।
तथैव च पुटान्तं तु शेषं तद्धनुसीमकम् ॥ २ ॥
५० शिल्परत्ने [उत्तरभागः
सार्धाग्न्यंशं गलोत्सेधं हिक्कादिहृदयान्तकम् ।
पादोनरुद्रभागं स्यात् तस्मान्नाभ्यन्तकं ततः ॥ ३ ॥
तथा तस्मान्मेढ्रमूलमूरुदीर्घं पुनस्ततः ।
सार्धत्रिसप्तभागं तु जानुतुङ्गं गलोक्तवत् ॥ ४ ॥
जङ्घादीर्घं चोरुतुल्यं जानुतुल्यं तलोदयम् ।
बाह्वोश्चोरुसमं दीर्घं प्रकोष्ठं तु कलांशकम् ॥ ५ ॥
बाहोस्तलं भूतभागं तत्समं मध्यमायतम् ।
अनुक्तं सकलं पूर्वं नवतालोक्तमाचरेत् ॥ ६ ॥
इति शिल्परत्ने उत्तरभागे अष्टतालविधानं नाम
एकादशोऽध्यायः ॥
अथ द्वादशोऽध्यायः ।
अथोत्तमं सप्ततालम् ।
उष्णीषं त्वर्धभागेन केशान्तं शशिभागतः ।
सार्धद्व्यंशं तु नेत्रान्तं सार्धाग्न्यंशं पुटान्तकम् ॥ १ ॥
चिबुकान्तं च तत्तुल्यं वेदांशं तु गलोदयम् ।
स्तनान्तं सप्तभागं तु रुद्रांशं नाभिसीमिकम् ॥ २ ॥
तथैव योनिमूलान्तं विंशांशं चोरुदीर्घकम् ।
जानुमानं द्विभागं तु जङ्घा चोरुसमा भवेत् ॥ ३ ॥
चरणोच्चं द्विभागेन मन्वंशं तु तलायतम् ।
ऊरुदीर्घसमं बाहुं प्रकोष्ठं तु कलाङ्गुलम् ॥ ४ ॥
षट्तालम् ] त्रयोदशोऽध्यायः । ७१
तलायामं तु भूतांशं वेदांशं तस्य विस्तृतम् ।
तत्तलायामसद्दशं मध्यमाङ्गुलिदीर्घकम् ॥ ५ ॥
शेषं प्रागुक्तमार्गेण कार्यमङ्गमशेषतः ॥ ५१/२ ॥
इति शिल्परत्ने उत्तरभागे सप्तताललक्षणं नाम
द्वादशोऽध्यायः ॥
अथ त्रयोदशोऽध्यायः ।
अथ षट्तालम् ।
उष्णीषमर्धभागं स्यादेकांशं केशमानकम् ।
सार्धवस्वङ्गुलं प्राग्वद् केशान्ताद्धनुसमिकम् ॥ १ ॥
गलोदयं त्रिभागार्धं मुखतुल्यमतः पृथक् ।
हिक्कादिहृदयान्तं च नाभ्यन्तं च ततः क्रमात् ॥ २ ॥
तस्मान्मेढ्रस्य मूलान्तमूरू चात्यष्टिभागतः ।
सार्धभागं जानुदीर्घं जङ्घा चोरुसमोन्नता ॥ ३ ॥
आगुल्फतलतुङ्गं तु सार्धभागमुदाहृतम् ।
ऊरुदीर्घसमं बाहुं कुर्याद् विश्वाङ्गुलं पुनः ॥ ४ ॥
प्रकोष्ठं भूतभागं तत्तलं मध्याङ्गुलं तथा ।
भास्कराङ्गुलमानेन कुर्यात् पादतलायतम् ॥ ५ ॥
पूर्वस्मादूहयेत् सर्वमत्रानुक्तं विशारदः ॥ ५१/२ ॥
इति शिल्परत्ने उत्तरभागे षट्ताललक्षणं नाम
त्रयोदशोऽध्यायः ॥
१. 'ल' ग. पाठः. २. 'तुङ्गं ज' ख. पाठः.
७२ शिल्परत्ने [उत्तरभागः
अथ चतुर्दशोऽध्यायः।
अथ पञ्चतालोत्तमेन विघ्नेश्वरलक्षणम्।
मूर्ध्नो मस्तकसीमान्तमङ्गुलद्वयमुच्यते।
तस्माद् वै नेत्रसूत्रान्तं चतुर्मात्रमुदाहृतम् ॥ १ ॥
ततोऽष्टमात्रमानं तु हनुसीमान्तमाततम्।
गलं तु चतुरंशं स्यादाशांशं हृदयं ततः ॥ २ ॥
ततो नाभिस्ततो मेढ्रं नवांशमिति कथ्यते।
ऊरू सार्धषडंशोच्चौ जानुनी गुणभागतः ॥ ३ ॥
जङ्घा चोरुसमायामा तलोत्सेधं गुणांशकम्।
सप्ताङ्गुलं तलायाममङ्गुष्ठाग्रावसानकम् ॥ ४ ॥
पादाङ्गुष्ठायतं द्व्यंशं सार्धांशं तु कनिष्ठिका।
तर्जन्यादिकनिष्ठान्तं प्रत्येकं यवहीनतः ॥ ५ ॥
त्रयोदशाङ्गुलं बाहुं कोष्ठायामं नवाङ्गुलम्।
चतुर्मात्रं तलायाममग्न्यंशं मध्यमायतम् ॥ ६ ॥
तर्जन्यनामिके द्वे च एकविंशद्यवायते।
सतोत्तरदशयवं दीर्घं ज्येष्ठकनिष्ठयोः ॥ ७ ॥
द्वादशाष्टनवाष्टांशयवा ज्येष्ठादिविस्तृतिः।
तत्तव्यासत्रिपादं स्यान्नखव्यासमुदाहृतम् ॥ ८ ॥
तत्तव्यासस्य पादोनं नखायामं प्रकीर्तितम्।
व्यासं प्रकोष्ठे वेदांशं कोर्परोर्ध्वे षडंशकम् ॥ ९ ॥
बाहुमूले तु वस्वंशं मस्तकेऽष्टाङ्गुलं ततः।
सप्ताङ्गुलं निम्नदेशे मुखमध्ये दशाङ्गुलम् ॥ १० ॥
पञ्चतारम् ] चतुर्दशोऽध्यायः । ७३
मुखहस्तस्य मानं तु नाभिदेशसमायतम् ।
मूले षडङ्गुलं तारमग्रे सार्धांशमत्र हि ॥ ११ ॥
सुषिरद्वयसंयुक्तं कार्यं तद्धस्तमीरितम् ।
कण्ठादूर्ध्वं गजेन्द्राभं मुखं कुर्याद् विचक्षणः॥ १२॥
वामदन्तायतं वेदमात्रं दृश्यं हि बाह्यतः ।
दक्षदन्तं पादमात्रं भिन्नाकारं प्रकल्पयेत् ॥ १३॥
अधरस्य तु निष्क्रान्तं लम्बनं च द्विमात्रकम् ।
(तैला ? ताल्वा)यामविशालं च षड्यवं परिकीर्तितम्
[॥ १४ ॥
कर्णव्यासं भूतमात्रमुत्सेधं चैव तत्समम् ।
अर्धाङ्गुलं नतं तस्य कर्णमूलं द्विभागतः ॥ १५ ॥
बाहुपर्यन्तविस्तारो द्वात्रिंशदङ्गुलं भवेत् ।
एकोनविंशदंशं तु कक्षान्तरमुदाहृतम् ॥ १६ ॥
स्तनान्तरं दशांशं तु हिक्कायास्तद्वदेव हि ।
स्तनान्ताद् द्वियवं व्यासं द्व्यङ्गुलं स्तनमण्डलम् ॥ १७ ॥
स्तनाधस्ताद् विशालं तु भागैः पञ्चदशान्वितैः ।
द्वाविंशदङ्गुलं ख्यातं जठरार्धे विशालकम् ॥ १८ ॥
नाभेर्निम्नविशालं तु सार्धाङ्गुलमुदाहृतम् ।
लिङ्गायामं गुणांशं तु तदर्धं तस्य विस्तृतम् ॥ १९ ॥
मुष्कायामं विशालं च गुणाङ्गुलमुदाहृतम् ।
उरोर्व्यासं तु भान्वंशं जानुव्यासं नवाङ्गुलम् ॥ २० ॥
जङ्घामूलविशालं तु सप्तमात्रमुदाहृतम् ।
नलकाविस्तृतं चापि सार्धाग्न्यङ्गुलमुच्यते ॥ २१ ॥
तलाग्रस्य ततिः सार्धषडङ्गुलमिति स्मृतम् ।
पार्ष्ण्यायामं विशालं च गुणाङ्गुलमुदाहृतम् ॥ २२ ॥
द्वादशाष्टषडंशार्धषट्पञ्चकयवैः क्रमात् ।
अङ्गुष्ठादिकनिष्ठान्तपादाङ्गुलिविशालकम् ॥ २३ ॥
तत्त्रिपादं नखव्यास व्यासार्धं तत्तदायतम् ।
यद्यन्नोक्तं ततस्तांस्तान् कारयेत् पूर्वमुक्तवत् ॥ २४ ॥
अथान्यथा —
अश्व्यङ्गुलं तु केशोच्चं सप्तांशं मुखमानकम् ।
ग्रीवोच्चं तु युगांशं स्यात् तस्माच्चूचुकमंशतः ॥ २५ ॥
तस्मान्नाभिस्ततो मेढ्रं सप्तभागेन कल्पयेत् ।
भान्वंशमूरुदीर्घं च जानुदीर्घं द्विभागतः ॥ २६ ॥
जङ्घादीर्घं द्वादशांशं द्व्यंशं पादतलोन्नतम् ।
दशांशं तु तलायामं मन्वंशं बाहुमानकम् ॥ २७ ॥
प्रकोष्ठायतमाशांशं तलायामं युगांशकम् ।
तत्समं मध्यमायाममन्यत् सर्वं पुरोक्तवत् ॥ २८ ॥
अथ मध्यमपञ्चतालेन विघ्नेशः ।
विघ्नेशं शरतालकैर्विरचयेत् त्र्यक्षं महेभाननं
गूढाभुमगलं स्थितं समुपविष्टं वातिपीनाङ्गकम् ।
उष्णीषान्मुखमेकेकेन सदलाभ्यां तालकाभ्यां ततः
कट्यन्तं चरणौ कराश्च करणीयाः सार्धतस्तालतः ॥ २९ ॥
इति शिल्परत्ने उत्तरभागे पञ्चताललक्षणं नाम
चतुर्दशोऽध्यायः ॥
१. 'ल' ग. पाठः. २. 'क' क. ख. ग. पाठः.
७५
अथ पञ्चदशोऽध्यायः।
अथ चतुस्तालम् ।
एकाङ्गुलं शिरोन्मानं केशान्तं चैव तत्समम् ।
द्विभागं नेत्रसूत्रान्तं पुटान्तं चैव तत्समम् ॥ १ ॥
गुणांशं हनुसीमान्तं ग्रीवोच्चं तु गुणाङ्गुलम् ।
हिक्कासूत्रात् स्तनान्तं तु नवभागमुदाहृतम् ॥ २ ॥
स्तनौ(स्तु ? तु) मेढ्रमूलान्तं सप्तमात्रमिति स्मृतम् ।
भान्वंशमूरुदीर्घं स्याज्जानु द्व्यङ्गुलमेव हि ॥ ३ ॥
जङ्घादीर्घं दशांशं तु द्व्यंशं पादतलोन्नतम् ।
दशांशोऽङ्घ्रितलायामो बाहुर्भान्वंशकं स्मृतम् ॥ ४ ॥
प्रकोष्ठं तु दशांशं स्यात् तलं वेदाङ्गुलायतम् ।
युगांशं मध्यमायाम सार्धाग्न्यंशमनामिका ॥ ५ ॥
तत्समं तर्जनीदीर्घं कनिष्ठायां गुणाङ्गुलम् ।
अङ्गुष्ठायाममग्न्यंशं + + + तलविस्तृतम् ॥ ६ ॥
प्रकोष्ठाग्रं गुणांशं तु तन्मूलं चतुरङ्गुलम् ।
भूतांशं बाहुमूलस्य विस्तारं समुदाहृतम् ॥ ७ ॥
सार्धाष्टांशं मुखव्यासं सप्तांशं कण्ठविस्तृतम् ।
कक्षयोरन्तरव्यासं त्रयोदशाङ्गुलं भवेत् ॥ ८ ॥
भान्वंशं हृदि विस्तारं रुद्रांशं मध्यविस्तृतम् ।
श्रोणिस्थाने तु भान्वंशं कटौ विश्वाङ्गुलं स्मृतम् ॥ ९ ॥
ऊरुमूलविशालं तु वस्वङ्गुलमुदाहृतम् ।
षडंशं जानुविस्तारं जङ्घामूलं युगाङ्गुलम् ॥ १० ॥
१. 'नादेस्त'- २. 'पञ्चमा' ख. पाठः.
७६ षोडशोऽध्यायः । [उत्तरभागः
गुणांशं नलकातारं षडंशं तलविस्तृतम् ।
पार्ष्णिव्यासं युगांशं स्याच्छेषं युक्त्या प्रकल्पयेत् ॥ ११॥
अथ मध्यमं चतुस्तालम् ।
उष्णीषं चैकभागेन केशान्तं च तथा भवेत् ।
वस्वंशं तु मुखायामं गलमष्ट्यंशमेव च ॥ १२ ॥
हिक्कादिहृदयान्तं तु षैडङ्गुलमुदाहृतम् ।
हृदयान्मेढ्रपर्यन्तं षडङ्गुलमुदाहृतम् ॥ १३ ॥
दशांशमूरुदीर्घं स्याद् द्व्यङ्गुलं जानुतुङ्गता ।
जङ्घादीर्घं तूरुतुल्यं द्विभागं चरणोदयम् ॥ १४ ॥
मन्वंशं तु करायामं मध्यमाङ्गुलिसीमकम् ।
शेषं युक्त्या तु कर्तव्यमुक्तमार्गानुसारतः ॥ १५ ॥
त्रिह्येकतालमेयानां प्रतिमानां विचक्षणः ।
अङ्गोपाङ्गादिमानानि प्रोन्नयेत् पूर्वशास्त्रतः ॥ १६ ॥
इति शिल्परत्ने उत्तरभागे चतुस्तालविधिर्नाम
पञ्चदशोऽध्यायः ॥
अथ षोडशोऽध्यायः ।
अथ किरीटादिलक्षणम् ।
अत्रैकाङ्गुलसम्मितेन परिवेष्ट्योष्णीषपट्टेन के
कोटीरं मकुटोज्ज्वलं विरचयेदष्टाङ्गुलैः सर्वतः ।
द्यष्टाभिर्धृतिसम्मितैर्दिनकरद्वन्द्वप्रमैरङ्गुलै-
रुष्णीषोपरि भासमानमकुटोपेतं किरीटं हरौ ॥ १ ॥
१. 'ध्यं' ख. पाठः. २. 'रसाङ्गु' ख. ग. पाठः.
किरीटादिलक्षणम् ] षोडशोऽध्यायः । ७७
कुर्यात् किरीटं शिखरैरुपेतं त्रिपञ्चसप्तप्रमितैर्यथार्हम् ।
अण्डोपमं वा कमलोपमं वा छत्रोपमं वा कमठोपमं वा ॥ २ ॥
युग्मसङ्ख्या जटा कार्या उभयोः पार्श्वयोः पृथक् ।
द्वात्रिंशन्मात्रमारभ्य अथैकाङ्गुलवृद्धितः ॥ ३ ॥
एकषष्ट्यङ्गुलान्तं तु जटादीर्घमुदाहृतम् ।
अधोजटा दीर्घतमास्तस्मादूर्ध्वोर्ध्वगास्तथा ॥ ४ ॥
क्रमान्न्यूना तु कर्तव्या तदर्हेषु समान्तरा ।
कनिष्ठाङ्गुलपरीणाहं जटानाहमुदाहृतम् ॥ ५ ॥
जटामकुटतुङ्गं तु चतुर्विंशाङ्गुलं तु वा ।
एकविंशाङ्गुलं वाथ कुर्यादष्टादशाङ्गुलम् ॥ ६ ॥
सप्तादशाङ्गुलं वाथ षोडशाङ्गुलमेव वा ।
केशान्तान्मकुटान्तं तु ललाटे पट्टसंयुक्तम् ॥ ७ ॥
मुखान्तव्याससदृशं मकुटस्य विशालकम् ।
तुङ्गार्थं वा त्रिपादं वा यथाशोभं प्रकल्पयेत् ॥ ८ ॥
तत्सप्ताष्टनवांशैकभीनमग्रविशालकम् ।
चतुष्पूरिमसंयुक्तं भान्वंशं पूरिमोदयम् ॥ ९ ॥
शम्भौ जटायां कर्तव्या मूर्ध्नि गङ्गा प्रमाणतः ।
भान्वङ्गुलायता वाथ षोडशांशसमुच्छ्रया ॥ १० ॥
हृदयेऽञ्जलिसंयुक्ता प्रोक्तस्त्रीलक्षणान्विता ।
किरीटमकुटं चैव केशं वा तत्र कल्पयेत् ॥ ११ ॥
मूलादग्रं क्रमात् क्षीणं करण्डमकुटस्य तु ।
अग्रस्य मुकुलाकारं मकुटस्य प्रकल्पयेत् ॥ १२ ॥
७८ | शिल्परत्ने | [उत्तरभागः
त्रिपञ्चसप्तसङ्ख्यैस्तु करण्डैश्च विराजितम् ।
करण्डमकुटं कार्यमन्यत् सर्वं यथापुरम् ॥ १३ ॥
त्रिचतुष्पञ्चमात्रं स्यात् पत्रकुण्डलविस्तृतम् ।
यवं वृत्तघनं प्रोक्तं श्वेताभं वात्र चार्तवम् ॥ १४ ॥
मकरं कुण्डलं वाथ सिंहकुण्डलमेव वा ।
गजादिकुण्डलं वाथ द्विचतुष्पञ्चमात्रकम् ॥ १५ ॥
कुर्याद् व्यासं च तुङ्गं च तत्तदाकारभेदतः ।
वृत्तकुण्डलविस्तारमष्टादशयवं भवेत् ॥ १६ ॥
वेदाङ्गुलं तु तत्तङ्गं रम्भाब्जमुकुलोपमम् ।
हिक्कासूत्रोपरिष्टात्तु उपग्रीवं तु बन्धयेत् ॥ १७ ॥
रुद्राक्षं वाथ रत्नं वा हेमक्लृप्तमणिं तु वा ।
नानाचित्रविचित्रं तु ग्रैवेयं वा यथोचितम् ॥ १८ ॥
कटकं वलयोपेतं प्रकोष्ठे तु प्रकल्पयेत् ।
कनिष्ठाङ्गुलिपरीणाहं वलयं वर्तुलं तु वा ॥ १९ ॥
अथवा वलयस्यैव घनं द्वित्रियवं तु वा ।
घनद्विगुणविस्तारं नानारत्नविचित्रितम् ॥ २० ॥
युगलं युगलं तत्तु प्रकोष्ठेषु प्रकल्पयेत् ।
केयूरं कूर्परादूर्ध्वे वलयोक्तघनान्वितम् ॥ २१ ॥
एकाकारं तु केयूरं साष्टपादाब्जसंयुतम् ।
नानारत्नसमायुक्तं शैवलाभमथापि वा ॥ २२ ॥
पत्रपूरितसंयुक्तं बाहुमध्ये प्रकल्पयेत् ।
पत्रपूरितनालं तु केयूरसदृशं घनम् ॥ २३ ॥
किरीटादिलक्षणम् ] षोडशोऽध्यायः । ७९
तत्पूरितादधोनालं बाहुमित्यावृतं तु वा ।
त्रिचतुष्पञ्चमात्रं वा पत्रपूरितविस्तृतम् ॥ २४ ॥
तद्व्यासार्धं तु तत्तुङ्गं पादोनद्विगुणं तु वा ।
द्विगुणं वापि कर्तव्यं तद् बाहुवलयं भवेत् ॥ २५ ॥
मध्याङ्गुलं विना शेषा अङ्गुला मुद्रिकान्विताः ।
मुद्रिकामूलपर्वस्था वृत्ता यवघनान्विताः ॥ २६॥
रत्नचित्रविचित्रा वा तत्तद्योग्यं समाचरेत् ।
मध्याङ्गुलाग्रमभये चूचुकोर्ध्वसमं भवेत् ॥ २७ ॥
तर्जन्यादिकनिष्ठान्तास्तुल्यमूलास्तु वक्रिताः ।
ईषद् वक्रितमङ्गुष्ठमूर्ध्वाग्रं तु बहिर्मुखम् ॥ २८ ॥
तथैव वरदं कृत्वा मणिबन्धकटौ पुनः ।
मध्याङ्गुलाग्रमालम्ब्य मेढ्राग्रान्तं बहिर्मुखम् ॥ २९ ॥
तदेव सिंहकर्णाख्यं तलमध्यगतं यदि ।
मध्याङ्गुलाग्रं वक्राभं तदुपान्तगतं तथा ॥ ३० ॥
अनामिकाग्रं¹ शेषाः स्युः पूर्ववत् परिकल्पिताः² ।
अभयाकारमालम्ब्य हस्तमूरौ समर्पितम् ॥ ३१ ॥
यदि तत् कटकं प्रोक्तं मणिबन्धं तूरुबाह्यतः ।
एकद्वित्र्यङ्गुलाद् बाह्ये कर्तव्यं बुद्धिमत्तमैः ॥ ३२ ॥
हिक्कासूत्रसमं मध्यमाग्रमूर्ध्वाननं करम् ।
बहिर्मुखं कर्तरी सा शङ्खचक्रादिसंयुता ॥ ३३ ॥
वक्रौ त्वनामिकाङ्गुष्ठौ तलमध्यगतौ पुनः ।
किञ्चिद् वक्रा कनिष्ठा सा द्वावन्यावप्युजुक्रियौ ॥ ३४ ॥
१. 'ग्राः', २. 'ल्पयेत्' क. ग. पाठः.
८० शिल्परत्ने [उत्तरभा०
तथा सूचीति विख्याता कर्णसूत्रसमोन्नता ।
तर्जन्याग्रं तदा तत्र योजयेदङ्कुशादिकम् ॥ ३५ ॥
अङ्गुष्ठानामिकामध्यमाङ्गुल्यस्तलमध्यगाः ।
किञ्चिद् वक्रा कनिष्ठा सा तर्जन्यृजुतरा भवेत् ॥ ३६ ॥
यज्ञोपवीतं सर्वेषां यवाष्टांशघनान्वितम् ।
उपवीतं त्रिसूत्राढ्यमुरस्सूत्रसमन्वितम् ॥ ३७ ॥
एकमेव ह्युरस्सूत्रमुपवीतघनान्वितम् ।
वामस्कन्धोपरिष्टात्तु नाभ्य(धो) द्व्यङ्गुलान्ततः ॥ ३८ ॥
यज्ञोपवीतदीर्घं तु नाभेर्दक्षिणपार्श्वगम् ।
अपरे वंशमाश्रित्य यज्ञसूत्रं निधापयेत् ॥ ३९ ॥
ऊरु ? उरस्सूत्रं समालम्ब्य स्तनादष्टाङ्गुलान्तरे ।
यज्ञोपवीतवत् कार्यं स्कन्धयोरुभयोरपि ॥ ४० ॥
पार्श्वयोश्चैव योन्यूर्ध्वं चन्नवीरमिदं विदुः ।
हिक्कात् षडङ्गुलाधस्तात् स्तनयोर्मध्यदेशतः ॥ ४१ ॥
ग्रैवेयहारमाख्यातं वेदमात्रवितानकम् ।
यवत्रयं घनं तस्य नानामणिहिरण्मयम् ॥ ४२ ॥
कण्ठादुदरबन्धान्तमक्षमालां प्रकल्पयेत् ।
हृन्मालेति प्रसिद्धा सा स्कन्धमालां च कारयेत् ॥ ४३ ॥
नानापुष्पमयी स्कन्धदेशे सा सम्प्रकीर्तिता ।
कटिसूत्रं त्रिभिः सूत्रैः सूत्रं प्रति यवं घनम् ॥ ४४ ॥
कटिसन्धोपरिष्टात्तु रत्नचित्रितमाचरेत् ।
मेढ्रादधः कृत्तिमास्यं पञ्चषट्सप्तमात्रकम् ॥ ४५ ॥
किरीटादिलक्षणम्] षोडशोऽध्यायः । ८१
तारं तारसमं तुङ्गं घनमर्धाङ्गुलं स्मृतम् ।
ततोरुमानत्र्यंशान्तं मुक्तादामादि लम्बयेत् ॥ ४६ ॥
पादौ जालकसंयुक्तौ गुल्फाधस्तात्तथैव च ।
जालकाबद्धसूत्रं तु यवद्वयघनान्वितम् ॥ ४७ ॥
तत्सूत्राज्जालकालम्बं त्रिपञ्चयवमानकम् ।
त्रियवं जालनालं तु व्यासतुल्यं तदुन्नतम् ॥ ४८ ॥
यवमानं घनं शेषं गाढमत्र प्रकल्पयेत् ।
गाढयुक्तं तु वृत्ताभमन्तःपाषाणसंयुक्तम् ॥ ४९ ॥
गाढहीनं घनं वान्तर्दृषदत्र न कारयेत् ।
भुजङ्गवलयं यत्र प्रकोष्ठादिषु रोचते ॥ ५० ॥
तत्प्रदेशपरीणाहात् सपादं स्यात्तदायतम् ।
तद्दीर्घादुपरि ख्यातं फणं भान्वङ्गुलायतम् ॥ ५१ ॥
सप्ताङ्गुलं तु विस्तारं घनं चैकाङ्गुलं फणे ।
अतितीक्ष्णतरे जिह्वे मुखे कुर्यात्तु लोचने ॥ ५२ ॥
वस्त्रं कौशेयकार्पासचीरचर्मादिकं पुनः ।
तत्तद्योग्यं प्रकर्तव्यं युक्त्या सर्वत्र बुद्धिमान् ॥ ५३ ॥
यद्द्रव्येण कृतं बिम्बं तेनैवायुधमाचरेत् ।
शताङ्गुलायतं चापं नवसप्ताशुगानलैः ॥ ५४ ॥
मात्रैर्युतं विहीनं वा नवधा धनुषोदयम् ।
पूर्णमुष्टिस्तु नाहः स्यान्मध्यादग्रौ क्रमात् कृशौ ॥ ५५ ॥
अग्रावर्धाङ्गुलौ व्यासौ वृत्तौ कार्यौ गुणाङ्गुलौ ।
'चितौ आयात्रिभागैके बाणनाभिस्तु मूलतः(?)॥
१. 'चीवौ आयामस्य त्रि' क. ख. पाठः.
चापायामाष्टभागोनं रज्जुदीर्घमुदाहृतम् ।
त्रिवक्रसहितं वाथ बालेन्दाकारमेव वा ॥ ५७ ॥
एकविंशाङ्गुलं बाणदीर्घं तद्विगुणं तु वा ।
कनिष्ठाङ्गुलिमानेन परिणाहं शरस्य तु ॥ ५८ ॥
आस्यायामं पञ्चमात्रं तत्ततारं चैव तत्समम् ।
आस्यदीर्घसमं पुच्छं पत्रबन्धविचित्रितम् ॥ ५९ ॥
पत्राणामङ्गुलं व्यासं पृष्ठे ज्यानाभिमाचरेत् ।
पुच्छतारत्रिभागैकं ना(भ्या ? भ्य)गाधं च विस्तृतम् ॥६०॥
टङ्कं भान्वङ्गुलायामं कुर्याद् युक्त्या बहिर्मुखम् ।
मृगं बहिर्मुखं वाथ कुर्यादन्तर्मुखं तथा ॥ ६१ ॥
द्वादशाङ्गुलमायामं तस्योच्चं युक्तितश्चरेत् ।
द्वादशाङ्गुलविस्तारं चक्रं शङ्खं तथैव च ॥ ६२ ॥
डमरोर्दीर्घविस्तारे वसुपञ्चाङ्गुलान्विते ।
मध्यं गुणाङ्गुलं व्यासमायामं चैव तत्समम् ॥ ६३ ॥
वलयद्वयसंयुक्तं चर्मसूत्रादिसंयुतम् ।
नवाङ्गुलं तु विस्तारं तारादधं त्रिपादकम् ॥ ६४ ॥
उच्चं कमण्डलोः कुर्याद् यथाकारं तथैव च ।
पद्मं तालसमुच्छ्रयं द्विगुणविस्तारं च षोढा कृते
मूले पट्टमिलांशतो द्वितयतो वाधस्तनाष्टच्छदम् ।
अङ्घ्र्यूनप्रथमब्जमध्यमुपरिष्टादष्टपत्रं त्रिभि-
र्भागैः पट्टयुतं करोतु कमलेनामात्र पीठोच्छ्रयः ॥ ६५ ॥
विंशत्या प्रतिमाङ्गुलैः प्रविततं वृन्ते तया सैकया
नालं सद्वितयापि वाथ विततेरष्टाचलाङ्गांशकैः ।
१. 'पा' ग. पाठः,
लेप्यबिम्बे शूललक्षणम् ] सप्तदशोऽध्यायः । ८३
अन्ते हीनवितानमारचयतु ब्रह्मोपलान्तायतं
तुर्याश्रं सकलेषु वैधसमिदं वृत्तं क्वचिच्चैश्र्वरम् ॥ ६६¹ ॥
इति शिल्परत्ने उत्तरभागे किरीटकटकादिलक्षणं नाम
षोडशोऽध्यायः ॥
अथ सप्तदशोऽध्यायः ।
अथ लेप्यबिम्बे शूललक्षणम् ।
लेप्यबिम्बे प्रकर्तव्ये कारयेच्छूलमादितः ।
तत्तदङ्गान्तरङ्गस्थमस्थिवच्छूलमेव तत् ॥ १ ॥
खदिराद्यैः सारवृक्षैर्युक्तितः शूलमाचरेत् ।
शिलासंग्रहवद् दारुस्वीकारं कारयेदिह ॥ २ ॥
पुंवृक्षैरेव देवानां देवीनां स्त्रीमहीरुहैः ।
हिक्काधःकायतुल्यं स्याद् वंशदण्डायतं स्मृतम् ॥ ३ ॥
मध्योदरविशालस्य चतुर्भागैकविस्तृतम् ।
तदष्टांशविहीनं स्याद् वंशदण्डाग्रविस्तृतम् ॥ ४ ॥
नाभ्यन्तं चतुरश्रं तु हिक्कान्तं वसुकोणकम् ।
तदूर्ध्वं वृत्तमाख्यातमशेषं वृत्तमेव वा ॥ ५ ॥
द्वात्रिंशदङ्गुलं दीर्घं पक्षदण्डायतं स्मृतम् ।
विस्तारं सार्धषण्मात्रमथ सप्ताङ्गुलं तु वा ॥ ६ ॥
विस्तारार्धं घनं प्रोक्तं पक्षदण्डस्य तस्य तु ।
मध्यादंशक्रमादग्रौ कृशौ स्यातां युगाङ्गुलौ ॥ ७ ॥
पक्षदण्डस्य मध्ये तुच्छिद्रं सार्धगुणाङ्गुलम् ।
हिक्कादण्डादधस्तात्तु पक्षदण्डोर्ध्वपार्श्वकम् ॥ ८ ॥